थामस् एडिसन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

A Day with Thomas Edison (1922)
थामस् एडिसन्

थामस् एडिसनस्य नाम वयं सर्वे जानीमः एव । सः कदाचित्‌ चिन्तितवान्‌ 'मया मतदानपञ्जीकरणयन्त्रं निर्मातव्यम्‌' इति । निरन्तरचिन्तनेन सः तादृशस्य यन्त्रस्य निर्माणे समर्थः जातः एव । यन्त्रस्य स्वाम्यम्‌ अपि सम्पादितं तेन । एतस्मात्‌ मया प्रभूतं यशः सम्पाद्येत इति अभावयत्‌ सः । राष्ट्राध्यक्षाय तत्‌ यन्त्रं दर्शयितुं सः वाषिङ्गटन्‌ नगरं गतवान्‌ । संसदः सभाध्यक्षः च तेन दृष्टः । स्वस्य यन्त्रस्य वैशिष्ट्यं कार्यनिर्वहणसामर्थ्यं च सः विवृतवान्‌ अध्यक्षस्य पुरतः । एतस्य उपयोगतः मतदानविलम्बस्य दोषः दूरीकर्तुं शक्यः । एकस्य क्षणस्य विलम्बम् अपि एतत्‌ यन्त्रं न सहते । मतदाने एकोऽपि दोषः न भवति एतस्य उपयोगतः इति अवदत्‌ सः । सर्वे अपि सश्रद्धं श्रुत्वा तदीयं प्रयत्नं प्रशस्तवन्तः । राष्ट्राध्यक्षः - 'यन्त्रमिदं संसद्भवने यदि योज्येत तर्हि मतदाने शीघ्रता भवेत्‌ । किन्तु एतत्‌ यन्त्रम् अत्र प्रयोजनाय न भवेत्‌ । यतः राजनीतिपुरुषाः विलम्बम् एव इच्छन्ति । चर्चानिर्वहणादिनिमित्तं कालविलम्बः आवश्यकः एव भवति' इति उक्त्वा यन्त्रस्वीकारं निराकृतवान्‌ । एतस्य श्रवणात्‌ एडिसनः विषण्णवदनः जातः । गुणः अपि अत्र दोषाय जातः इति चिन्तयन्‌ सः निर्णीतवान्‌ इतः परं मया उच्चस्तरीयेभ्यः किमपि न करणीयम्‌ । यः यः आविष्कारः क्रियेत सः सामान्यानां जनानां निमित्तम् एव स्यात्‌ इति । अग्रे तेनैव एडिसन्‌ महोदयेन विद्युद्दीपस्य आविष्कारः कृतः ।

बाह्यसम्पर्कतन्तुः

Locations
Information and media
"https://sa.bharatpedia.org/index.php?title=थामस्_एडिसन्&oldid=9863" इत्यस्माद् प्रतिप्राप्तम्