तत्र तं बुद्धिसंयोगं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रिचत्वरिंशत्तमः(४३) श्लोकः ।

पदच्छेदः

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥

अन्वयः

कुरुनन्दन ! तत्र तं पौर्वदेहिकं बुद्धिसंयोगं लभते । ततः च संसिद्धौ भूयः यतते ।

शब्दार्थः

कुरुनन्दन = हे अर्जुन !
तत्र = तत्र कुले
पौर्वदेहिकम् = पूर्वशरीरसम्बन्धिनम्
तम् = तम्
बुद्धिसंयोगम् = मतिसम्बन्धम्
लभते = प्राप्नोति
ततः च = तस्मात्
संसिद्धौ = योगसिद्धौ
भूयः = अधिकम्
यतते = प्रयत्नं करोति ।

अर्थः

हे अर्जुन ! योऽयं योगभ्रष्टः श्रीमतां योगिनां वा कुले जातः पूर्वस्मिन् देहे या आसीत् तामेव आत्मविषयिकां बुद्धिं प्राप्नोति । ततः सः मोक्षार्थं प्रयत्नं करोति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=तत्र_तं_बुद्धिसंयोगं...&oldid=7775" इत्यस्माद् प्रतिप्राप्तम्