त्वमक्षरं परमं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः

त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनः त्वं पुरुषः मतः मे ॥ १८ ॥

अन्वयः

त्वं परमं वेदितव्यम् अक्षरम्, त्वम् अस्य विश्वस्य परं निधानम्, त्वम् अव्ययः, शाश्वतधर्मगोप्ता, त्वं सनातनः पुरुषः मे मतः ।

शब्दार्थः

त्वम् = भवान्
परमम् = उत्कृष्टम्
वेदितव्यम् = ज्ञातव्यम्
अक्षरम् = अनश्वरं ब्रह्म
त्वम् अस्य = त्वम् एतस्य
विश्वस्य = जगतः
परम् = परमम्
निधानम् = आश्रयः
त्वम् अव्ययः = त्वं नाशरहितः
शाश्वतधर्मगोप्ता = सनातनधर्मरक्षकः
त्वं सनातनः = त्वं शाश्वतः
पुरुषः = पुरुषोत्तमः
मे = मम
मतः = अभीष्टः।

अर्थः

त्वम् अनश्वरम् उत्कृष्टं ब्रह्म, त्वम् अस्य जगतः आधारः, त्वं नाशरहितः सनातनधर्मरक्षकः च त्वं शाश्वतः पुरुषोत्तमः च असि । एवम् अहं जानामि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=त्वमक्षरं_परमं...&oldid=529" इत्यस्माद् प्रतिप्राप्तम्