तिरुवारूरुमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian Jurisdiction

तिरुवारूरुमण्डलं (Tiruvarur District) (तमिऴ्: திருவாரூர் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं तिरुवारूरुपत्तनम्।

भौगोलिकम्

तिरुवारूरुमण्डलस्य विस्तारः २१६१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पूर्वभागे उत्तरभागे च नागपट्टिनमण्डलं, पश्चिमे तञ्जावूरुमण्डलम्, ईशान्ये पुदुच्चेर्याः कारैकल्मण्डलं च अस्ति । दक्षिणभागे पाक् जलसङ्क्रमः अस्ति ।

इतिहासः

१९९१ तः प्राक् तिरुवारूरुमण्डलं नागपट्टिनमण्डलं च तञ्जावूरुमण्डलस्यभागः आस्ताम् । ततः तञ्जावूरुमण्डलं त्रेधाविभक्तम् । ततः भागान् स्वीकृत्य नागपट्टिन, तिरुवारूरुमण्डले निर्मितम् । तिरुवारूरुमण्डलस्य मुख्यानि पत्तनानि तिरुवारूरुः, तिरुत्तुरैपूण्डिः, नच्चिकुळं, मुत्तुपेट्टै, मन्नार्गुडिः च।

जनसंख्या

२०११ वर्षस्य जनगणनानुगुणं तिरुवारूरुमण्डलस्य जनसंख्या १,२६८,०९४ अस्ति। भारतस्य ६४० मण्डलेषु जनसंख्या दृष्ट्या अस्यमण्डलस्य ३८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५३३ (१३८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्ह्या वृद्धेः प्रमाणं ८.४३% आसीत्। मण्डले पुं, स्त्री अनुपातः १०००:१०२०, साक्षरताप्रमाणं च ८३.२६% अस्ति।

उपमण्डलानि

तिरुवारूरुमण्डले सप्त उपमण्डलानि सन्ति । तानि-

* कूडवासल्
* मन्नार्गुडिः
* नन्निलम्
* नीडमङ्गलम्
* तिरुत्तुरैपूण्डिः
* तिरुवारूरुः
* वलङ्गैमन्

वीक्षणीयस्थलानि

तिरुवारूरुः

तिरुवारूरुपत्तने श्रीत्यागराजस्वामिनः देवालयः अस्ति । इदं पवित्रं क्षेत्रं कर्णाटकसङ्गीतसम्प्रदायस्य त्रिमूर्तित्वेन ख्यातानां त्यागराज, मुत्तुस्वामिदीक्षित, श्यामशास्त्रिणां जन्मस्थानम् । अस्मिन् पत्तने प्रतिवर्षम् ‘अऴऴितेरु’ इत्याख्यः रथोत्सवः आचर्यते ।

मन्नार्गुडिः

इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामि देवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌-मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।

एङ्गन्

तिरुवारूरुतः १३ किलोमीटर् दूरे स्थिते अस्मिन् पत्तने मुरुगस्य देवालयः अस्ति ।

तिल्लैविलगम्

अयं ग्रामः तिरुत्तुरैपूण्डि उपमण्डले तिरुत्तुरैपूण्डितः २० किलोमीटर् दूरे अस्ति । अत्र श्रीकोदण्डरामस्वामिनः देवालयः अस्ति । श्रीवैष्णवानां पवित्रेषु अभिमानदेशक्षेत्रेषु इदम् अन्यतमम् । श्रीरामस्य देवालयस्य समीपे एव नटराजस्य मन्दिरम् अपि अस्ति।

कूतनूरुः

तिरुवारूरुतः २२ किलोमीटर् दूरे स्थिते नन्निल उपमण्डलस्य कूतनूरुक्षेत्रे सरस्वतीदेव्याः मन्दिरम् अस्ति ।

जम्बवनोदै दर्गा

तिरुत्तुरैपूण्डि उपमण्डले विद्यमानम् इदं मुस्लिमसमुदायस्य जनानां पवित्रक्षेत्रम् । इदं तिरुवारूरुतः ५३ किलोमीटर् दूरे, तिरुत्तुरैपूण्डितः २५ किलोमीटर् दूरे च अस्ति।


बाह्यसम्पर्कतन्तुः

फलकम्:Commons category

फलकम्:Geographic location

"https://sa.bharatpedia.org/index.php?title=तिरुवारूरुमण्डलम्&oldid=10136" इत्यस्माद् प्रतिप्राप्तम्