ज्योतिषामपि तज्ज्योतिः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥

अन्वयः

तत् सर्वेन्द्रियगुणाभासम्, सर्वेन्द्रियविवर्जितम्, असक्तम्, सर्वभृत् च एव, निर्गुणम्, गुणभोक्तृच, भूतानाम् बहिः अन्तः च, अचरम्, चरम् एव च, सूक्ष्मत्वात् तत् अविज्ञेयम्, दूरस्थं च, अन्तिके च, भूतेषु अविभक्तंच, विभक्तम् इव स्थितम् च, भूतभर्तृ च, ग्रसिष्णु प्रभविष्णु ,ज्ञेयम् ,ज्योतिषाम् अपि ज्योति: तमसः परम् उच्यते । ज्ञानम्, ज्ञेयम्, ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।

शब्दार्थः

सर्वेन्द्रियगुणाभासम् = इन्द्रियविषयप्रकाशकम्
असक्तम् = सरहितम्
सर्वेन्द्रियविवर्जितम् = सकलेन्द्रियरहितम्
सर्वभृत् = सकलभृत्
निर्गुणम् = गुणरहितम्
गुणभोक्तृ = गुणानां पालकम् ।
भूतानाम् = जन्तूनाम्
बहिः = बहिर्भूतम्
अन्तः = अन्तर्भागे स्थितम्
अचरम् = अचलम्
चरम् = चलम्
सूक्ष्मत्वात् = सूक्ष्मरूपत्वात्
अविज्ञेयम् = अबोध्यम्
तत् = ज्ञेयं ब्रह्म
दूरस्थम् = सुदूरस्थम्
अन्तिके = समीपे स्थितम् ।
अविभक्तम् = एकीभूतम्
विभक्तम् इव = विभागयुक्तम् इव
स्थितम् = विद्यमानम्
भूतभृत् = भूतधारकम्
तत् ज्ञेयम् = तत् बोद्धव्यम्
ग्रसिष्णु = ग्रसनशीलम्
प्रभविष्णु = प्रभवशीलम् ।
तत् = तद्वस्तु
ज्योतिषाम् = अर्चिषाम्
ज्योतिः = अर्चिः
तमसः = अन्धकारात्
परम् = अन्यत्
ज्ञानम् = बोधरूपम्
ज्ञेयम् = बोद्धव्यम्
ज्ञानगम्यम् = ज्ञानफलम्
हृदि = हृदये
विष्ठितम् = स्थितम् ।

अर्थः

तत् ब्रह्म इन्द्रियविषयाणां शब्दादीनां प्रकाशकम्, इन्द्रियशून्यम्, विषयेषु असम्बद्धम्, सर्वेषां पदार्थानां धारकम्, गुणशून्यम् , गुणरक्षकं च वर्तते तत् ब्रह्म भूतानां बहिः अन्तश्च वर्तमानम् अर्थात् भूतव्यापकम्, अचलम् चलमिव भासमानम् , गूढत्वात् आयासेन बोध्यम्, दूरे वर्तमानम्, अन्तिके च वर्तमानमिव अस्ति । तत् ब्रह्म भूतेषु अविभक्तमपि विभक्तमिव स्थितम्, पृथिव्यादीनां भूतानां धारकम् पदार्थग्रसनशीलम्,सर्वथा समर्थम् । तत् ब्रह्म प्रकाशकानां ज्योतिषामपि प्रकाशकम्, अन्धकारम् अतीत्य वर्तमानम्, अमानित्वादिभिः ज्ञानसाधनैः अवगम्यम्, सर्वेषां हृदये वर्तमानं च ।

श्लोकविशेषः

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा अत्र उक्तं वर्तते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः