दन्तेश्वरी (दन्तेवाडा)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


दन्तेश्वरी (दन्तेवाडा) एतत् शक्तिपीठं भारतस्य छत्तिसगढराज्यस्य जगदाल्पुरमण्डले दन्तेवाडासमीपे (८० की.मी.) बस्सार् इत्यत्र अस्ति ।

वैशिष्ट्यम्

ऐतिह्यानुसारम् अत्र सतीदेव्याः दन्ताः पतिताः इति विश्वासः । अतः अत्रत्या देवी दन्तेश्वरी इति अत्रत्यशिवः कपालभैरवनाम्ना पूज्यते । एतत् स्थानं प्रकृतिसौन्दर्ययुक्तम् । एतत् मन्दिरं १४ शतके चालुक्यैः निर्मितम् अस्ति । प्रतिवर्षं दसरासमये अत्र उत्सवः भवति ।

"https://sa.bharatpedia.org/index.php?title=दन्तेश्वरी_(दन्तेवाडा)&oldid=1393" इत्यस्माद् प्रतिप्राप्तम्