थामस् हण्ट् मार्गन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist (कालः – २५. ०९. १८६६ तः ०४. १२. १९४५)

अयं थामस् हण्ट् मार्गन् (Thomas Hunt Morgan) आनुवंशिकविज्ञानस्य सिद्धपुरुषः । एषः थामस् हण्ट् मार्गन् १८६६ तमे वर्षे सेप्टेम्बरमासस्य २५ तमे दिनाङ्के अमेरिकादेशस्य केन्‍टकी इति प्रान्तस्य लेक्सिङ्ग्टन् इति प्रदेशे जन्म प्राप्नोत् । २५ तमे वयसि पदवीं प्राप्य १८९० तमे वर्षे जान्-हाप्किन्स्-विश्वविद्यालये “डाक्टरेट्” प्राप्नोत् । अग्रिमे वर्षे ब्रैन्मार् इति महाविद्यालये शिक्षकरूपेण नियुक्तः अभवत् । १९०४ तमे वर्षे “कोलम्बिया”-विश्वविद्यालये प्रायोगिक–प्राणि–विज्ञानस्य प्राध्यापकः अभवत् । १९१० तः १९३० पर्यन्तः कालः अस्य थामस् हण्ट् मार्गनस्य संशोधनस्य कालः । एषः यदा ब्रैन्मार् महाविद्यालये आसीत् तदा एव आनुवंशिकशास्त्रस्य मूलानि दृढानि अभवन् अस्य मनसि । ग्रिगोर् जोहान् मेण्डेलस्य तत्त्वम् एषः थामस् हण्ट् मार्गन् अपि अङ्गीकृतवान् आसीत् । सः मेण्डेल् कोशविभजनस्य अवसरे कोशे विद्यमानेषु वर्णतन्तुषु यानि परिवर्तनानि भवन्ति तानि एव वंशश्रेण्याः वंशश्रेणीं प्रति गुणलक्षणानां गमनस्य निर्णयं कुर्वन्ति इति प्रतिपादितवान् आसीत् । २०० वर्णतन्तुयुक्तानां मानवानाम् अपत्येश्षु तर्हि कथं सहस्रशः गुणलक्षणानि दृश्यन्ते ? तथा चेत् प्रत्येकस्मिन् वर्णतन्तौ अपि गुणानां निर्णयस्य वा परिवर्तनस्य वा गुणांशः स्यात् इति संशयः आरब्धः थामस् हण्ट् मार्गनस्य मनसि । तान् विशिष्टान् गुणांशान् सः थामस् हण्ट् मार्गन् “गुणाणवः” (जीन्स्) इति अवदत् । ग्रीक् भाषायां गुणाणुः (जीन्) इत्युक्ते जननस्य कारणम् अथवा जननम् इति अर्थः ।

कोशविभजनस्य अवसरे वर्णातन्तवः यत् द्विगुणिताः भवन्ति, तिर्यक् चलनं (Crosing over) यत् भवति, पुनः संयोगः (Recombination) यः भवति, तदाधारेण एव जीविषु आनुवंशिकानि लक्षणानि निर्णीयन्ते । वर्णतन्तवः यदा विच्छिन्नाः सन्तः पृथक् भवन्ति तदा ते गुणाणवः कथं व्यवहरन्ति ? ते आनिवंशिकानि लक्षणानि कथं वहन्ति च इत्यादिकं ज्ञातम् अस्य थामस् हण्ट् मार्गनस्य संशोधनैः एव । एषः थामस् हण्ट् मार्गन् १९०७ वर्षे “ड्रासोफिला” नामिकानां मक्षिकाणां वर्धनं पालनं च कुर्वन् संशोधनम् आरब्धवान् । १९१५ वर्षाभ्यन्तरे गुणाणूनां स्वरूपस्य विषये कश्चन निर्णयः कर्तुं शक्यः अभवत् तैः थामस् हण्ट् मार्गन् तथा तस्य त्रिभिः शिष्यैः च । तदनन्तरम् अपि १० वर्षाणि यावत् अस्मिन् विषये संशोधनं कृत्वा १९२६ तमे वर्षे “गुणाणूनां कथा” (दि थियरि आफ् जीन्) इति पुस्तकम् अलिखत् अयं थामस् हण्ट् मार्गन् ।

वंशश्रेणीतः वंशश्रेणीं प्रति गमनसमये गुणाणवः कदाचित् विच्छिन्नाः सन्तः पृथक् भवन्ति इति ह्यूगो द व्रीस् संशोधितवान् आसीत् । एषः थामस् हण्ट् मार्गन् अपि तत् अङ्गीकृतवान् । १९११ वर्षाभ्यन्तरे वर्णतन्तूनां मानचित्रम् अपि सज्जीकृतम् । अनेन थामस् हण्ट् मार्गन्नेन वर्धितम् आनुवंशिकं विज्ञानं सर्वैः अङ्गीकृतम् आनुवंशिकं विज्ञानम् इति वदन्ति । एषः थामस् हण्ट् मार्गन् १९२७ तः १९३१ पर्यन्तं राष्ट्रिय–विज्ञान–अकादम्याः अध्यक्षः आसीत् । एषः थामस् हण्ट् मार्गन् १९३३ तमे वर्षे “नोबेल्” पुरस्कारेण सम्मानितः अपि । एषः १९४५ तमे वर्षे डिसेम्बरमासस्य ४ दिनाङ्के पेसडीना इति प्रदेशे इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=थामस्_हण्ट्_मार्गन्&oldid=666" इत्यस्माद् प्रतिप्राप्तम्