तिरुक्कुरळ्
तमिळ्साहित्यक्षेत्रे सङ्घकालसाहित्यानि एव अति पुरातनानि सन्ति । तेषु अष्टादशग्रन्थानां सङ्ग्रहः अस्ति “ पदिनेण् कीळ् कणक्कु “ । तेषु अन्यतमं “ तिरुक्कुरळ्“ (Tirukkural) अस्ति । तिरुक्कुरळ् लोकप्रसिद्धः तमिळ्ग्रन्थः अस्ति । तस्य लेखक: तिरुवळ्ळुवर् अस्ति । एषः ग्रन्थः जीवनरीतिं बोधयति । मानवानां लौकिक-अलौकिक-जीवनस्य प्रवर्तनार्थं ये अंशाः मूलभूताः सन्ति तेषां विषये विवरणं करोति एषः ग्रन्थः । धर्मः , अर्थः , कामः इति त्रिभिः विभागैः विभक्तः अस्ति एषः ग्रन्थः ।
तिरुकुरळ् शास्त्रम् तस्य भाषाअनुसारम् प्रायः १८००-१७०० वर्षपुरातनम् इति अनुमीयते । मरैमलैअडिगळ् नाम कश्चन तमिळ्पण्डितस्य संशोधनकारणेन ,
तमिळ्नाडुराज्ये वर्षाणि सूचयितुं “ तिरुवळ्ळुवर् वर्षम् “ इति उपयुज्यते । तिरुवळ्ळुवरवर्षापेक्षया समान्यवर्षः ३१ वर्षैः अधिकः भवति ।
तिरुक्कुरळ् ग्रन्थः संस्कृतग्रन्थानाम् आधारेण लिखितः अस्ति इति केचन कथयन्ति , तिरुवळ्ळुवरस्य स्वचिन्तनम् इति केचन कथयन्ति ।
अपि च तिरुक्कुरळ् ग्रन्थस्य विचाराः लोकस्य इतरश्रेष्ठग्रन्थैः सह तोललामः चेत् सामान्यांशान् अभिज्ञातुं शक्नुमः ।
ग्रन्थविभागाः
तिरुक्कुरळ् धर्मः , अर्थः, कामः इति त्रिधा विभक्तः अस्ति । त्रयः विभागाः अपि पुनः “ इयल् “ नाम्ना विभज्यन्ते । प्रत्येक इयल् मध्ये कतिचन सङ्ख्याकाः अधिकाराः अन्तर्भवन्ति । प्रत्येकस्मिन् अधिकारे दश श्लोकाः भवन्ति । प्रत्येकं श्लोकः अपि “ कुरळ् वेण्बा “ नाम रचनाशैल्या भवति । कुरळ्वेण्बाशैल्यां प्रथमपादे ४ पदानि ; द्वितीय पादे ३ पदानि भवन्ति । एतादृशः अपरः ग्रन्थः अस्ति । तस्य नाम अपि तिरुक्कुरळ् एव । कुरळ्वेण्बाभिः रचितः इत्यतः तिरुक्कुरळ् इति नाम आगतम् । ग्रन्थारम्भे मङ्गलाचरणं नाम अधिकारः अस्ति । तदनन्तरम् “ आकाश विशेषः “ , “ त्यागिनां- यशः “ , “ धर्मचिन्तनं “ नामकाः अधिकाराः वर्तन्ते । पुनश्च अस्मिन् ग्रन्थे धर्मनामके विभागे गृहस्थाश्रमत्वं , संन्यासाश्रमत्वम् इति भागद्वयं विद्यते । तत्र गृहस्थाश्रमविषये २१ अधिकाराः सन्ति , संन्यासाश्रमविषये १३ अधिकाराः, धार्मिकबोधनार्थं ३४ अधिकाराः सन्ति । तथैव अर्थविभागे शासनविषये २५ अधिकाराः , मन्त्रिणां विषये ३२ अधिकाराः , गोपननामके विभागे १३ अधिकाराः एवम् आहत्य ७० अधिकाराः सन्ति । कामविभागे आहत्य २५ अधिकाराः सन्ति । आहत्य अस्मिन् ग्रन्थे १३३ अधिकाराः , प्रत्येकाधिकारे अपि १० श्लोकाः एवम् रीत्या आहत्य १३३० श्लोकाः सन्ति ।
तमिळ्वेदः
जीवनस्य सर्वविषयान् अपि सूचयति इति कारणेन ज्येष्ठाः एतं ग्रन्थं “ तमिळ्वेदः “ इति कथयन्ति । “ देवग्रन्थः “ , “ तिरुवळ्ळुवं “ , “ उत्तरवेदः ” , “ लोकस्य वेदः “ इति बहुधा आह्वयन्ति जनाः एतं ग्रन्थम् । अस्य ग्रन्थस्य विषयः काल-देश-लिङ्ग-समय-भाषा इत्यादिसीमाः अतिरिच्य सर्वान् बोधयति इति कारणेन लोकस्य वेदः इति कथ्यते ।
अनुवादाः
तमिळ्भाषां विहाय भारतीयभाषासु गुजराती , हिन्दी , कन्नड , कोङ्कणी , मलयाळम् , ओडिया , मराठी , पञ्जाबी , राजस्थानी , संस्कृतं , सौराष्ट्रभाषा , तेलुगु इत्यादिभिः १३ भाषाभिः एतस्य ग्रन्थस्य अनुवादा: कृता: सन्ति। संस्कृतानुवादेषु द्वौ प्रसिद्धौ यौ एस् एन् श्रीरामदेशिकन् अथ गोविन्दराज जैन शास्त्री इथि द्वाभ्याम् विवद्भ्याम् पृथक् पृथक् विरचितौ।
तिरुक्कुरल् ग्रन्थः षड्भिः पण्डितैः संस्कृते भाषान्तरीकृतः १) श्री चक्रपाणिशास्त्री २) श्री अप्पा वाजपेयी ३) श्री गोविन्तरायशास्त्री ४) श्री रामदेशिकशास्त्री ५) श्री सुन्दरराजशास्त्री (श्रीमत्तोताद्रिपीठे 30तम पीठाधिपतिः)
६) 'अपि च इदानीं(२०२०) मधुरानगरीयेण सुदर्शनघनपाठिना तिरुक्कुरल्ग्रन्थे अरत्तुप्पाल् इत्याख्यधर्मपरिच्छेदः संस्कृते भाषान्तरीकृतः तस्मिग्रन्थे श्रुतिस्मृतिपुराणेषु सत्सु तिरुक्कुरल्संबन्धविषयाः अपि च तत्तदधिकारारम्भे उल्लिखिताः
एशियाखण्डस्य इतरभाषासु तन्नाम अरब्बी , बर्मिया, चैनी , बिजियन् , इण्डोनेशियाभाषा , जपनीस् भाषा , कोरियभाषा , मलय् , सिंहळी , उर्दुभाषा इत्यादिभिः १० भाषाभिः अनुवादः कृतः अस्ति । युरोपीयभाषासु चेक् , डच् , आङ्ग्लं ,बिन्न्नियभाषा , फ्रेञ् , जर्मानिय भाषा , अङ्गेरिय भाषा , इट्टालीय भाषा , लत्तीन् भाषा , नार्वेभाषा , पालीय भाषा , रष्यभाषा , एसुप्पनियं , सुवीडिय भाषा इत्यादीषु १४ भाषाभिः अनुवादः कृतः अस्ति ।
भाष्याणि
पूर्वं एतस्य ग्रन्थस्य कृते बहवः पण्डिताः भाष्यं लिखितवन्तः । तेषु प्रसिद्धं , सर्वैः उपयुज्यमानम् अस्ति परिमेळ्ळगस्य भाष्यम् । आधुनिककाले अपि बहवः भाष्यं लिखितवन्तः सन्ति । तेषु मु . वरदराजवर्यस्य भाष्यं विशिष्टम् अस्ति । लोके अधिकभाषासु अनुवादकृतेषु ग्रन्थेषु तिरुक्कुरळ् ग्रन्थस्य तृतीयं स्थानम् अस्ति । एतावत्पर्यन्तं ८० भाषाभिः अनुवादः कृतः अस्ति ।
बाह्यसम्पर्कतन्तुः
- திரு மு.வரததாசனார், திரு மு.கருணாநிதி மற்றும் பலர் எழுதிய உரைகளின் தொகுப்பு ஆங்கில விளக்கத்துடன்
- Thiruvalluvar's Thirukkural in Tamil
- Thirukurals - Tamil, English & Transliteration (searchable)
- Tirukkural of Tiruvalluvar - English Translation
- Online Thirukural Community
- List of Thirukkural translations
- Commentaries on Tirukkural
- Thirukkural with English translation
- Thirukkural with English Translation
- Thirukkural in Tamil & English with Explanation
- Tirukkural online video lessons
- Mobile Application For Thirukkural