तालवाडिपर्वतः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


तालवाडिपर्वतः (Talavadi Hill) कर्णाटकराज्ये [[रामनगरमण्डलम्|रामनगरमण्डले विद्यमानः कश्चन पर्वतः । कर्णाटकस्य राजधानीतः बेङ्गळूरुतः मैसूरुमार्गे ४९कि.मी.गम्यते चेत रामनगरम् इति पत्तनं प्राप्यते । ततः मागडिपत्तनाभिमुखं सञ्चरिते सति कूटगल् ग्रामः प्राप्यते । तस्य समीपे एव तलवाडि/तालवाडि पर्वतः तिष्ठति । अयं पर्वतः सङ्खीर्णः अस्ति । शिथिलावस्थायं विद्यमानः कश्चित् दुर्गः अत्र वर्तते । पर्वतस्य अत्रभागम् आरोढुं दुष्करं भवति । आरोहिते उपरि सुन्दरं शिलामण्डपः दृश्यते । अस्य पुरतः सुन्दरं सरः विराजते । स्वस्य प्रशासनकाले केम्पेगौडः अत्र आगत्य वैरिणाम् आक्रमणात् रक्षणं प्राप्नोति स्म इति प्रतीतिः अस्ति ।

"https://sa.bharatpedia.org/index.php?title=तालवाडिपर्वतः&oldid=2405" इत्यस्माद् प्रतिप्राप्तम्