तस्मादसक्तः सततम्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement तस्मादसक्तः सततम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् अनासक्तभावेन कर्म कर्तुम् आज्ञापयति । पूर्वस्मिन् श्लोके, तस्य अग्रिमे श्लोके च महापुरुषाणां स्थितिं प्राप्तुं साधकेन किं कर्तव्यम् इति अस्मिन् श्लोके भगवान् वदति । सः कथयति यद्, अतः त्वं निरन्तरम् आसक्तिरहतः सन् कर्तव्यकर्मणः योग्यतया आचरणं कुरु । यतो हि आसक्तिरहितेन कृतं कर्म एव मनुष्यस्य कृते परामात्मप्राप्तेः साधनं भवति इति ।

श्लोकः

गीतोपदेशः
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९ ॥

पदच्छेदः

तस्मात् असक्तः सततं कार्यं कर्म समाचर असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ १९ ॥

अन्वयः

तस्मात् असक्तः सततं कार्यं कर्म समाचर । असक्तः हि कर्म आचरन् पूरुषः परम् आप्नोति ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
तस्मात् अतः
असक्तः निरस्सः
सततम् सर्वदा
कार्यम् आचरणयोग्यम्
कर्म कर्म
समाचर कुरु
हि यस्मात्
असक्तः सरहितः
पूरुषः मानवः
कर्म कर्म
आचरन् कुर्वन्
परम् परं धाम
आप्नोति प्राप्नोति ।

व्याकरणम्

सन्धिः

  1. तस्मादसक्तः = तस्मात् + असक्तः – जश्त्वसन्धिः
  2. ह्याचरन् = हि + आचरन् – यण्सन्धिः

समासः

  1. असक्तः = न सक्तः - नञ्तत्पुरुषः

कृदन्तः

  1. सक्तः = सञ्ज + क्त (कर्तरि)
  2. आचरन् = आ + चर् + शतृ (कर्तरि)

अर्थः

भवान् सरहितः भूत्वा कर्तव्य कर्म आचरतु । यतः सरहितः पुरुषः कर्म आचरन् परं तत्त्वं विन्दति ।

भाष्यार्थः

'तस्मादसक्तः सततं कार्यं कर्म समाचर' – पूर्वश्लोकेन सह एतस्य श्लोकस्य सम्बन्धं प्रदर्शयितुम् अत्र 'तस्मात्' इत्यस्य पदस्य उपयोगः कृतः । पूर्वस्मिन् श्लोके भगवान् अवदत्, स्वस्मै किमपि कर्म कर्तुं सिद्धपुरुषेभ्यः न कापि आवश्यकता भवति । तथापि तैः महापुरुषैः स्वतः एव लोकसङग्रहार्थे क्रियाः भवन्ति । अतः भगवान् अर्जुनाय तथैव निष्कामभावेन कर्तव्यकर्म कुर्वन् परमात्मप्राप्तेः आज्ञां यच्छति । अत्र आज्ञां दातुं भगवान् 'तस्मात्' इत्यस्य पदस्य उपयोगम् अकरोत् । यतो हि स्वरूपाय कर्मणि कृते सति, अकृते सति च किमपि प्रयोजनं न भवति । कर्म सर्वदा 'अन्येभ्यः' भवति । एवम् अन्येभ्यः कर्मणि कृते सति रागः दूरीभवति । ततश्च स्वरूपे अवस्थितिः जायते । स्वरूपात् भिन्नानां विजातीयपदार्थानां प्रति आकर्षणम् एव 'आसक्तिः' इति । आसक्तिरहितः भवितुम् आसक्तेः कारणस्य अवबोधः आवश्यकः । 'अहं शरीरम्' 'इदं शरीरं मे' इत्यारोपणम् एव नाशवान् पदार्थानां महत्त्वम् अन्तःकरणे अङ्कयति । अन्तःकरणे पदार्थानां महत्त्वे सति तेषां पदार्थानां कृते आसक्तिः भवति । आसक्तिः एव पतनकारणं, न तु कर्म । आसक्तित्वादेव मनुष्यः स्वस्य आरामाय, सुखोपभोगाय च विभिन्नानि कर्माणि करोति । एवं जडेन सह आरोपितः आसक्तिपूर्णसम्बन्धः एव मनुष्यस्य जन्ममरणयोः कारणं भवति [१] । आसक्तिरहितं कर्म कृतं चेत्, जडतया सह सम्बन्धविच्छेदः भवति ।

