तान्समीक्ष्य स कौन्तेयः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

पदच्छेदः

तान्, समीक्ष्य, सः, कौन्तेयः, सर्वान्, बन्धून्, अवस्थितान् । कृपया, परया, आविष्टः विषीदन्, इदम्, अब्रवीत् ॥

अन्वयः

परया कृपया आविष्टः सः कौन्तेयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य विषीदन् इदम् अब्रवीत् ।

शब्दार्थः

परया = अधिकया
कृपया = दयया
आविष्टः = सहितः
सः कौन्तेयः = सः अर्जुनः
तान् = तान्
सर्वान् = अखिलान्
अवस्थितान् = उपस्थितान्
बन्धून् = बान्धवान्
समीक्ष्य = अवलोक्य
विषीदन् = सन्तप्यमानः
इदम् = एतत्
अब्रवीत् = अवदत् ।

अर्थः

अर्जुनः तत्र सम्मिलितान् सर्वान् बान्धवान् दृष्ट्वा करुणया आविष्टः अभवत् । सः अत्यन्तं विषादम् अनुभवन् इदं वाक्यम् अवदत् ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः