दमोहमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

दमोहमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दमोह इति नगरम् ।

भौगोलिकम्

दमोहमण्डलस्य विस्तारः ७,३०६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कटनीमण्डलं, पश्चिमे सागरमण्डलम्, उत्तरे छतरपुरमण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति । अस्मिन् मण्डले सोनारनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं दमोहमण्डलस्य जनसङ्ख्या १२,६४,२१९ अस्ति । अत्र ६,६१,८७३ पुरुषाः, ६,०२,३४६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१० अस्ति । अत्र साक्षरता ६९.७३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- दमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले वज्रचूर्णस्य उच्चतमः व्यापारः अस्ति । अस्मात् मण्डलात् आभारतं वज्रचूर्णः विक्रयणार्थं प्रेष्यते ।

वीक्षणीयस्थलानि

नोहलेश्वर-मन्दिरम्

नोहलेश्वर-मन्दिरं नोहटा-ग्रामात् १ कि. मी. दूरे अस्ति । अस्मिन् मन्दिरे एकं भव्यं शिवलिङ्गम् अस्ति । शिवस्य अपरं नाम महादेव इति । अतः जनाः नोहलेश्वरमहादेव इति नाम्ना अपि इदं मन्दिरं जानन्ति । अस्य मन्दिरस्य निर्माणम् ई. ९५०-१००० तमे वर्षे अवनि वर्मा इत्यनया राज्ञ्या कारितम् । सा राज्ञी चालुक्य-वंशीया आसीत् । जटाशङ्कर, गिरि दर्शन, निदानकुण्ड, सद्भावना शिखर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयानि स्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://damoh.nic.in/
http://www.census2011.co.in/census/district/295-damoh.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=दमोहमण्डलम्&oldid=6160" इत्यस्माद् प्रतिप्राप्तम्