त्रिपुरसुन्दरी (त्रिपुरा)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


त्रिपुरसुन्दरी (त्रिपुरा) एतत् शक्तिपीठं भारतस्य त्रिपुराराज्ये उदयपुरसमीपे स्थिते राधाकिशोरपुरस्य समीपे अस्ति त्रिपुरसुन्दर्याः क्षेत्रम् । अत्रत्यशक्तिपीठस्य अधिदेवता एषा ।

सम्पर्कः

देशस्य नानाभागेभ्यः सम्पर्कः अस्ति । त्रिपुराराज्यस्य राजधान्याः अगर्तलातः ५५ की.मी.दूरे , उदयपुरतः ३ की.मी. दूरे च अस्ति ।

वैशिष्ट्यम्

१६ शतकस्य एतं लघुदेवालयं मतबारिदेवालयः इति वदन्ति स्म । ऐतिह्यानुसारम् अत्र सतीदेव्याः दक्षिणः पादः पतितः इति विश्वासः । अत्रत्यपीठं कूर्माकारेण अस्ति इत्यतः कूर्मपीठम् इत्यपि प्रसिद्धम् । अत्रत्या देवी त्रिपुरसुन्दरी, त्रिपुरभैरवी, ललिताम्बा इत्यादिभिः नामभिः, अत्रत्यशिवः त्रिपुरेशनाम्ना च पूज्यते । देव्याः विग्रहः पञ्चपादपरिमितोन्नतः। एतेन सह द्विपादपरिमितोन्नतः लघुविग्रहः अपि अस्ति । एतां देवीं लघुमाता इति निर्दिशन्ति । मन्दिरस्य पृष्ठभागे लघुसरोवरम् अस्ति । तस्य कल्याणसागरः इति नाम । अस्मिन् सरोवरे असङ्ख्याकाः मीनाः कूर्माः च सन्ति । नैसर्गिकरूपेण मृतस्य मीनस्य कूर्मस्य वा विध्युक्तरीत्या अन्त्यसंस्कारः क्रियते ।