ज्योतिषशास्त्रस्य इतिहासः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

ज्योतिषशास्त्रस्य इतिहासः तु संस्कृतवाङ्गमयस्य अङ्गभूतः अस्ति। संस्कृतवाङ्मयं हि विश्ववाङ्मयसमुदाये मूर्द्धन्यमिति न सम्भवति कस्याऽपि विमतिः । अस्य हि विस्तृतं सुसमृद्धञ्च सर्वाङ्गपूर्ण कलेवरं सर्वानपि विस्मापयतीति नैवात्युक्तिः । अत्रत्यो हि शाश्वतः सार्वभौमश्च ज्ञाननिधिरनादिकालादारभ्य साम्प्रतिकयुगपर्यन्तमपि अनवरतरूपेणोपचीयमानो दृश्यते । वाङ्मयमिदमेवादाय --‘यन्नेहाऽस्ति न चान्यत्र यदिहास्ति न तत्क्वचित्' इत्युक्तिश्चरितार्था दृश्यते ।। 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इत्यादिकर्मप्रवृत्युपदेशपरमन्त्राश्च यद्येकत्र सन्त्यत्र तथैवापरत्र ‘अविद्यया मृत्यु तीत्व विद्ययाऽमृतमश्नुते' इतिप्रभृतिनिवृत्त्युपदेशपरवचनान्यपि लभ्यन्तेऽत्रैव । अनेन सिध्यति यदस्य वाङ्मयस्य मूलतो द्वौ भाग–अविद्या विद्या चेति । अविद्याऽपरेत्युच्यते विज्ञानशब्देनाऽपि ज्ञायते यदा विद्या पराशब्देन ज्ञानशब्देनाऽपि ज्ञायते । पुरुषार्थसिद्धिरेवाऽस्य वाङ्मयस्य चमं लक्ष्यम् । पुरुषार्थश्च चतुर्वधो धर्मार्थकाममोक्षभेदेन । तत्र धर्मो हि बुद्धेविषयः सदसद्विवेकलक्षणः । अर्थश्च शरीरविषयो व्यवहारलक्षणः । कामो हि मनसो विषयो भोगलक्षणः । मोक्षस्तु आत्मनो विषयः घरमनिवृत्तिलक्षणः । एषां हि यथायोग्यप्रवृत्तिनिवृत्युपदेशप्रतिपादनवैलक्षण्यमेवास्य वैशिष्टयम् । उक्तमेव -

