दम्भो दर्पोऽभिमानश्च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः

दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च अज्ञानं च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ ४ ॥

अन्वयः

पार्थ ! आसुरीं सम्पदम् अभिजातस्य दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च भवन्ति ।

शब्दार्थः

दम्भः - धार्मिकतया आत्मनः ख्यापनम्
पारुष्यम् = परुषवचनम्
आसुरीम् = राक्षसीम्
सम्पदम् = विभवम् ।

अर्थः

पार्थ ! आसुरीं सम्पदम् अभिलक्ष्य जातस्य पुरुषस्य वेषभूषादिना आत्मनः धार्मिकतया ख्यापनम्,अहारः, आत्मनि पूज्यत्वबुद्धिः, कठोरवादित्वम्, अविवेकः च इत्येते गुणाः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः