त्रिकप्रसवप्रयोग:

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


तत्र पूर्वं विचारसूत्रम्

शान्तिसर्वस्वं - सुतत्रयॆ सुताचेत्स्यात्तत्त्रयॆ व सुतॊ यदि। माता पीत्रॊ कुलस्यापि तत्रानिष्टं महद्भयम्। ज्येष्ठनाशॊ धनॆ हानिदुःखं च सुमहद्भवेत्। जातस्यैकादशाहॆ वा द्वादशाहॆ शुभॆ दिनॆ॥ आचार्य्यमृत्विजॊ कृत्वा ग्रहयज्ञ पुरस्सरम्। ब्रह्माविष्णुमहेन्द्राणां प्रतिमाः स्वर्णतः कृताः। पुजयेद्धान्यराशिस्थकलशोपरिसंस्थिताः। पञ्चमं कलशॆ रुद्रं पुजयेदुद्रसंख्यया। चत्वारि शान्तिसूक्तानि पठनियानि सर्व्वतः। द्विज एकॊ जपेद्धोमकालॆ शूचिः समाहितः। आचार्यॊ जुहुयात्तत्र समिदाज्यतिलान् चरु, अष्टोत्तरसहस्रं वा शतं वा विंशतिस्तथा। देवताभ्यश्चतुर्वक्त्रादिभ्यॊ ग्रहपुरस्सरम्। ब्रह्मादिमन्त्रैरिन्द्रस्य यत इन्द्रः भयामहॆ। ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं ततः। अभिषेकं कुटुम्बस्य कृत्वाचार्य्य प्रतोषयेत्। हिरण्यं धनुरेकां च ऋत्विजां दक्षिणांस्तथा। प्रतिमा गुरवॆ देया उपस्करसमन्विताः। कांसाज्यवीक्षणं कृत्वा शान्तिपाठं च कारयेत्।इति शान्तिसूत्रम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=त्रिकप्रसवप्रयोग:&oldid=10300" इत्यस्माद् प्रतिप्राप्तम्