तद्विद्धि प्रणिपातेन...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुस्त्रिंशत्तमः (३४) श्लोकः ।

पदच्छेदः

तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः ॥ ३४ ॥

अन्वयः

तत् प्रणिपातेन परिप्रश्नेन सेवया च विद्धि । तत्त्वदर्शिनः ज्ञानिनः ते ज्ञानम् उपदेक्ष्यन्ति ।

शब्दार्थः

तत् = ज्ञानम्

प्रणिपातेन = नमस्कारेण
परिप्रश्नेन = नानाविधया पृच्छया
सेवया (च) = शुश्रूषया च
विद्धि = जानीहि
तत्त्वदर्शिनः = यथार्थद्रष्टारः
ज्ञानिनः = आत्मज्ञानिनः
ते = तुभ्यम्
ज्ञानम् = आत्मज्ञानम्
उपदेक्ष्यन्ति = वदिष्यन्ति ।

अर्थः

भवान् नमस्कारेण, किं सत्यम् ? किमसत्यम् ? इत्यादिना नानाविधेन प्रश्नेन शुश्रूषया च तत् ज्ञानं प्राप्नोतु । तत्त्वं जानन्तः पुरुषाः भवते आत्मज्ञानम् उपदिशन्ति ।

शाङ्करभाष्यम्

तदेतद्विशिष्टं ज्ञानं तर्हि केन प्राप्यत इत्युच्यते-तद्विद्धीति। तद्विद्धि विजानीहि येन विधिना प्राप्यत इत्याचार्यानभिगम्य प्रणिपातेन प्रकर्षेण नीचैः पतनंदप्रणिपातो दीर्घनमस्कारस्तेन, कथं बन्धः का विद्या का चाविद्येति परिप्रश्नेन, सेवया गुरुशुश्रूषयैवमादिना प्रश्रयेणापर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्तिते ज्ञानं यथोक्तविशेषणं ज्ञानिनो ज्ञानवन्तोऽपि केचिद्यथावत्तत्त्वदर्शनशीला अपरे नातो विशिनष्टि-तत्त्वदर्शिन इति। ये सम्यग्दर्शिनस्तैरुपदिष्टं ज्ञानं कार्यक्षमंंभवति नेतरदिति। भगवतो मतम् ।।34।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु