तिरुमले ताताचार्य

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


तिरुमले ताताचार्य शर्मा ति.ता.शर्मा अथवा टि.टि.शर्मा(Thirumale Thathacharya Sharma/Thitha Sharma/T T Sharma) इति ख्यातः लक्ष्मीकुमारः ताताचार्यः एव तिरुमले ताताचार्यशर्मा। ‘तिरुमले’ इति तस्य वंशस्य नाम । राजगुरुवंशजः ति.ता. शर्मा १८९६ तमे वर्षे कोलारमण्डलस्य चिक्कबळ्ळापुरनगरे जन्म प्राप्तवान् ।पिता श्रीनिवासताताचार्यः, माता जानकीयम्म । मैसूरुनगरे उन्नतशिक्षणं प्राप्तिसमये शर्मा भारतस्य स्वातन्त्र्यसमरं निमित्तं विद्याभ्यासं त्यक्त्वा पत्रिकोद्यमं प्रविष्टवान् । गान्धिजेः मार्गदर्शनम् अनुसृत्य शर्मा पत्रिकोद्यमी,स्वातन्त्र्ययोद्धा,राजनीतिज्ञः, साहित्यकारः, नाटककारः, समाजसेवकः, इतिहासकारः, शासनतज्ञः च भूत्वा राष्ट्रस्य निम्मित्तम् अमोघसेवां कृतवान् । मैसूरुक्रानिकल्”इति पत्रिकायाः द्वारा पत्रिकोद्यमरङ्गे पादार्पणं कृतवान् शर्मा केभ्यश्चित् वर्षेभ्यः अनन्तरं तां पत्रिकां “विश्वकर्णाटक” इति साप्ताहिकपत्रिकारूपेण परिवर्तितवान् । सप्तवर्षेभ्यः अनन्तरं सा पत्रिका दिनपत्रिका अभवत् । प्रजाप्रभुत्वस्य रक्षणाय जागतीकरणस्य दायित्वं सा पत्रिका निरूढवती । १९४७ तमवर्षतः १९४९ तमवर्षं यावत् कन्नडसाहित्यपरिषदः अध्यक्षः जातः शर्मा “कवि जनाश्रय” इति काञ्चित् योजनाम् अनुष्ठितवान् । नाटककलासक्तः एषः कन्नडस्य अनेकानि नाटकानि रङ्गभूमीं प्रति आनितवान्। टि.पी. कैलासं वर्येण विरचित “टोल्लु गट्टि” नाटकं प्रथमवारं रङ्गभूमिं प्रति आनयनस्य ख्यातिः शर्मणः एव अस्ति । शासनान् संशोध्य तेषां विश्लेषणस्य कार्ये निष्णातः एषः शासने विद्यमानानां कविनां विषये “कन्नड कविगळु” इति ग्रन्थस्य प्रकाशनं कृतवान् अस्ति । एषा तस्य प्रथमा कृतिः ।

कृतयः

  • रामरायन बखैरु (१९२२)
  • जूलियस् सीसर् (१९३१)
  • जगन्मोहन भवनदिन्द विदुराश्वत्तक्के ( जगन्मोहन भवनतः विदुराश्वत्थं प्रति) (१९३८)
  • कर्णाटकदल्लि स्वातन्त्र्य सङ्ग्राम (कर्णाटके स्वातन्त्रसङ्ग्राम) (१९५७)
  • प्रगति शील साहित्य (१९५७)
  • विक्रान्त भारत (१९६५)
  • विचार कर्णाटक (१९७०)
  • मास्तियवर मनोधर्म (१९७०)
  • नाटक शिरोमणी ए.वि.वरदाचार्य (१९७०)
  • मोक्ष गुण्डं विश्वेश्वरय्य (१९७१)
  • चारित्रिक दाखलेगळु (१९७१)
  • कण्ठीरव नरसराज विजय (१९७४)
  • बालगङ्गागाधरतिलक (१९७५)
  • होसहळ्ळिय भूपतिगळु ( १९७८ )
  • कर्मफल(कथा संङ्ग्रहः)

एताः शर्मणः मुख्यकृतयः । बहुमुखप्रतिभान्विताय ति.ता शर्मणॆ १९४७ तमे वर्षे केरळराज्यस्य कासरगोडुमण्डले प्रचलितस्य एकत्रिशंत् तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं दत्त्वा सम्मनितवन्तः ।

"https://sa.bharatpedia.org/index.php?title=तिरुमले_ताताचार्य&oldid=10509" इत्यस्माद् प्रतिप्राप्तम्