ततः शङ्खाश्च भेर्यश्च...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
- सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयोदशः (१३) श्लोकः ।
पदच्छेदः
ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः । सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमुलः, अभवत् ॥
अन्वयः
ततः शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् ।
शब्दार्थः
- ततः = तस्मिन् समये
- शङ्खाः = शङ्खाः
- भेर्यः = भेर्यः
- पणवानकगोमुखाः = पणवाः आनकाः गोमुखाश्च
- सहसा एव = युगपत् एव,
- अभ्यहन्यन्त = नादिताः अभवन्
- सः = सः
- शब्दः = नादः
- तुमुलः = घोरः
- अभवत् = सञ्जातः
अर्थः
तस्मिन् एव काले शङ्खानां धमनम्, भेरीणां ताडनम्, पणवानाम् आनकानां गोमुखानां च वादनं सम्पन्नम्, येन सर्वत्र महान् शब्दः सञ्जातः ।
रामानुजभाष्यम्
तस्य विषादमालोक्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकरयत॥१.१२१३॥
बाह्यसम्पर्कतन्तुः
http://www.gitasupersite.iitk.ac.in