'असक्तो ह्याचरन्कर्म' – मनुष्यः एव आसक्तिपूर्वकं संसारेण सह स्वस्य सम्बन्धं स्थापयति । अतः मनुष्यस्य कर्तव्यम् अस्ति यद्, संसारस्य हिताय एव कार्यं कर्यात् । तस्य कर्मणः फलत्वेन किमपि फलं नेच्छेत् । एवं संसाराय कार्ये कृते सति संसारात् आसक्तिः स्वतः एव नश्यति । कर्मयोगी संसारस्य सेवां कृत्वा वर्तमानवस्तुना सह सम्बन्धं विच्छेदयति । ततः किमपि कामनाम् अकृत्वा भविष्यस्य वस्तुना सह अपि सः सम्बन्धं विच्छेदयति ।

'परमाप्नोति पूरुषः' – 'परम्' इत्यनेन पदेन भगवान् अत्र कर्मयोगिनां परमात्मप्राप्तेः चर्चां करोति । अत्र यथा 'परम्' इत्यनेन पदेन कर्मयोगिनां परमात्मप्राप्तेः चर्चा कृता अस्ति, तथैव साङ्ख्ययोगस्य सन्दर्भेऽपि 'परम्' इत्यमेन पदेन साङ्ख्ययोगिभ्यः परमात्मप्राप्तेः उपस्थापनं कृतम् [२] । तात्पर्यम् अस्ति यद्, साधकः स्वयोग्यतानुगुणं, रुच्यनुगुणं च यं कमपि मार्गं (ज्ञानमार्गं, कर्ममार्गं, भक्तिमार्गं वा) स्वीकुर्यात्, परन्तु तेन मार्गेन तु प्राप्तव्यः परमात्मा एवास्ति [३] । अत्र शङ्का उद्भवति यद्, कर्म कुर्वतः कर्मयोगिनः कर्तृत्वाभिमानं कथं दूरीभवति ? यतो हि कर्तृत्वाभिमानत्वात् परमात्मप्राप्तिः न शक्यते खलु ? इति । एतस्याः शङ्कायाः समाधानम् अस्ति यद्, साधारणमनुष्याः सर्वाणि कर्माणि स्वस्य कृते एव कुर्वन्ति । ये मनुष्याः स्वस्य स्वार्थाय कार्यं कुर्वन्ति, तेषु कर्तृत्वाभिमानं भवति । कर्मयोगी तु सर्वदा अन्येभ्यः कार्यं करोति । संसारात् यत्किपि प्राप्तमस्ति, तस्य संसाराय एव उपयोगं करोति । अतः तस्मिन् कर्तृत्वाभिमानं नोत्पद्यते । यतो हि भोक्तृत्वमेव कर्तृत्वे कारणभूतम् अस्ति । कर्मयोगी कदापि भोगकामनां कृत्वा कर्म न करोति । भोगेच्छुकः मनुष्यः कदापि कर्मयोगी भवितुमेव न शक्नोति ।

मर्मः

संसारात् प्राप्तपदार्थानां (शरीरादीनां) एतावता स्वस्य कृते एव उपयोगः कृतः । तेषां पदार्थानां सुखोपभोगाय, सङ्ग्राय च मनुष्यः व्यस्तः भवति । अतः तस्मिन् संसारस्य ऋणम् उत्पद्यते । तस्माद् ऋणात् मुक्त्यै संसारहिताय एव कर्म कर्तव्यं भवति । स्वस्य कृते कृतं कर्म अर्थात् फलकामनापूर्वकं कृतं कर्म तु केवलं तस्मिन् सांसारितर्णे वृद्धिमेव करोति । एवं सांसरिकर्णोत्मुक्त्यै पौनःपुन्येन जन्ममरणयोः चक्रे भ्रमणाय जीवः बद्धः भवति । परन्तु स्वस्मै अकृतं कर्म ऋणनाशकं भवति । तेन कर्मणा नवीनर्णस्य उत्पत्तिः स्थगयते ।

किमपि कर्म सततं न भवति, परन्तु अन्तःकरणे आसक्तिः निरन्तरं भवति । अतः भगवान् 'सततम् असक्तः' इत्यनेन पदेन निरन्तरम् आसक्तिरहितो भवितुं कथयति । निरन्तरम् आसक्तिरहितः सन् सम्मुखम् उपस्थितं विहतकर्म कर्तव्यमात्रं मत्वा कुर्यात् इति उक्तस्य पदस्य भावः । न कस्यापि अन्तःकरणे आसक्तिः निरन्तरम् अवतिष्ठति इति वास्तविकता । संसारः एव निरन्तरं नास्ति, तर्हि तस्माद् उद्भूता आस्क्तिः कथं निरन्तरं स्थातुं प्रभवति ? परन्तु आसक्तेः कारणात् तस्याः नैरन्तर्यं प्रतीयते । 'समाचार' इत्यस्य पदस्य तात्पर्यं भवति यद्, कर्तव्यकर्मणाम् आचरणं सवधानतया, उत्साहेन, तत्परतापूर्वकं च करणीयम् । कर्तव्यकर्मणः अनुष्ठाने काचिद् असावधानी कर्मयोगस्य सिद्धान्ते विघ्नम् उत्पादयति ।