‘धर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः' इति । धर्मानुरोधेनार्थस्यार्थस्यानुरोधेन कामस्य मोक्षानुरोधेन सर्वेषामुपयोग एवास्य परमः सन्देशः । तेन जनस्य मोक्ष एव चरमो लक्ष्यः । किन्तु स तु तुरीयः पादः । पादत्रयमतिक्रम्यैव तत्र गन्तुं शक्यते । धर्मा अनुष्ठेया अर्थाश्चोपार्जनीयाः कामाश्च सेव्यास्तत एव मोक्षे रतिः सम्भवतीति तदनुरोधेन मानवजीवनमपि ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसंन्यासावस्थाभेदेन चतुर्दैव विभक्तमस्ति । आपञ्चविंशतेब्रह्मचारी भवति प्रवृत्तिनिवृत्तिज्ञानादिकमुपार्जयति । स्नातश्च स गृहस्थाश्रम प्रविशति विविधैर्भागैरिन्द्रियाणि सन्तर्पयति यथायोगमापञ्चपञ्चाशत्तमात् । तृप्तेन्द्रियश्च स वानप्रस्थं प्रविशति चरति च विविधं तपो विषयान्मनोनिवर्तनायापञ्चसप्ततेः । विषयव्यावृतात्मा से संन्यासमधिगच्छति त्यक्तसर्वपरिग्रहो यावज्जीवं त्यक्तकलेवरश्च परमेशानमाप्नोतीति सुव्यवस्थापिता जीवनचर्याऽत्र । तदित्थं सर्वाङ्गपूर्ण वाङ्मयमिदं निवृत्तिमार्गमात्रोपदेशकमकर्मण्याधिवक्तृ च यदि कश्चिन्मन्यते स देवानां प्रिय एव । न केवलमत्र पुरुषार्थसिद्धिरेव वणिताऽपितु तत्तन्मार्गव्याख्यातॄणि शास्त्राण्यपि प्रथितानि सन्ति । समस्तमपि वाङ्मयं मूलतश्चत्वारो वेदास्तस्य षडङ्गानि पुराणं न्यायो मीमांसा धर्मशास्त्रञ्चेति चतुर्दशधा विभक्तमस्ति । तेषाञ्च शाखाः प्रशाखाश्च सहस्रधा विभक्ता व्याख्याताश्च सन्ति । मूलतश्चत्वारो वेदाश्चतस्रो मूलसंहिता वा ऋग्यजुःसामाथवख्याः । तत्रापि ऋच एवैकविंशतिः शाखाः यजुषः शुक्लभागे पञ्चदश कृष्णभागे षडशीतिरिति एकोत्तरशतं शाखाः । सहस्रवत्र्मा सामवेदः । अथर्वश्च नवविध इति । एतासां शाखानां प्रत्येक ब्राह्मणग्रन्था आरण्यकानि उपनिषदश्चेति को नाम ताः परिगणयितुं प्रभवति ! मूलसंहितानां प्रत्येक पुनरुपवेदाः क्रमेण आयुर्धनुगन्धवार्थाख्याः । तत्रापि सर्वेषामेव प्रत्येक क्षिा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गानि । एषामपि सन्त्यनेमान्युपाङ्गानि असङ्ख्येयानि । शास्त्राणि च प्रत्येक कतिपयस्वविभागेषु विभक्तानि भवन्ति यथा ज्योतिष हि शास्त्रं सिद्धान्तसंहिताहोराख्येषु त्रिषु स्कन्धेषु विभक्तमस्ति । इत्थं हि प्रवृत्तिनिवृत्तिमार्गनिर्देशनपरं हि वाङ्मयमिदं कलेवरेण गुणेन च सवण्यतिशेते इति न प्रामादिकम् ।

ज्योतिषशास्त्रपरिचयः

वेदस्य हि षट्स्वङ्गेषु ज्योतिषमन्यतममिति सूक्तमेव । ज्योतिष हि वेदस्य चक्षुष्ट्वेन स्मर्यते । यथा हि तस्य शिक्षा घ्राणं व्याकरणं मुखं छन्दःपादौ च । यथोक्तं भास्कराचार्यैः -

'वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते ।

संयुतोऽपीतरैः कर्णनासादिभिः चक्षुषान हीनो न किञ्चित्करः ॥' इति ।

अपरिमिते गगनमण्डले यानि हि तेजोमयानि बिम्बानि दृश्यन्ते तानि सवण्येव समष्टया ज्योतिःशब्देनोच्यन्ते । तेष्वपि यानि हि सदैकरूपगतीनि तानि नक्षत्रशब्देन ज्ञायन्ते, प्रतिदिनं भिन्नभिन्नगतीनि तु ग्रहशब्देन । तेष्वपि पुनः केचिदमृतमयकिरणाः, केचिद्विषमयकिरणाः, केचिदुभयमिश्रकिरणाः केचित्तूभयधर्महीन रश्मयश्च स्मृताः । एवंविधनक्षत्रग्रहतारकादिज्योतिःपिण्डानां स्थितिगतिप्रभावादिवर्णनपर शास्त्रमेव ज्योतिषपदेनाभिधीयते ज्योतींषि अस्य सन्ति विवेचनीयत्वेनेति ( ज्योतिःशब्दान्मत्वर्थीयेऽचि ( अर्श आदित्वात् ) व्युत्पत्त्या ।) तदधिकृत्य कृतो ग्रन्थो ज्यौतिषः सूर्यसिद्धान्तादिः । तदधीते तद्वेद वा ज्योतिषिक: ( क्रतुक्थादित्वात् ठक् ) ज्यौतिषो वा ( पक्षेऽण् ) । ज्योतिषमस्यास्तीति ज्योतिषी एवमेव ज्यौतिषी च । केचित्तु ज्योतींषि अधिकृत्य कृतो ग्रन्थः इति व्युत्पत्तिमाश्रित्य शास्त्रमपि ज्यौतिषपदेनाभिदधति । किन्तु नासौ पक्षः साधुः । यतो हि अण्प्रत्ययस्तु ग्रन्थविशेषमादायैव भवति न तु शास्त्रमात्रम् । शास्त्रग्रन्थयोर्भेदस्तु स्पष्ट एव । यथोक्तं विषयानुशासनमात्र शास्त्रमाचार्यविशेषकर्तृको निश्चितशब्दानुपूर्वीको ग्रन्थ इति । यथा हि पाणिनिः सूत्रकारो न तु व्याकरणकारः, सूत्रस्य ग्रन्थरूपत्वाद्वयाकरणस्य तु शास्त्ररूपत्वात् । केचिज्ज्योतिविद्यारूपेऽर्थे ज्योतिषमिति शब्दं रूढमपि मन्यन्ते । यच्च ज्योतिषशब्दादूढात्स्वार्थेऽणि ज्यौतिषमिति वदन्ति तदपि निरर्थकशिरोवेदनैव । वस्तुतस्तु शास्त्रमिदं ज्योतिष ज्योतिविषयकम् । न केवलमिदं व्युत्पत्त्यैवापितु लगधमारभ्य कमलाकरभट्टपर्यन्तं ये खल्वाकरग्रन्थाः प्रणीतास्तत्र तत्र शास्त्रमिदं ज्योतिषशब्देनैव व्यवहृतं दृश्यते इति तज्ज्ञा वदन्ति ।

