दानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

दानं भारतीयसमाजस्य प्रमुखाङ्गत्वेन अङ्गीक्रियते। तस्मिन् समाजे दानस्य आतिथ्यस्य च प्रतिष्ठाऽऽसीत् । यो नरः देवान्, पितृन्, अतिथीन् च दानेन न तृप्तमकरोत्, सः पुरुषः ‘अनद्धा' ‘अनृतम्’ कथ्यते।

‘क अनद्धा पुरुष इति ? न देवान्, न पितृन्, न मनुष्यान् इति'[१]

सायंकाले समागतस्य अतिथेः केनापि प्रकारेण निराकरणं न कर्त्तव्यमिति।

‘यदा वै अतिथि परिवेविषत्यापीन इव वै स तर्हि भवति' ।[२]

यः पुरुषः अतिथिसेवां करोति, स वै पीनो भवति, प्रसन्नो भवति च। तस्मिन् काले आतिथ्यः यज्ञस्य शिर अासीत् । अतिथिपूजनं तदा यज्ञपूजनमिवासीत् ।

‘शिरो वा एतद् यज्ञस्य यद् आतिथ्यम् ॥'[३]

सम्बद्धाः लेखाः

सन्दर्भः

फलकम्:Reflist

  1. ऐत० ब्रा० ७॥९
  2. ऐ० ब्रा० १॥१७
  3. ( ऐत० १॥२५ )
"https://sa.bharatpedia.org/index.php?title=दानम्&oldid=7314" इत्यस्माद् प्रतिप्राप्तम्