वर्णादि अनुसारं शास्त्रविहितानि कर्माणि एव मनुष्यस्य कृते कर्तव्यकर्म भवन्ति । तेषाम् आचरणम् एव तस्य कृते 'सहजकर्म' भवति । सहजकर्मणि यद्यपि कोऽपि दोषः दृश्यते, तथापि तस्य कर्मणः त्यागः न करणीयः [४] । यतो हि सहजकर्माणि कृत्वैव मनुष्यः पापं न प्राप्नोति [५] । अत एव भगवान् अत्र अर्जुनं क्षात्रधर्मानुगुणं युद्धं कुरु । तत्र यदि घोरत्वं पश्यति, तर्ह्यपि तस्य सहजकर्मणः त्यागं मा कुरु । अनासक्तभावेन कृतेन सहजकर्मणा एव समता भविष्यति इति ।

यदा जीवः मनुष्ययिनौ जन्म प्राप्नोति, तदा सः शरीरं, धनं, भूमिं, गृहम् इत्यादिकं सर्वं प्राप्नोति । जीवनलीलां समाप्य यदा सः जीवः शरीरं त्यजति, तदा तेन प्राप्तानि सर्वाणि वस्तूनि अत्र एव तिष्ठन्ति । अनेन सामान्येन उदाहरणेन एव ज्ञानं भवति यद्, शरीरादीनि सर्वाणि वस्तूनि इतः एव लब्धानि, तानि न स्वस्य इति । यथा कश्चन मनुष्यः कार्यालयं वृत्त्यर्थं गच्छति, तस्मिन् समये सः कार्यं कर्तुं पत्र-लेखनी-उत्पिठिका-आसन्दादिकं प्राप्नोति । ताः सामग्र्यः तेन तस्मिन् कार्यालये कार्यं कर्तुं प्राप्ता न तु स्वस्य गृहे स्वीकर्तुम् । तथऐव जीवः शरीरादिकं संसारात् प्राप्नोति, संसारस्य हिताय कार्यं कर्तुम् । एवं संसारस्य वस्तौ स्वस्य स्वामित्वं मन्यते चेत्, सः दुःखी एव भवति । कार्यालये कार्योत्तरं मनुष्यः वेतनं प्राप्नोति । प्रत्युत सांसारितकार्यं कृत्वा मनुष्यस्य संसारसम्बन्धविच्छेदः, योगश्च भवति ।

यस्मिन् कर्तृत्वं नास्ति, सः परमात्मना सह स्वतः एकीभूतः भवति । वास्तविकतां प्रति अबोधः एव साधकस्य दोषः । हिन्दोलकः (a swing) यावति वेगे दुल्यात्, तावति शीघ्रवेगे अपि सः एकवारं स्वकेन्द्रं प्रति समागच्छति एव । तथैव सर्वासां क्रियानां परिसमाप्तौ अक्रियावस्था (समता) भवत्येव । तात्पर्यम् अस्ति यद्, प्रथमक्रियाः अवसानोत्तरम् अपरक्रियायाः आरम्भावत् प्राग् च समता भवति । सङ्कल्पविकल्पयोः मध्ये कुत्रचित् समता भवत्येव । वस्तुतः पश्यामश्चेत् हिन्दोलकः दोलनकाले विषमः दरीदृश्यते, तथापि सः निरन्तरं समतायामेव रमते । अर्थात् हिन्दोलकस्य दोलनकालेऽपि यत्र रज्जूः बद्धः अस्ति, तेन सह समतायां भवति । एवं जीवः अपि प्रत्येकस्यां क्रियायां समतायामेव स्थितः भवति । परमात्मना सह तस्य ऐक्यं निरन्तरमेव । क्रियाप्रवृत्तेः काले समतायां स्थितः नास्ति इति प्रतीयते, परन्तु सः वस्तुतः समतायामेव तिष्ठति । तस्याः समतायाः यदि कोऽपि अनुभवं कर्तुम् इच्छति, तर्हि तस्याः क्रियायाः परिसमाप्तौ एव तस्याः समतायाः बोधः जायते । यदि साधकः एतस्मिन् सन्दर्भे सावधनेन भवेत्, तर्हि तस्य निरन्तरोपस्थितायाः समतायाः अनुवभवं कर्तुं शक्नुयात् । तस्यां समतायां कर्तुं न भवत्येव ।