शास्त्रस्यास्य पृथक् शास्त्रत्वेनाविभवोऽपि शास्त्रान्तरसमकालिक एव । कथ्यते हि वैदिकसंहितासु तत्र तत्रोपवणतं ज्योतिषविषयमादाय लगधनाम्ना मुनिना प्रणीतो वेदाङ्गज्योतिषाख्यो ग्रन्थ एव विषयेऽस्मिन् प्रथम इति । ज्योतिषशास्त्रप्रवर्तकत्वेन तत्र तत्र' सूर्यादयोऽष्टादश ऋषयः स्मर्यन्ते । अन्थकर्तृषु शास्त्रेऽस्मिन् लगधात्परम् आर्यभट-लल्ल-ब्रह्मगुप्त वराहमिहिर-श्रीपतिभास्कराचार्य-मुनीश्वर-ज्ञानराज-कमलाकरभट्टाः प्राधान्येन स्मर्यन्ते श्रीधरवटेश्वर-मुजालादयश्च । नवीनेषु नीलाम्बर-बापूदेव-सुधाकर-शङ्करबालकृष्णयोगेशचन्द्र-केतकर-आप्टेप्रभृतयो विद्वांसः परिगण्यन्ते गणकत्वेन । | शास्त्रमिदं सिद्धान्त-संहिता-होराभेदेन त्रिषु स्कन्धेषु विभक्तमिति त्रिस्कन्धज्योतिषशब्देनापि ज्ञायते । तत्राद्यो गणितशब्देनाऽप्यभिधीयते । स्कन्धोऽयमपि |ग्रहगणित-पाटीलगित-बीजगणितभेदेन विविधः । ज्ञह्मा, वसिष्ठः, सोमः सूर्यश्चेत्यस्य प्रवर्तकत्वेन स्मृता आचार्याः अनन्तरमार्यभट-ब्रह्मगुप्त-वराहमिहिर-भास्कराचार्य-कमलाकरप्रभृतयः । आर्षः सूर्यसिद्धान्तः आर्यभटस्य आर्यभटीयं, ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्तः, वराहमिहिरस्य पञ्चसिद्धान्तिका, भास्कराचार्यस्य सिद्धान्तशिरोमणिः कमलाकरस्य सिद्धान्ततत्त्वविवेकश्च स्कन्धस्यास्य मान्या ग्रन्थाः । संहितास्कन्धः कालचक्र विवृणोति मुहर्तादि । आर्षत्वेन बार्हस्पत्यकाश्यप-नारदसंहिताः सम्प्रति दृश्यन्ते, यद्यपि बहव ऋषयः संहितायाः कर्तृत्वेन स्मृता दृश्यन्ते तत्र तत्र । वराहमिहिरस्य बृहत्संहिता विषयेऽस्मिन् प्रामाणिको ग्रन्थः । होरास्कन्धस्तु जातकताजिकभेदेन द्विधा विभक्तोऽस्ति । अयमेव फलितज्योतिषनाम्नाऽपि व्यवह्रियते । वराहमिहिरस्य बृहज्जातकम्, नीलकण्ठस्य ताजिकनीलकण्ठी च विषयेऽस्मिन् प्रामाणिक ग्रन्थौ ।

तदिदं शास्त्र व्यवहारशास्त्रत्वेन समाद्रियते जनः । व्यवहारेऽस्योपयोगो बहुमुखः । ग्रहाणां कालावस्थागत्यादिनिर्देचेन कर्मसम्पादननिमित्तकमुहूर्तादिकथनेन शुभाशुभफलकथनेन चेदं शास्त्रं जनान् प्रत्यक्षमेवोपकरोतीति । शास्त्रदृष्ट्या व्यवहारदृष्ट्या चोपयोगित्वेनैवेदं वेदाङ्गेषु मूर्द्धन्यत्वेन स्मर्यते । यथोक्तं लगधमुनिनाऽपि

'यथा शिखा मयूराणां नागानां मणयो यथा ।।

तद्वद्वेदाङ्गशास्त्राणां ज्योतिष मूनि संस्थितम् ॥' इति ।

मुहूर्तज्ञानं दिग्ज्ञानं तिथिवारादिज्ञानञ्च ज्योतिषशास्त्रादेव येन विना व्यवहार एव न सिध्यतीति स्पष्टमेवापरिहार्यताऽस्य व्यवहारे । तेनैवोक्तं स्यात्--

‘प्रत्यक्ष ज्योतिष शास्त्रं चन्द्राकौं यस्य साक्षिणौ ।' इति ।

वेदनिर्गतमपि शास्त्रमिदं स्वातन्त्र्यमप्यधिकरोति येनाऽस्य शास्त्रत्वमक्षुण्णं वर्तते । ग्रहणविषये ग्रहस्थितिविषये पृथ्वीस्वरूपगतिविषये चास्य मौलिका अपि सिद्धान्ताः । तदिदं शास्त्रोपकारकं जगद्वयवहारप्रवर्तकञ्च ज्योतिषाख्यं शास्त्रम् । ग्रहादिगतिस्थितिप्रभावादिशासनादस्य शास्त्रत्वमक्षुण्णमिति ।।

ज्योतिषशास्त्रविकासः

ज्योतिषशास्त्रमपि शास्त्रान्तरवत्कतिपय अवस्थाः अतिक्रम्य साम्प्रतिकामवस्थ प्राप्तं दृश्य । जिज्ञासा हि मानवस्य मौलिकप्रवृत्तिष्वन्यतमी । यथा हि स भोक्तुमिच्छति, पातुमिच्छति, रन्तुमिच्छति, आत्मानं प्रकटयितुमिच्छति तथैव स स्वं परञ्च ज्ञातुमिच्छति । जिज्ञासैव ज्ञानस्याविष्कारिणी । ग्रहनक्षत्रविषयकजिज्ञासैव ज्योतिषशास्त्रस्याविर्भावे हेतुः । व्यवहारान्तरे पशुवदपि मानवोऽनादिकालदेव दिवस-रात्रि-अयनादिविषये, स्वल्पमपि जानाति स्म । स हि सूर्याचन्द्रमसौ तारा ग्रहानं नक्षत्राणि दृष्ट्वा कामं तेषां वैशिष्ट्यं नैव जानाति स्म, तथापि तदवस्थितिमादाय यत्किञ्चिदपि चिन्तनमवश्यमेव करोति स्म । तदेव चिन्तनमनुभवोपचितं वैदिकसंहितासु प्रस्फुटितं दृश्यते पश्चाच्च नवनवानुभवसंयोजनपूर्वक लौकिकग्रन्थेष्वपि । तेन हि ज्योतिषशास्त्रस्य विकासः पञ्चसु अवस्थासु विभक्तो दृश्यते-प्राग्वैदिककालः, वैदिकसंहिताकालः, वेदाङ्गकालः, सिद्धान्तकालः आधुनिककालश्चेति अथवा अज्ञातकालः, आदिकालः, पूर्वमध्यमकालः, उत्तरमध्यमकालः आधुनिककालश्चेति । अस्य हि प्राग्वैदिकेकालोऽज्ञातकालो वा नितान्तमेवाज्ञातोऽस्माभिः ।

वैदिकसंहितासु यादृशं ज्योतिषस्य स्वरूपं द्रष्टुं लभ्यते तदाधारेण वयमनुमातुं प्रभवामो यत्तत्पूर्वमपि ज्योतिषस्य यत्किञ्चिदपि स्वरूपं सुनिश्चितमासीदिति । वैदिककालश्चास्य ऋग्वेदकालादारभ्य लगधकालपर्यन्तं चलति । यद्यपि वेदानामपौरुषेयत्वादनादिनिधनत्वं सर्वैः स्वीक्रियते तथापि वयमत्र तेषां सङ्ग्रहेण प्रयोजनं गृह्णीमः । तेन ऋग्वैदिककालस्तदैव यदा या हि ऋचः सम्प्रति लभ्यन्ते तासां सङ्ग्रहकाल एवं न तु प्रणयनप्रवचनकालः । लगधस्य वेदाङ्गज्योतिषमारभ्यास्य पूर्वमध्यमकाल उदेति चलति च आर्यभटस्य आर्यभटीयाविर्भावपर्यन्तम् । सिद्धान्तानां स्थिरीकरणं ज्योतिषस्य त्रिषु स्कन्धेषु स्पष्टतया विभाजनं पञ्चाङ्गाविर्भावश्चास्य कालस्य वैशिष्ट्यानि । आर्यभटस्य आर्यभटीयमारभ्य कमलाकरस्य सिद्धान्ततत्वविवेकपर्यन्तं चलति उत्तरार्द्धाऽस्य आर्यभट-ब्रह्मगुप्त-वराहमिहिर-भास्कराचार्य-कमलाकरभट्टाः कालस्यास्य ख्यातयशस्काः ज्योतिवदः ।

ततश्चोदेति आधुनिककालोऽस्य । चापीयत्रिकोणगणितकारो नीलाम्बरः, सरलत्रिकोणमितेः प्रणेता बापूदेवः, गणकतरङ्गिणीप्रभृतिग्रन्थानां प्रणेता सुधाकरः ज्योतिशास्त्रेतिहासस्य प्रणेता शङ्करबालकृष्णश्च कालस्यास्य लब्धप्रतिष्ठा ज्योतिर्विदः ।

कमलाकरभट्टपर्यन्तमपि आर्यभटीया प्राचीन रीतिरेवानुसृता दृश्यते । वराहमिहिरो ज्योतिषे यावनप्रभावं स्वीकरोति । तेन च त्रय एव स्कन्धा ज्योतिषस्य स्वलेखनीविषयीकृताः । यथा उत्तरमध्यमकाले यावनगणकैः सह भारतीयगणकानां सम्मेलनेन ज्योतिषशास्त्रे नवीनता प्रविष्टा तथैव आरवगणकसम्पर्केण चं। ताजिक हि तेषामेव प्रभावफलमत्र । नीलाम्बरादारभ्य आङ्गलसम्पर्केण गणिते नवीना परिपाटी प्रविष्टा। परिचिन्तनमपि किञ्चिन्मौलिक सञ्जातं तथापि सुदृढमूला भारतीयपद्धतिर्न कथमपि स्वकीयवैशिटयं तु विहातुं प्रभवति । कालप्रभावस्तु तत्रापि सक्रिय एव तथापि । अत्रापीदं स्मर्यते -

'पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि ब्रह्मावलोकनधियं न जहाति योगी ।

सङ्गीतनृत्यलयतालवशङ्गताऽपि मौलिस्थकुम्भपरिरक्षणधीनंटीव ।।

वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्या विहिताश्च यज्ञाः ।

तस्मादिदं कालविधानशास्त्र यो ज्योतिषं वेद स वेद यज्ञान् ।।'

