तापी-गैस-परियोजना

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

तापी-गैस-परियोजना अन्तर्राष्ट्रीया परियोजना वर्तते। तापी-शब्दः तुर्कमेनिस्थानस्य,अफगानिस्थानस्य,पाकिस्थानस्य, इंडिया (भारतस्य) च आदि अक्षराणां समाहारः अस्ति। एषः तापी- शब्दः उक्तान् सर्वान् चतुरः देशान् सहसा व्यक्तं करोति। त = तुर्कमेनिस्थानम् ,अ =अफगानिस्थानम् ,प =पाकिस्थानम्, इ = इंडिया (भारतम्)। एषाः परियोजना   तुर्कमेनिस्थानात् आरभ्य  क्रमेण  अफगानिस्थानं, पाकिस्थानं च भूत्वा भारतपर्यन्तं गमिष्यति। [१][२]

लाभान्विताः देशाः

तापी-योजना

एतस्यां योजनायां ३३ अर्बुदं घन-मीटर-परिमितं 'गैस' प्रतिवर्षम् अफगानिस्थानस्य हेरात-कंधार-महोनगरयोः मार्गेण पाकिस्थानं भूत्वा भारतस्य सीमान्तनगरं फाजिल्का-नगरं पञ्जाब-राज्यं यावत् प्राप्स्यति।

परियोजना

पाकिस्थाने तुर्कमेनिस्थानस्य राजदूतः मोवलामोव इत्येषः इस्लामाबाद-महानगरे जाते कस्मिंश्चित् समारोहे घोषणां कृतवान् यत्, दीर्घसमयात् निलम्बिता एषा परियोजना १३ दिसंबर २०१५ दिनाङ्के तुर्कमेनिस्थानात् आरप्स्यते।[३] तत्कालिनः भारतस्य उपराष्ट्रपतिः हामिद अंसारी इत्येषः उक्तवान् यत्, तापी-परियोजना भारतस्य स्वप्नमस्ति, यत् पूर्णं भविष्यति इति।[४] तुर्कमेनिस्थाने १३ दिसंबर २०१५ दिनाङ्के शिलान्यासः अभवत्। [५] एषा परियोजना २०१९ पर्यन्तं पूर्णा भवेत् इति लक्ष्यमस्ति।[६] तापी-गैस-परियोजनायाः आहत्य लम्बता कदाचित् १८१४ कि.मी अस्ति।[७] पाकिस्थाने एतस्याः परियोजनायाः कार्यम् आरब्धम् अस्ति। http://www.jagran.com/news/world-tapi-gas-pipeline-feed-route-survey-work-begins-in-pakistan-15624999.html</ref>

व्ययः

१० अर्बुदं डॉलर [८]

  • जम्बुद्वीपीय-विकास-वित्तकोषः (एडीबी) एकार्बुद-डॉलर-परिमितम् ऋणत्वे तुर्कमेनिस्थान-अफगानिस्थान-पाकिस्थान-भारतेभ्यः तापी-गैस-परियोजनायै प्रस्तावितवान्।

परियोजनायां व्ययविभाजनम्

  • तुर्कमेनिस्थानम् :85%
  • अफगानिस्थानम् :5%
  • पाकिस्थानम् :5%
  • भारतम् :5%

रूचियुक्ताः देशाः

बाङ्गलादेशः अपि एतस्यां योजनायां प्रदर्शितवान्। [९]

सन्दर्भः

फलकम्:टिप्पणीसूची

"https://sa.bharatpedia.org/index.php?title=तापी-गैस-परियोजना&oldid=2092" इत्यस्माद् प्रतिप्राप्तम्