तैत्तिरीयब्राह्मणम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

तैत्तिरीयब्राह्मणं कृष्णयजुर्वेदीयशाखाया एकमात्रमुपलब्धं ब्राह्मणमस्ति । काठकब्राह्मणस्य केवलं नाम एव श्रूयते । अद्यावधिस्तस्य उपलब्धिः नास्ति । तैत्तिरीयब्राह्मणस्य पाठः स्वरयुक्तो लभते, शतपथब्राह्मणमिवेति । फलतः इदमपि नितान्तं प्राचीनं मन्यते। परिमाणे अपीदं न्यूनं नास्ति । काण्डत्रये विभक्तोऽयं ग्रन्थोस्ति । पश्चादृग्वेदीयविभाग इव अष्टकनाम्ना प्रसिद्धोऽभवत् ।

स्वरूपम्

प्रथम-द्वितीयकाण्डयोः अष्टाध्यायाः सन्ति, तृतीयकाण्डे च द्वादशाध्यायाः सन्ति । अस्यावान्तरखण्डः ‘अनुवाक्' इति नाम्ना ख्यातोऽस्ति । तैत्तिरीयब्राह्मणस्य प्रथमकाण्डे अग्न्याधान-गवामयन-वाजपेय-सोम-नक्षत्रेष्टि-राजसूयादीनां वर्णनमस्ति। द्वितीयकाण्डे अग्निहोत्र-उपहोम-सौत्रामणी-बृहस्पतिसव-वैश्यसवादीनां नानासत्राणां विवरणमस्ति । सौत्रामणीसत्रे सोमस्थाने सुरापानस्य अपि विधानमस्ति । प्रत्यनुष्ठानं ऋग्मन्त्राणामपि सर्वत्रोल्लेखोऽस्ति । अस्मिन् अनेकाः ऋचः ऋग्वेदात् समुद्धृताः सन्ति । नासदीयसूक्तस्य[१] मन्त्राणां विनियोगः सामान्योपहोमनिमित्ताय एवास्ति । उपनिषदीयब्रह्मतत्त्वस्य सङ्केतो अत्र अविस्मरणीयशब्देषु कृतोऽस्ति । यस्य वेदिमेव पृथिव्याः परमन्तं मध्यश्च मन्यते ।

'वेदिमाहुः परमन्तं पृथिव्याः वेदिमाहुर्भुवनस्य नाभिम्'[२]

तृतीयकाण्डस्तु अवान्तरकालिका रचना कथ्यते । अस्मिन् काण्डे प्रथमतः नक्षत्रेष्ट्याः वर्णनमस्ति । चतुर्थप्रपाठके पुरुषमेधस्योपयुक्तानां पशूनां वर्णनमस्ति । वर्णनमिदं कृष्णयजुर्वेदस्य संहितायामनुपलब्धमस्ति । अस्य काण्डस्यान्तिमाः त्रयः प्रपाठकाः (१०-१२) काठकनाम्नाऽभिहिताः सन्ति । सम्भवतः अंशोऽयं काठकशास्त्रीयब्राह्मणस्य भवेत्तथा केनाऽपि विशिष्टोद्देश्येनात्र सड्गृहीतो भवेत्। एकादशप्रपाठके ऋषिभरद्वाजः स्वब्रह्मचर्येण मुष्टित्रयमेव अलभत् । इदमेव त्रयीविद्या नाम्ना ख्याताऽभवत् । द्वादशप्रपाठके चातुर्होत्र-वैश्वसृज्यागादीनां वर्णनमस्ति । वैश्वसृज्यागस्तु प्रतीकात्मकानुष्ठानमस्ति । अस्मिन् यज्ञे समस्तानां पदार्थानां होमः सम्पन्नो भवति । देवास्तु सहस्रवर्षपर्यन्तम् अनुष्ठानमिदं कृतवन्तः । तेन ते ब्राह्मणैः सह सायुज्यम्, सालोकतां, साषितां, समानलोकतां चालभन् ।

विषयवस्तु

अस्मिन् ब्राह्मणे सामवेदः समस्तानां वेदानां शीर्षस्थानीयो मन्यते । मूक्तिस्तथा वैश्यस्योत्पत्तिः ऋग्वेदात्, गतिस्तथा क्षत्रियस्योत्पत्तिः यजुर्वेदात्, ज्योतिस्तथा ब्राह्मणस्योत्पत्तिः सामवेदादिति उक्त्वा सामवेदस्य श्रेष्ठत्वं स्थापितमनेन ब्राह्मणेन । नानाविधेषु यज्ञेषु गवां दक्षिणायाः एव सर्वत्र विधानमस्ति । वर्णव्यवस्थायाः पूर्णप्रतिष्ठा सर्वत्र समादृतास्ति । अश्वमेधस्तु केवलं क्षत्रियराज्ञे एव विहितोऽस्ति । अस्य वर्णनमपि विस्तरेण विशदतया अस्ति ।[३] वर्णनमिदं शतपथब्राह्मणस्य विवरणेन सह साम्यं भजते । क्षत्रियेषु भेदद्वयं दृश्यते ।

राज्याधिकारिणः क्षत्रियाः राजपुत्रा इति कथ्यन्ते, अनधिकारिणः क्षत्रियास्तु ‘उग्र' इति नाम्ना ख्याता आसन् । शूद्रास्तु यज्ञाय अपवित्राः आसन् । दुग्धोऽपि यच्छूद्रो दोग्धि यज्ञायापवित्रम् एवासीत्। ‘अहविरेव तद् यच्छूद्रो दोग्धीति'[४] पुरुषमेधाय निर्दिष्टपशूनाम् आलोचनया प्रतीतो भवति यत्तदा सङ्करजातीनामपि समुत्पत्तिरजायत । समाजे स्त्रीणां विशेषः समादर आसीत् । तदर्थमुपयुक्ताभूषणानामपि वर्णनं प्राप्यते। ऋत्विजः यज्ञीयदक्षिणास्वरूपे स्त्रीभ्य आभूषणानां महत्त्वं विशेषरूपेण अददः।[५] ब्राह्मणाः यज्ञावसरे यजीयविषयोपरि शास्त्रार्थमकुर्वन् । पुराणेषु उल्लिखितानाम् अवतारकथानां बीजमपि समुपलब्धो भवत्यत्र।[६] वाराहावतारस्य स्पष्टतः सङ्केतो लभते।

सम्बद्धाः लेखाः

सन्दर्भः

फलकम्:Reflist

  1. ऋ० १०।१२९
  2. तै० ब्रा० २॥७॥४-१०
  3. ३॥८॥९
  4. तै० ब्रा० ३॥१॥३
  5. ३॥१०॥४
  6. १॥|२
"https://sa.bharatpedia.org/index.php?title=तैत्तिरीयब्राह्मणम्&oldid=10611" इत्यस्माद् प्रतिप्राप्तम्