थामस् हेन्रि हक्स्लि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

थामस् हेन्रि हक्स्लि पौत्रेण जूलियन्नेन सह

(कालः – ०४. ०५. १८२५ तः २९. ०६. १८९५)

अयं थामस् हेन्रि हक्स्लि (Thomas Henry Huxley) विकासवादस्य समर्थकः । अयं १८२५ तमे वर्षे मेमासस्य ४ दिनाङ्के जन्म प्राप्नोत् । अस्य पिता विद्यालये शिक्षकः आसीत् । अस्य थामस् हेन्रि हक्स्लेः प्राथमिकं शिक्षणं द्वितीये वर्षे एव समाप्तम् । तथापि सः स्वाध्ययनेन एव विद्यार्थिवेतनं सम्पाद्य लण्डन्-विश्वविद्यालये वैद्यकीयविद्यार्थिरूपेण प्रवेशं प्राप्नोत् । अयं थामस् हेन्रि हक्स्लि १८४५ तमे वर्षे वैद्यशिक्षणं समाप्य वैद्यपदवीं प्राप्नोत् । अनन्तरं १८४६ तः १८५० पर्यन्तं ४ वर्षाणि यावत् आस्ट्रियादेशे नौकावैद्यरूपेण कार्यम् अकरोत् । तदवसरे सः थामस् हेन्रि हक्स्लि बहुत्र प्रवासम् अकरोत् । अयं थामस् हेन्रि हक्स्लि अपि चार्ल्स् डार्विन्, आल्फ्रेड् व्यालेस् इव प्रकृतिचरित्रे आसक्तः आसीत् । ’हेल्लिफिश्’ इति ये मीनाः उच्यन्ते तेषां वंशस्य “सिलेण्टरेट्” इति नामकरणम् अयं थामस् हेन्रि हक्स्लि एव अकरोत् । अयं १८५१ तमे वर्षे रायल् सोसैट्यां चितः अभवत् । तदनन्तरं १८५४ तमे वर्षे रायल् स्कूल् आफ् मैन्स् मध्ये “प्रकृतिचरित्र”-विभागे प्राध्यापकपदम् अपि प्राप्नोत् । अयं थामस् हेन्रि हुक्स्लि शरीरविज्ञानस्य विषये गभीरं ज्ञानं सम्पादितवान् आसीत् । सः केशाणाम् अधः विद्यमानं कञ्चित् कोशं संशोधितवान् । तस्य कोशस्य नाम अद्यापि “हक्स्लिकोशः” इत्येव अस्ति ।

अयं थामस् हेन्रि हक्स्लि वैज्ञानिक्याः पद्धतेः आराधकः आसीत् । अतः सः विज्ञानविषयाः प्राथमिकविद्यालयेषु अपि पाठनीयाः इति आग्रहम् अकरोत् । तस्य आग्रहस्य कारणतः इङ्ग्लेण्ड्-देशस्य शिक्षणस्य पद्धतिः अपि प्रगतिं प्राप्नोत् । विकासवादं जनप्रियम् अकरोत् इत्येतत् एव थामस् हेन्रि हक्स्लेः जीवनस्य प्रमुखं कार्यम् । विकासवादस्य विरोधं ये कुर्वन्ति स्म तान् सर्वान् धिक्कृत्य प्रबलतया डार्विनं समर्थितवान् अयम् । विकासवादस्य समर्थनावसरे कदाचित् आक्स्फर्ड् मध्ये काचित् घटना प्रवृत्ता । तत्र ब्रिटिश् असोसोयेषन् द्वारा सभा आयोजिता आसीत् । सभायां विद्यमानः विल्बर्फोर्स् इत्याख्यः कश्चन क्रैस्तधर्मगुरुः अस्य थामस् हेन्रि हक्स्लेः उपहासं कुर्वन् – “मर्कटाः भवतः पूर्वजाः इति वदति खलु, ते भवतः पितुः बान्धवाः वा उत मातुः वा ?” इति अपृच्छत् । तदा थामस् हेन्रि हक्स्लि – “यदि मम प्रपितामहादयाः के इति वक्तव्यं भवति तर्हि तदा अपि अहं निष्कपटान् मर्कटान् एव चिनोमि, न तु विज्ञानक्षेत्रे सम्पूर्णतया अज्ञानी चेत् अपि यत्किमपि भाषमाणं मनुष्यम् ।“ इति प्रत्युत्तरम् अददात् । तदनन्तरम् अग्रे सः उपहासं कर्तुम् उद्युक्तः विल्बर्फोर्स् किमपि न अवदत् एव । अयं थामस् हेन्रि हक्स्लि जनप्रियः विज्ञानलेखकः आसीत् । सः जीवनस्य अन्तिमं कालं धर्मसम्बद्धानां प्रश्नानाम् उत्तरं यच्छन् यापितवान् । सः १८९५ तमे वर्षे जून्-मासस्य २९ तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=थामस्_हेन्रि_हक्स्लि&oldid=8949" इत्यस्माद् प्रतिप्राप्तम्