तपस्विभ्योऽधिको योगी...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्चत्वारिंशत्तमः(४६) श्लोकः ।

पदच्छेदः

तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥

अन्वयः

योगी तपस्विभ्यः अधिकः मतः । ज्ञानिभ्यः अपि अधिकः । कर्मिभ्यः च अधिकः । अर्जुन ! तस्मात् योगी भव ।

शब्दार्थः

योगी = योगी
तपस्विभ्यः = तापसेभ्यः
अधिकः = प्रकृष्टः
मतः = इष्टः
ज्ञानिभ्यः अपि =पण्डितेभ्यः अपि
अधिकः = प्रकृष्टः
कर्मिभ्यः च = अपि
अधिकः = प्रकृष्टः
अर्जुन = हे अर्जुन !
तस्मात् = हेतोः
योगी = ध्यानयोगी
भव = जायस्व ।

अर्थः

कृच्छ्रचान्द्रायणादिरूपं तपः आचरद्भ्यः अपि योगी अधिकः । शास्त्रे पण्डितेभ्यः अपि योगी अधिकः । अग्निहोत्रादिकर्म आचरद्भ्यः अपि योगी अधिकः । अतः हे अर्जुन ! त्वं योगी भव ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः