दतियामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

दतियामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दतिया इति नगरम् ।

भौगोलिकम्

दतियामण्डलस्य विस्तारः २,९०२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे ग्वालियरमण्डलम्, उत्तरे भिण्डमण्डलं, दक्षिणे उत्तरप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले सिन्धनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं दतियामण्डलस्य जनसङ्ख्या ७,८६,७५४ अस्ति । अत्र ४,२०,१५७ पुरुषाः, ३,६६,५९७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७३ अस्ति । अत्र साक्षरता ७२.६३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- दतिया, सेवन्धा, इन्दरगढ, भण्डेर ।

वीक्षणीयस्थलानि

पीताम्बरा-पीठम्

पीताम्बरा-पीठम् भारतदेशस्य एकं प्रसिद्धं शक्तिपीठम् अस्ति । तस्मिन् पीठे श्री गोलोकवासी स्वामीजी महाराज इत्यनेन बगलामुखीदेव्याः, धूमावतीदेव्याः च प्रतिष्ठापना कृता । तत्र एकं शिवमन्दिरम् अस्ति यत् एकमात्रं महाभारतकालीनं शिवमन्दिरम् अस्ति । पीताम्बरा-पीठे अन्यान्यपि बहूनि मन्दिराणि सन्ति ।

सोनगिरि

सोनगिरि जैनेषु अन्यतराणां दिगम्बराणां पवित्रतीर्थस्थलम् अस्ति । तत्स्थलं परितः श्वेतशैलेभ्यः निर्मितानि बहूनि जैनमन्दिराणि सन्ति ।

बीरसिंहदेव-भवनम्

बीरसिंहदेव-भवनं सप्तभूमम् अस्ति । इदं भवनं राज्ञा बीरसिंहदेवेन ई. १६१४ तमे वर्षे निर्मापितम् । इदं भवनं केवलं पाषाणैः निर्मितमस्ति । बडोनी, बोटानिकल गार्डन, राजगढ पैलेस एवं सङ्ग्रहालयः इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://datia.nic.in/
http://www.census2011.co.in/census/district/289-datia.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=दतियामण्डलम्&oldid=350" इत्यस्माद् प्रतिप्राप्तम्