कल्पितं कर्तृत्वाभिमानं दूरीकर्तुं प्रतीतेः, प्राप्तेः च भेदः अवगन्तव्यः । यदृश्यते, परन्तु न प्राप्यते, सा 'प्रतीतिः' इति । यल्लभ्यते, परन्तु न दृश्यते, सा 'प्राप्तिः' इति । दृश्यमानाः सांसारिकाः सर्वेऽपि पदार्थाः 'प्रतीतिः' एव । प्रत्युत सर्वत्र नित्यतया विद्यमानं परिपूर्णं परमात्मतत्त्वं 'प्राप्तिः' इति । एवं परमात्मतत्त्वस्य विश्वौहः पिपीलिकां यावत् सर्वेभ्यः स्वतः एव प्राप्तिः अस्ति । तादृश्यया दृश्यमानायाः प्रतीतेः प्रतिक्षणम् अभावः अस्ति । दृश्यमात्रं प्रतिक्षणम् अदृश्यं भवदस्ति । यैः प्रतीतिः भवति, तानि इन्द्रिय-मनो-बुद्ध्यादीनि अपि प्रतीतिः एव । यः नित्यः अचलः अस्ति, सः कदापि प्रतीतिं न प्राप्नोति । किञ्च सर्वदा सर्वेषु विद्यमानं परमात्मतत्त्वं 'स्वयं' नित्यतया प्राप्तवान् अस्ति । अत एव 'प्रतीतिः' अभावरूपा, 'प्राप्तिः' च भावरूपा इति [६]

सर्वेऽपि पदार्थाः, क्रियाः च 'प्रतीतिः' एव । क्रियामात्रम् अक्रियायां लीनयते । प्रत्येकस्याः क्रियायाः आद्यन्तौ भवतः । यद् आद्यन्तयोः भवति, तत् मध्येऽपि भवति इति कश्चन सिद्धान्तः । अर्थात् सर्वायाः क्रियायाः आदौ, अन्ते च या सहजा अक्रियावस्था विद्यते, सा मध्येऽपि भवत्येव । एवं निष्क्रियावस्थायां, क्रियाकालेऽपि सा सहजा अक्रियावस्था प्रकाश्यते । सा एव निष्क्रियसक्रियावास्थे प्रकाश्यते । अर्थात् सा सहजावस्था प्रवृत्तेः, निवृत्तेः च परा इति । प्रतीत्या (स्थल-काल-वस्तु-व्यक्तृक्रियादिना) सह मन्यमानः सम्बन्धः (आसक्तिः) एव नित्यप्राप्तस्य परमात्मतत्त्वस्य अनुभवे विघ्नम् उत्पादयति । आसक्तेः नाशे सति तस्य परमात्मतत्त्वस्य सहजानुभवः भवति । अतः आसक्तिरहिते सति प्रतीतिं (मन्यमानान् शरीरादिपदार्थान्) प्रतीतेः (संसारमात्रस्य) सेवायामेव योजयित्वा प्रतीतेः (शरीदादिपदार्थानां) प्रवाहं प्रतीतिं (संसारं) प्रति एव भवति । तेन स्वतः एव परमात्मतत्त्वं शिष्यते ।

शाङ्करभाष्यम्

यत एवं तस्मादिति। तस्मादसक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय। आसक्तो हि यस्मात् समाचारन्नीश्वराप्थं कर्म कुर्वन्मोक्षमाप्नोति पूरुषः सत्त्वशुद्धिद्वारेणेत्यर्थः।।19।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. कारणं गुसङ्गोऽस्य सदसद्योनिजन्मसु, गीता, अ. १३ , श्लो. २१
  2. गीता, अ. १३ , श्लो. ३४
  3. गीता, अ. ४ , श्लो. ४-५
  4. गीता, अ. १८ , श्लो. ४८
  5. गीता, अ. १८ , श्लो. ४७
  6. नासतो विद्यते भावो नाभावो विद्यते सतः, गीता, अ. २ , श्लो. १६
"https://sa.bharatpedia.org/index.php?title=तस्मादसक्तः_सततम्...&oldid=1363" इत्यस्माद् प्रतिप्राप्तम्