तं तथा कृपयाविष्टम्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement तं तथा कृपयाविष्टम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन सञ्जयः धृतराष्ट्रं रणाङ्गणे कृष्णार्जुनयोः संवादं श्रावयति । पूर्वस्मिन् श्लोके (अर्जुनविषादयोगः) अर्जुनः परिवारस्य जनान् मारयितुं नेच्छामि इत्युक्त्वा गाण्डिवं त्यक्त्वा रथस्य पृष्ठभागे उपाविशत् । ततः मधुसूदनः श्रीकृष्णः विषादमग्नम् अर्जुनं यत्किमपि कथयति, तत् सञ्जयः अत्र धृतराष्ट्रं श्रावयन् अस्ति । श्लोकं तु सञ्जयः वदति परन्तु सः कथयति यत्, "श्रीकृष्णः अर्जुनं वदति यत्" इति । अतः द्वितीयश्लोकात् श्रीकृष्णार्जुनयोः संवादः आरभते । अत्र सञ्जयः कथयति यत्, एतादृशेन विशादेन ग्रस्तः सः अर्जुनः विलपन् अस्ति । विलपरेतोः अश्रुपूर्णयोः नेत्रयोः दर्शनशक्तिः अपि अवरुद्धा अस्ति । तम् अर्जुनं प्रति भगवान् मधुसूदनः एवम् अवदत् इति ।

श्लोकः

गीतोपदेशः

सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

पदच्छेदः

तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥

अन्वयः

मधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
मधुसूदनः अ.पुं.प्र.एक. श्रीकृष्णः
तथा अव्ययम् तेन प्रकारेण
कृपया आ.स्त्री.तृ.एक. दयया
आविष्टम् अ.नपुं.द्वि.एक. आक्रान्तम्
अश्रुपूर्णाकुलेक्षणम् अ.नपुं.द्वि.एक. बाष्पपूर्णनेत्रम्
विषीदन्तम् विषीदत्-त.पुं.द्वि.एक. दुःखितम्
तम् तद्-द.सर्व.पुं.द्वि.एक. तम् (अर्जुनम् )
इदम् इदम्-म.सर्व.नपुं.द्वि.एक. एतत्
वाक्यम् अ.नपुं.द्वि.एक. वचनम्
उवाच √वच् परिभाषणे-पर.कर्मणि, लिट्.प्रपु.एक. अवदत् ।

व्याकरणम्

सन्धिः

  1. कृपयाविष्टम् = कृपया + आविष्टम् - सवर्णदीर्घसन्धिः

समासः

  1. अश्रुपूर्णाकुलेक्षणम् = अश्रुभिः पूर्णे अश्रुपूर्णे – तृतीयातत्पुरुषः ।
  2. अश्रुपूर्णे च आकुले च = अश्रुपूर्णाकुले – कर्मधारयः

कृदन्तः

  1. विषीदन्तम् = वि + सद् + शतृ (कर्तरि) तम् ।
  2. आविष्टम् = आ + विश् + क्त (कर्तरि) तम् ।
  3. मधुसूदनः = मधुं (तन्नामकं) दैत्यं सूदयति इति मधुसूदनः[१]
  4. मधु + सूद् + णिच् (स्वार्थे) + ल्यु (अन)

अर्थः

भगवान् श्रीकृष्णः अर्जुनस्य शोचनीयाम् अवस्थां दृष्टवान् । ततः दयया आक्रान्तं शोकं च अनुभवन्तं तं सः एवम् उक्तवान् ।

भावार्थः [२]

'तं तथा कृपयाविष्टम्' – अर्जुनः रथे सारथित्वेन स्थितं श्रीकृष्णम् आज्ञापयति यत्, "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय, येनाहं विरोधपक्षस्य के योद्धारः मया सह योत्स्यन्ति इति द्रष्टुं शक्नोमि" इति । अर्थात् मत्सदृशेन शूरवीरेण सह के योद्धुं साहसं कुर्वन्तः सन्ति ? स्वकालं (मां) सम्मुखं दृष्ट्वापि के योद्धुं तत्पराः सन्ति ? एतादृशेन उत्साहेन परिपूर्णः अर्जुनः स्वपरिवारस्य जनानां मृत्योः आशङ्कायां मोहग्रसितः अभवत् । मोहग्रसितस्य शोकातुरस्य तस्य शरीरं दुर्बलम् अभवत्, तस्य मुखं शुष्कं जातं, शरीरे कम्पनम् उद्भूतं, हस्तात् धनुः अस्रंसत च । अत्र "न दैन्यं न पलायनम्" इति स्वभावयुक्तः अर्जुनः कापुरुषत्वं प्रदर्श्य व्याकुलतया सह रथस्य पृष्ठभागे अवस्थितः इति आश्चर्यभावः सञ्जयेन बहुधा रक्षितः ।

पूर्वमपि अर्जुनस्य भावान् प्रत्यक्षीकुर्वन् सञ्जयः अर्जुनस्य कृते "कृपया परयाविष्ट" इत्यस्य पदस्य उपयोगम् अकरोत् । अत्र "अश्रूपूर्णकुलेक्षणम्" इत्यनेन पदेन महतः शूरवीरस्य अर्जुनस्य मनसि अपि कौटुम्बिकः मोहः समुद्भूतः इति प्रदर्शितम् । सः मोहः अपि सामान्यः न । तेन मोहेन ग्रस्तस्य तस्य शूरवीरस्य नेत्रयोः अश्रूणि निर्गतानि । अश्रूपूर्णनेत्राभ्यां सः किमपि स्पष्टतया द्रष्टुम् असमर्थः अभवत् ।

"विषीदन्तमिदं वाक्यमुवाच मधुसूदनः" – एवं कापुरुषतायाः कारणेन शोकमग्नम् अर्जुनं मधुसूदनः एतादृशानि वचनानि अकथयत् । अत्र "विषीदन्तमुवाच" इत्युक्ते एव "इदं वाक्यम्" इत्यस्यार्थः अन्तर्भवति । यतः "उवाच" इत्यनेन क्रियापदेन एव "वाक्यम्" इत्यस्य अवबोधः जायते एव । तर्हि अत्र "वाक्यम्" इत्यस्य पदस्य भिन्नतया उपयोगस्य किं प्रयोजनम् ? अस्य प्रश्नस्य उत्तरमस्ति यत्, भगवतः वचनानि अद्भुतानि सन्ति । अर्जुनस्य मनसि धर्मस्य आवरणं धृत्वैव कर्तव्यत्यागरूपी दोषः समुद्भूतः अस्ति । तस्मिन् दोषे भगवतः एतानि वचनानि साक्षादाघातं करिष्यन्ति । भगवतः वचनानि अर्जुनस्य मनसि स्वदोषस्य अनुभूतिं कारयित्वा स्वकल्याणस्य जिज्ञासाम् उद्भावयिष्यन्ति । भगवतः गभीरवचनानि श्रुत्वैव अग्रे अर्जुनः शिष्यत्वेन श्रीकृष्णस्य सान्निध्यं स्वीकरोति [३]

सञ्जयः अस्मिन् श्लोके श्रीकृष्णस्य कृते "मधुसूदनः" इति पदम् उपायुङ्क्त । तस्य तात्पर्यम् अस्ति यत्, भगवान् श्रीकृष्णः "मधु"-आख्यस्य राक्षसस्य हन्ता अस्ति । अर्थात् दुष्टस्वभावयुक्तानां संहारकः अस्ति । अतः सः दुष्टस्वभावयुक्तानां दुर्योधनादीनां नाशं कारयिष्यति एव इति ततात्पर्यम् ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. सूदनं मधुदैत्यस्य यस्मात् स मधुसूदनः – ब्रह्मवैवर्तपुराणम् - ११०
  2. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  3. गीता, अ. २, श्लो. ७
"https://sa.bharatpedia.org/index.php?title=तं_तथा_कृपयाविष्टम्...&oldid=7912" इत्यस्माद् प्रतिप्राप्तम्