तेजस्वी सूर्यः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox officeholder तेजस्वी सूर्यः (नवम्बर् १६ १९९०) कश्चन भारतीयः राजनेता। बेङ्गलूरुदक्षिणक्षेत्रस्य लोकसभासदस्यः। तेजस्वी सूर्यः भारतीयजनतापक्षस्य कर्णाटकराज्यस्य युवमोर्चा इत्यस्य वक्ता वर्तते। वृत्त्या च अधिवक्ता वर्तते।[१][२] तेजस्वी सूर्यः २०१९ तमे भारतीयलोकसभानिर्वाचने बेङ्गलूरु दक्षिणक्षेत्रतः भारतीयजनतापक्षस्य संसत्सदसस्यः वर्तते। सः २०१९ तमे निर्वाचने भारतीयजनतापक्षस्य वयसा कनिष्ठतमः अभ्यर्थी आसीत्।[३] [४][५].

बाल्यजीवनम्

तेजस्वी सूर्यः डा. सूर्यनारायणः एवं रमा दम्पत्योः पुत्रः। वासस्थानं बेङ्गलूरुनगरस्य बसवनगुडि। तस्य परिवारः पारम्परिकः। बाल्यकाले संस्कृतबालकेन्द्रे अपि प्रशिक्षितः।[६][७] तस्य शिक्षणं तु कुमारन्स् शालायां, जयनगरस्य न्याशनल् कालेज् मध्ये, न्याशनल् ला कालेज् मध्ये च अभवत्।[८][९]

राजनैतिकजीवनम्

तेजस्वी सूर्यः बाल्यकालादपि सङ्घस्य स्वयंसेवकः आसीत्। महाविद्यालयाध्ययनकाले अखिलभारतीयविद्यार्थिपरिषदः राज्यकार्यदर्शी च आसीत्।[१०]२०१३-१०१४ वर्षयोः इण्डियाफाक्ट् इति पत्रिकायाः अङ्कणकारः अपि आसीत्। ३७० विधिः, त्रिप्पल् तलाख्, देशस्य भद्रता इत्यादिषु विषयेषु निपुणः वक्ता च ।[११][१२]

माध्यमम्

लोकसभानिर्वाचने तस्य स्पर्धा भवति इति विषयः सामाजिकजालपुटेषु मुख्यः विषयः अभवत्। तेजस्वी सूर्यः भारतस्य नूतनः युवनेता इति ट्विट्टर् मध्ये बहुविधसन्देशाः प्रसृताः।[१३][१४][१५]तं विरुध्य अपि माध्यमेषु अनेके विषयाः प्रवृत्ताः परन्तु तात्कालिकरूपेण तस्य अवरोधः अपि कृतः।[१६]

२०१९ निर्वाचनम्

२०१९ तमे लोकसभानिर्वाचने तेजस्वीसूर्यः काङ्ग्रेस् अभ्यर्थिनः हरिप्रसादस्य विरुद्धं ३,३१,१९२ मतैः जयं प्राप्तवान्।

२०२१ कोविड् बेड् अव्यवहारः

मे ५ २०२१ तमे दिनाङ्के रविसुब्रह्मण्यः, उदयगरुडाचार्यः, सतीशरेड्डी इति शासकैः सह कोविड् वैद्यालयान् गतवान् । तत्र वैद्यालये चलतः अव्यवहाराणां विषये प्रश्नः कृतः । पत्रकाराणां गोष्ठ्यां अव्यवहारः विस्तरेण विवृतः । एतस्मिन् विषये मतीयद्वेषं योजयतः जनानां विषये तेजस्वी सूर्यः खेदं प्रकटितवान् [१७] [१८]


उल्लेखाः

फलकम्:Reflist

बाह्यसम्पर्काः

  1. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  2. https://theprint.in/politics/modi-and-i-are-the-two-factors-in-the-bangalore-south-seat-tejasvi-surya/214671/
  3. https://theprint.in/politics/why-bjp-chose-tejasvi-surya-for-bengaluru-south-over-ananth-kumars-widow-tejaswini/212119/
  4. https://www.indiatoday.in/amp/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  5. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  6. https://www.livemint.com/
  7. http://tejasvisurya.in/biography/
  8. https://www.mynation.com/elections/bengaluru-south-tejasvi-surya-chosen-bjp-candidate-poymft
  9. https://www.dreshare.com/tejaswi-surya/
  10. http://tejasvisurya.in/biography/
  11. https://www.mynation.com/elections/income-tax-department-raids-dmk-leader-durai-murugan-house-pp6b6u
  12. https://swarajyamag.com/commentary/student-activism-and-the-abvp-part-1
  13. https://www.news18.com/amp/news/buzz/omg-omg-bjp-candidate-tejasvi-suryas-millennial-reaction-to-nomination-is-viral-on-twitter-2078163.html
  14. http://tejasvisurya.in/biography/
  15. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  16. https://www.thequint.com/amp/story/news%2Fpolitics%2Fcourt-stalls-publishing-derogatory-media-reports-against-tejasvi-surya
  17. https://kannada.asianetnews.com/state/bjp-mp-tejasvi-surya-press-conference-on-reforms-made-in-bbmp-bed-allocation-system-rbj-qsw64w
  18. https://www.republicworld.com/india-news/politics/tejasvi-surya-denies-making-bengaluru-covid-bed-racket-communal-curse-of-the-country-dot.html
"https://sa.bharatpedia.org/index.php?title=तेजस्वी_सूर्यः&oldid=7998" इत्यस्माद् प्रतिप्राप्तम्