तस्मात्त्वमिन्द्रियाण्यादौ...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य एकचत्वारिंशत्तमः (४१) श्लोकः ।

पदच्छेदः

तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ पाप्मानं प्रजहि हि एनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

अन्वयः

भरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाप्मानम् एनं प्रजहि ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
भरतर्षभ भरतश्रेष्ठ !
तस्मात् तेन हेतुना
त्वम् त्वम्
आदौ प्रथमम्
इन्द्रियाणि नेत्रादीनि
नियम्य निगृह्य
ज्ञानविज्ञाननाशनम् समस्तविज्ञाननाशनम्
एनम् इमम्
पाप्मानम् पापम्
प्रजहि त्यज ।

व्याकरणम्

सन्धिः

  1. इन्द्रियाण्यादौ = इन्द्रियाणि + आदौ – यण्सन्धिः
  2. ह्येनम् = हि + एनम् – यण्सन्धिः

समासः

  1. भरतर्षभः = भरतः ऋषभः इव – उपमतिसमासः (कर्मधारयः)
  2. ज्ञानविज्ञाननाशनम् = ज्ञानं च विज्ञानं च, ज्ञानविज्ञाने – द्वन्द्वः
    1. ज्ञानविज्ञानयोः नाशनम्, तत् – षष्ठीतत्पुरुषः

कृदन्तः

  1. नियम्य = नि + यम् + ल्यप्

अर्थः

अर्जुन ! अतः भवान् आदौ सर्वाणि इन्द्रियाणि संयम्य समस्तविज्ञाननाशकम् एनं पापं त्यजतु ।

शाङ्करभाष्यम्

यत एवं-तस्मादिति। तस्मात्त्वमिन्द्रियाण्यादौ पूर्वं नियम्य वशीकृत्य भरतर्षभ, पाप्मानं कामं प्रजहिहि परित्यज, एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्रत आचार्यतश्चात्मादीनामबरोधः विज्ञानं विशेषस्तदनुभवस्तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः ।।41।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु