टेनिस्-क्रीडा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Prettyurl फलकम्:Infobox sport

फलककन्दुकक्रीडा(लानंक्रीडा)(TENNIS)

मृदुलताडनकृतफलकेन वै
भवति कन्दुकखेलनमीप्सितम् ।
क्षितितलाङ्गणमाप्य मुदा जनाः !
कुरुत मञ्जुल-‘टेनिस’ खेलनम् ॥१॥
एकलक्रीडनं युग्मकक्रीडनं,मिश्रकक्रीडनं वा मुदा कुर्वताम् ।
वर्धते यच्चिरं स्वास्थ्यमुत्साहजं, तद विधत्तां सदा ‘टेनिस्’क्रीडनम् ॥२॥

ऐतिहासिकी पृष्ठभूमिः

मिस्रदेशे ‘पोर्टसईद’ नामकप्रदेशस्य निकटे ‘टेनिस’ -नामकमेकं नगरमस्ति यद ‘टामस्’ नगरस्य क्षीणताऽनन्तरं स्थापितं विद्यते । एतस्मिन नगरे श्रेष्ठं वस्त्रं निर्मियते स्म । टेनिस-क्रीडायाः कन्दुक -निर्मितये प्रथममस्मादेव नगराद् वस्त्रमाकार्यते स्म तस्मादेव कारणादस्याः क्रीडाया नाम ‘टेनिस’ इत्यभवत् ।

श्रूयते यत् त्रयोदश्यां शत्यामिरानवासिनो मिस्रवासिनश्च टेनिसेन साम्यशालिनीमेकां क्रीडां क्रीडन्ति स्म । फ्रान्सदेशेऽपिदृश्येवैका क्रीडा प्रचलिताऽभूदयां ‘ज्यू द पाम’ नाम्ना समबोधयन् । अस्यां क्रीडायां क्रीडका हस्तैः कन्दुकं जालिकाया उपरि उच्छालयन्ति स्म । ततः परं हस्यानां स्थाने करप्रावारकाणां (दस्तानों का) ततः परं च तेषां स्थाने ताडन- फलक प्रयोगा आरभन्त । सर्वतः प्रथममस्याः क्रीडाया अभिधानं १४०० ई० वर्षे ‘टेनिस’ इति निर्धारितम । १६०० ईसवोयवर्षे क्रीडेयमतीव प्रख्यातिमवाप । ततः परमिङ्ग्लैण्डवासिनोऽपि क्रीडमिमामात्मसादकार्षुः ।

आंगलानां दृढं कथनमस्ति यदियं क्रीडा ‘मैजर वाल्टर वींगफील्ड’ नामकेनाङ्ग्लेनारब्धा । अमेरिका वासिनश्च स्वीये देशेऽस्याः क्रीडाया आरम्भस्य श्रेयः कुमार्यै ‘मेरी ई० आउटब्रिज’ महोदयायै ददति । तेषां कथनमस्ति यत कुमारी आउटब्रिज वेरमूडा स्थले कांश्चिदाङ्ग्लान क्रीडतोऽपश्यत तथा सैतेन क्रीडनेन प्रभाविता सती स्वदेशेऽमेरिकायामागमनकालेऽस्याः क्रीडायाः सर्वाण्युपकरणानि जालिका-ताडनी -कन्दुकादीनि क्रीत्वा सहैवानयत् -इति ।

अस्यां क्रीडायां यथा पुरुषा अनुराग्भाजः सन्ति तथैव महिला अप्यस्यामनुरज्यन्ति । दिवा सूर्यप्रकाशे रात्रौ विद्युत्प्रकाशे वा यथेच्छं क्रीडासौविध्यं भजन्तीयं टेनिस-क्रीडा भारतेऽपि तेषामेव वैदेशिकानां सौहार्देन प्रवृत्ता । अस्याः क्रीडायाः समुन्नतये तथा प्रतिवर्षमन्ताराष्ट्रियप्रतियोगितानां प्रबन्धायैका संस्था-‘इण्टरनैशनल टैनिस फैडरेशन्’ नाम्ना संस्थापिताऽस्ति यस्याः सदस्याः प्रायः सर्वेऽपि देशा विद्यन्ते । भारतेनापि तस्याः सदस्यत्वं बहोः कालात् पूर्वं स्वीकृटमस्ति तथाऽत्रापि-‘प्रखिल -भारतीय लान-टेनिस एसोशियेशन -नाम्नी संस्था निर्मिताऽस्ति यस्याः शाखाः सर्वत्र प्रदेशेषु व्याप्ता वर्तन्ते ।

इयं क्रीडा बहिर्द्वारा(आउटडोर) त्थाऽन्तर्द्वारा (इन डोर) इति द्वाभ्यामपि प्रकाराभ्यां क्रीडयते तथा चास्याः प्रतियोगितासु प्रेमानुशीलाः (अमेचर) प्रवृत्तिमन्त (प्रोफेशनल् )श्चोभयविधा अपि क्रीडका भागं गृहीतुं शक्यन्ते । अस्याः क्रीडायाः १-लान-टेनिस (शाद्वलक्षेत्रीया क्रीडा )तथा २-टेबल-टेनिस (काष्ठपीठीया क्रीडा ) चेति द्वौ प्रकारौ मुख्यत्वेन भवतः । एतयोः क्रमेण् परिचय इत्थं विद्यते ।

क्रीडाङ्गणं क्रीडोपकरणानि च

जगति कस्यापि कर्मणः प्रवर्तनानन्तरं क्रमशो विकासो भवति विकासेन सहैव तेषु तेषु कर्मसु नानाविधानि तारतम्यान्यप्यप्यायन्ति । कन्दुकक्रीडाविषयेऽस्मिन् विशिष्टोदाहरणं प्रस्तौति । यथा हि पूर्वं कराभ्यां, पश्चात् पदभ्यां, ततः परं करण्डके क्षेपणेन, यष्टिसाहाय्येन, पट्टिकाद्वारा विभिन्नाभिर्यष्टिकाभिश्च क्रीडा-विकासः सञ्जातस्तयैव फलकेनापि क्रीडनं प्रसृतम् ।

(१) क्रीडाङ्गणं तदायति विस्तारादयश्च

(क) क्रीडाङ्गणं -यस्मिन प्राङ्गणे टेनिस् क्रीडा भवति तत् ‘कोर्ट’-इति कथ्यते । एकल-(सिंगल्स) क्रीडार्थं लघु क्षेत्रं तथा युग्मक -(ड्बल्स)क्रीडार्थं दीर्ध क्षेत्रमपेक्षते ।

१-एकलक्रीडावतः -क्षेत्रस्य मध्ये एका जालिका भवति तथोभयतः क्रीडकानां क्रीडनायस्थानं, विशिष्टाभिरेकप्रकारिकाभी रेखाभिनिर्मीयते । इदं स्थानं द्वयोर्भागयोर्विभज्यते ययोरभिधाने वामक्षेत्रं (लेफ्ट कोर्ट), दक्षक्षेत्र (राइटकोर्ट)मिति भवतः । अनयोः पृष्ठेऽन्याप्येका रेखाऽऽकृष्यते यां ‘क्रीडारम्भ-रेखा’ (सर्विसलाइन) इति कथयन्ति । अस्याः पृष्ठे या रेखा भवति सा (बेसलाइन) ‘आधार -रेखा ’ निगद्यते । एवमेवोभयपार्श्चयो रेखे (साइड लाइन) भवतः ।

२-युग्मकक्रीडावति क्षेत्रे केवलमिदमन्तरं भवति यदुभयतो वामदक्षक्षेत्रयोः पार्श्वारेखयोः समानान्तरेण ४ फुट ६ इञ्चमितं विस्तृतं स्थानं त्यक्त्वा युग्मकपार्श्वरेखाऽऽकृष्यते यां ‘कोरीडर्’ (Corrider) अथवा ‘अले’ (Alley) इति कथयन्ति ।

साम्प्रतं प्रायो ‘युग्मक -क्रीडा -क्षेत्र’मेव निर्मीयते यस्मिन् युग्मका एककाः वा क्रीडाः क्रीडितुं शक्यन्ते । वाम-दक्ष-क्षेत्रयोरायतता २१ फुटमिता विस्तारश्च २७ फुटमितो भवति । इत्थमेकस्य वामक्षेत्रस्य विस्तारोऽस्मादर्धः १३ १/२ फुटमितः सञ्जायते तथा तावत्येवायतता दक्षक्षेत्रस्य भवति । आधाररेखायास्तथाऽऽरम्भरेखाया अन्तरं १८ फुटमितं क्रियते । उभयपार्श्वयोरायतत्वं ७८ फुटमितं तथा युग्मक-क्षेत्रे विस्तारः ३६ फुटमित एककक्षेत्रस्य च विस्तारः २७ फुटमितो भवति । मध्यवर्तिनी जालिका पार्श्वरेखयोर्बहिः ३ फुटमिता निःसृता विधीयते ।

टेनिस-क्षेत्रे या रेखाः कृष्यन्ते तासां स्थूलता भिन्न-भिन्न भवन्ति । यथा

१-आधाररेखायाः स्थूलत्वम् -१ इञ्चतः ४ इञ्चपर्यन्तम् ।
२- क्रीडारम्भरेखायाः स्थूलत्वम् -२ इञ्चमितम् ।
३- केन्द्रचिह्नस्य स्थूलत्वम् -२ इञ्चमितम् (अस्यायतत्वं ४ इञ्चमितं क्षेत्रस्यान्तर्भागे भवति)
४- अन्यासां सर्वासां रेखाणां स्थूलत्वं -१ तः २ इञ्चमितं भवति

जालिका -जालिकाया आयतत्वं ४२ फुट उच्चता च ३ १/२ फुटमिता क्रियते । जालिकेयं द्वयोः स्तम्भयोर्मध्ये एकया रज्ज्वाऽऽथवा लोहसूत्रेण निबद्धय दोलायते या २ १/२ इञ्चविस्तृतया वस्त्रपट्टिकयाऽऽव्रियते । मध्ये जालिका १ इञ्चविस्तृतया वस्त्रपट्टिकयाऽऽकृप्य भूमौ निखन्यते । जालिकाया उच्चता स्तम्भे संलग्नेन हस्तकेन (हैण्डलतः) समुचिता विधीयते पुनश्च मध्यस्थानस्य पट्टिका नियम्यते । यदि युग्मक-क्रीडा -क्षेत्रे एककक्रीडा विधीयते तदैककपार्श्चरेखाया उभयभागयोः ३ फुट मितेनान्तरेण जालिकायामुभयत्र स्तम्भौ निखन्येते ।

क्रीडोपकरणानि

१-कन्दुक-ताडकं फलकम् -येन फलकेन टेनिसखेलनं क्रीयते तद ‘रैकेट्’ इति कथ्यते । अस्य भारः १३ १/२ औसतः १४ औसमितः पुरुषेभ्यस्तथा ततोऽधसमिताल्पभारो महिलभ्यो भवति । बालकेभ्यो यथारुचि न्यूनाधिकताऽपि स्वीक्रियते । अस्य सन्तुलनेन समुचितेन भवितव्यमन्यथा धारणे ताडने च वैषम्यमापतति । इदमग्रतोऽण्डाकारं पृष्ठतश्च हस्तकसंयुतं भवति । ह्स्तेन ग्रहणस्थलं चर्मणाऽऽवृतं विधीयते तेन धारणे ग्रहणे च सौविध्यं भवति । अग्रवर्ती भागः स्नायुना जालिकारुपेण निर्मीयते तदा रुचिरं भवति । फलकस्य रक्षार्थं शीते स्थले वर्षासु च क्लिन्नतारहिते स्थले स्थापनमावश्यकमस्ति । क्रीडानन्तरमिदं ‘प्रेस्’ मध्ये स्थाप्यते ।

२-कन्दुकः -टेनिसस्य कन्दुकः ‘किरमिच’ पदार्थस्य भवति । तथाऽस्य व्यासः २ १/२२ इञ्चतोऽधिकस्तथा २ १/२ इञ्चतो न्यूनो न भवति । अस्य भारो न्यूनातिन्यूनः २ औसमितः किञ्चाधिकादधिकः २ १२/१३ औसमितः कर्तव्यः । आकारेण वर्तुलस्य कन्दुकस्य योजकभागा ऊर्ध्ववर्तिनो न भवेयुः । क्रीडनेन चिक्कणतां प्राप्तं कन्दुकं परिवर्त्य द्वितीयं गृह्णन्ति ।

३- वस्ताणि -क्रीडकानां वस्त्राणि सुखकारीणि स्युः । कञ्चुक-पादयामार्ध-पादयाम -पादप्रच्छादकोपानत्प्रभृतीनि सर्वाण्यप्युपकरणानि क्रीडोपयुक्तानि भवेयुः ।

क्रीडकाः क्रीडविधयश्च

क्रीडकास्तेषां नियमाश्च

(क) क्रीडा -इयं क्रीडा ‘शाद्वलक्षेत्र’ (लान् -टेनिस) वज्रचूर्णनिर्मितकुट्टिमक्षेत्र-काष्ठपट्ट -निर्मित-क्षेत्र -(हार्ड-कोर्ट-टेनिस) -काष्ठपीठ-क्षेत्र _(टेबल्-टेनिस) -नाम भिस्त्रिविधा सत्यपि मुखत्वेन

१-लौन्-टेनिस २-टेबल-टेनिस -रुपेण द्विविधाऽस्ति । तत्र प्रथमं तृणाकुलायां भूमौ क्रीडाया (टेनिस- क्रीडाया) वर्णनं प्रस्तूयते ।

(ख) क्रीडा संख्या नियमाश्च -अस्याः क्रीडायाः प्रतियोगिता द्विविधा भवति २-एकल-क्रीडा (सिंगल्स गेम) तथा २-युग्मक-क्रीडा (डबल्स गेम) । एकल-क्रीडायां केवलं द्वौ क्रीडकौ भवतः । तयोरेको जालिकाया एकस्मिन भागे द्वितीयश्च द्वितीयस्मिन् भागे । कः क्रीडकः कस्मिन् भागे क्रीडेत् प्रारम्भे च क्रीडारम्भं कः कुर्यादित्यस्य निर्णयो मुद्राक्षेपणेन भवति । यः क्रीडार्थी मुद्रा-विजयं प्राप्नोति स यदि निर्णयेद यत स प्रथमं क्रीडारम्भं करिष्यति तदा द्वितीयः स्वेच्छया जालिकाया यस्मिन् कस्मिन्नपि भागे क्रीडितुं प्रभवति । यदि च सः क्रीडारम्भस्य निर्णयं स्वपक्षे करोति तदा तस्य क्रीडा-विषयकोऽधिकारो विपक्ष-क्रीडकस्य भवति । यदि मुद्राविजेता वाञ्छेत् तदा स विपक्षिणे सर्वविधमधिकारमपि दातुं शक्नोति ।

युग्मकक्रीडायां - द्वौ द्वौ क्रीडकौ प्रतिभागं क्रीडतः । तेषामन्ये नियमाः प्राय एकलक्रीडावदेव सन्ति । ये विशिष्टाः सन्ति तेऽग्रे सूच्येरन् ।

क्रीडाविधयः

(१) क्रीडारम्भकः ‘सर्वर’ इति प्रोच्यते । क्रीडनारम्भसमये स आधाररेखयाः पृष्ठे तथा मध्यचिह्न (सेण्टर पाइण्ट) स्य पार्श्वरेखायाश्च मध्ये दक्षभागे तिष्ठति । ततः परं हस्तेन कन्दुकमुत्पात्य फलकेन तं ताडयित्वा विपक्षस्य क्षेत्र प्रापयति । क्न्दुक आधाररेखा-पार्श्वरेखयोर्मध्य एव भूमि स्पृशेत तथैव वर्तनीयं भवति ।

क्रीडारम्भकालेऽधो दर्शिताः सङ्केता विशिष्य ध्येयाः सन्ति-

(क) विपक्ष- क्रीडकः कन्दुकं गृहीतुं सज्जोऽस्ति न वा ?
(ख) प्रथमं कन्दुक उच्छालनीयस्ततः परं च फलकेन ताडनीयः ।
(ग) कन्दुकोत्पातनानन्तरं स भूमि-स्पर्शं विनैव ताडनीयः ।
(घ) न्यूनातिन्यूनतयैकः पादो भूमिमवश्यं स्पृशेत ।
(ङ) प्रारम्भणाविधिपूर्ति यावद् उभावपि पाडावाधाररेखाया बहिर्भवेताम् ।
(च) प्रारम्भण- समये प्रचलनं धावनं वा न कर्तव्यम् ।

(२) त्रुटयः -यदि नियमभङ्गो भवति तदा त्रुटिर्मन्यते । कन्दुकोच्छालनानन्तरं स फलकेन न ताडयते तदा त्रुटिर्भवति । जालिका-निर्णायक- पीठादिभिः सङ्घट्टनेनापि प्रारम्भणं त्रुटिपूर्णं गण्यते ।

(३) पुनः प्रारम्भणावसरः -यदि प्रारम्भणं दोषपूर्णं भवति परमुचितस्थानात् तत् कृतं भवति तदा द्वितीयोऽवसरो दीयते । एवमेव निश्चितस्थानादतिरिच्य प्रारम्भणेऽपि पुनरवसरो दीयते । किन्तु द्वितीयवारं यदि काऽपि त्रुटिः क्रीयते तदा सा त्रुटिरेव मन्यते स चैकमङ्कनं पराजयते । प्रारम्भणौचित्ये सति क्रीडा प्रवर्तते तथा भूयोऽङ्कने स्त्येव पुनः प्रारम्भणं विधीयते ।

(४) क्रीडाचक्रम् (गेम) -यदा क्रीडकः प्रथममङ्कनं जयति तदा तत् १५ कथ्यते, द्वितीयाङ्कनोपलब्धौ ३०, तृतीयाङ्कनविजये ४० तथा चतुर्थऽङ्कनजये ‘गेम’ भवति । प्रारम्भकस्याङ्कनं प्रथममालिख्यते । यदि ‘क’ संज्ञकः ‘ख’ संज्ञ्काय कन्दुकं ददानोऽङ्कनं प्राप्नोति तर्हि तस्य गणनाङ्कः ‘१५’ लव इत्युच्यते । यदि द्वावपि क्रीडकावेकैकमङ्कनं विजयेते तर्हि ‘फिफ्टिन आल’ उभयोः समानाङ्कनानीति कथयन्ति ।

(५) अवशेषः (डयूस)- उभयोरपि क्रीडकयोरङ्कनत्रय विजयं ‘डयूस’ इति गदन्ति । परं द्वे अङ्कने क्रमशः क-ख- संज्ञकौ नैरन्तर्येण जयतस्तदा सा गणना ‘एडवाण्टेज इन’ कथ्यते । अस्मिन क-संज्ञकः प्रारम्भको भवति । यदि ख-संज्ञकोऽङ्कनं जयति तदा तां गणनां ‘एडवाण्टेज प्राउट’ कथयन्ति । यदि ‘स्कोर-डयूस’ भवति तथा क-संज्ञक एकमङ्कनं जयति तदा तदपि ‘एवाण्टेज इन’ भवति ततः परवर्ती च यदि तदङ्कनं पराजयते तदा गणनं पुनरवशिष्टं ‘स्कोर डयूस’ मन्यते । एवं द्वयङ्कनपूर्त्यनन्तरमेव ‘गेम्’ भवति, अन्यया डयूस एव प्रवर्तते ।

(६) चक्रजयः (सैट) षट-क्रीडाचक्रजयानन्तरं सैट-जयः कथयते । एतदर्थं क्रीडकाय विपक्षक्रीडकादधिकानां क्रीडाचक्राणां जय आवश्यकः । उभावपि क्रीडकौ पञ्च पञ्च क्रीडाचक्राणि जयतस्त्तदा ‘फाइव आल’ इति निगदन्ति ।

(७) प्रतियोगिता (मैच) अधिकाधिकं पञ्च चक्रजयाः प्रतियोगितायां निर्णयायावश्यकाः सन्ति । महिलाभ्यस्त्रयोऽपेक्षिताः । अयं निर्णयः पूर्वमेव कर्तव्यः । प्रायस्त्रयाणां चक्रजयानामुत्तरमेव प्रतिजयानामुत्तरमेव प्रतियोगिताया निर्णयः क्रियते ।

युग्मकक्रीडाया विशिष्टा नियमाः युग्म्कक्रीडायाः क्षेत्रं ३६ फुटमितं विस्तृतं भवति तथैकलक्रीडावतः क्षेत्रादुभयपार्श्चयोः ४ १/२ फुटमितं स्थानं विशिष्य त्यज्यते । यो युग्मकः प्रारम्भं करोति स पूर्वमेव् निर्णयति यत् तस्य कः सहक्रीडकः प्रारम्भं करिष्यति ? इत्यमेव विपक्षयुग्मकोऽपि निर्णयति । क्रीडासमाप्तिं यावत प्रथमे क्रीडाचक्रे प्रारब्धा तृतीये, द्वितीयश्च चतुर्थे क्रीडाचक्रे प्रारम्भविधि करोति । सत्यां त्रुटौ निर्णायकस्य निर्णय एव प्रमाणम् ।

केचन विशिष्टाः शब्दा निर्देशाश्च

अस्यां क्रीडायां क्रीडाविधौ उत्तम-परावर्तनं ‘गुड्-रिटर्न’ इति कथ्यते । इदं विपक्ष-क्षेत्रे कन्दुक -परावर्तनस्य वैशिष्ट्य न मन्यते । कन्दुकताडनस्य (डाइव विधेः) द्वौ प्रकारौ स्तः १- फोरहैण्ड ड्राइव तथा २-बैकहैण्ड ड्राइव । इमे ताडने वाम-दक्षभागाभ्यां ताडनेन भवतः । उच्चैर्वर्तिनं कन्दुकं ताडयित्वा तस्य सहसा नीचैः करणं ‘स्मैश्’ कथ्यते । फलकताडनेन कन्दुक प्रदानं ‘बौली’ उच्यते । अस्यापि ‘फोरहेण्ड-बैजहैण्ड’ -प्रक्रियाभ्यां द्वौ प्रकारौ स्तः । यदि क्रीडार्थं बहवः क्रीडका आवएदयन्ति तदा चक्रानुसारं तेषां क्रमेण चयनं विधातव्यम् । प्रत्येकं क्रीडकेन निर्णायकस्यादेशा निर्णयाश्चावश्यं स्वीकर्तव्याः । नित्याभ्यासेन नियमानां पालनेन क्रीडेयं रुचिकरी भवति साफल्यं च वितरति ।

हरिततृणमये वा वज्रचूर्णाञ्चिते वा
विधिविहितसुरम्ये काष्ठपट्टाङ्गणे वा ।
वन- भवनगना वा एकला युग्मकी वा
भवति भुवि मनोज्ञा " टेनिसा"ख्या सुखेला ॥

बाह्यसम्पर्कतन्तुः

International organizations
Team competitions
Other

आधारः

अभिनवक्रीडातरंगिणी

"https://sa.bharatpedia.org/index.php?title=टेनिस्-क्रीडा&oldid=1398" इत्यस्माद् प्रतिप्राप्तम्