ज्योतिषशास्त्रविषयः

सामान्यतो ज्योतिषं हि सिद्धान्तसंहिताहोराभेदेन त्रिस्कन्धमुच्यते तथैव तत्र कैरलि: शकुनश्चेति द्वौ भेदो संयोज्येदं पञ्चस्कन्धमप्युच्यते । यथोक्तम् -

‘पञ्चस्कन्धमिदं शास्त्रं होरागणितसंहिताः ।

कैरलि: शकुनश्चैव'•• ••••••••••••••••••••॥' इति ।

सामान्यतो हि ज्योतिषशास्त्रं हि कालविधानशास्त्रमित्येवास्य प्रतिपाद्यविषयोऽपि काल एव अर्थात् काल एवात्र स्वावयवेषु विभज्योच्यते इति । तस्य चाध्ययनं पञ्चधा विभागं कृत्वा कृतमत्र सिद्धान्त-संहिता-होरा-केरलि-शकुनभेदेनेति । यथाऽऽह वराहमिहिरः -

ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठित

तत्कात्स्न्यपनयस्य नाम मुनिभिः सङ्घीयते संहिता ।

स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ

होराऽन्योऽङ्गविनिमयश्च कथितः स्कन्धस्तृतीयोऽपरः ।।

वक्रानुवक्रास्तमयोदयाद्यास्ताराग्रहाण करणे मयोक्ताः ।

होरागतं विस्तरशश्च जन्म यात्राविवाहैः सह पूर्वमुक्तम् ॥' इति ।

तदित्यं हि ज्योतिषशास्त्रस्य त्रयो मुख्यविभागाः-तन्त्र, संहिता होरा च । तन्त्रं हि सिद्धान्तापरपर्यायम् । इदं हि गणितशब्देनाप्यभिधीयते । तन्त्र हि ग्रहगतिसम्बद्धम् । मध्यगतिः तिथिनक्षत्रच्छेदः स्फुटगतिः त्रिप्रश्नः चन्द्रार्कअहणे उदयास्तमयौ शृङ्गोन्नतिः समागमः ताराग्रहसंयोगश्च तन्त्रस्य विवेच्यविषयाः । गतौ ग्रहाण वक्रत्वमनुवकृत्वञ्च विवेच्यते । यथोक्तम् -

'त्रुट्यादिप्रलयान्तकालगणना मानप्रभेदः क्रमा-

च्चारश्च द्युषदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः ।

भूधिष्ण्यग्रहसंस्थितैश्च कथनं यन्त्रादि यत्रोच्यते

सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः ॥” इति ।

होरास्कन्धो हि जातकसम्बद्धः। यथोक्तं-पितामह-नारद-वसिष्ठ-कश्यपादिसुनिमितं ज्योतिःशास्त्रैकस्कन्धरूपं जन्मनानाविधफलादेशफलकं वेदचक्षुरूपं द्विजामध्ययनीयं शास्त्र होराशब्दवाच्यमिति । आद्यन्तवर्णलोपाद् होराशास्त्रं भवन्यहोरात्रात् । तत्प्रतिबद्धः सर्वो ग्रहभगणश्चिन्त्यते तेन होति । अत्र राशिप्रभेदः ग्रहयोनिः आधानं जन्म मूलादिनक्षत्रविवेकः संवत्सरादिफलं मासफलं ग्रहस्थितिफलं ग्रहदृष्टिफलम् अरिष्टविचारः आयुदयः राजादियोगाश्च होरास्कन्धे विवेच्यन्ते । ताजिकमस्यापरो भेदः । ताजिकमिति तात्कालिकम् । ताजिके हि प्रचलितवर्षफलमादिश्यते । उक्तमेव -

'जातकोदितदशाफलं यतः स्थूलकालफलदं स्फुटं नृणाम् ।।

तत्र न स्फुरति देवविन्मतिस्तद् ब्रुवेऽब्दफलमादि ताजिकात् ॥ इति ।

स्कन्धोऽयं जातक प्रश्नमुहूर्त निमित्तेतिचतुरङ्ग रुपबृंहितः । संहिताऽस्य तृतीयः स्कन्धः । यत्र हि कात्स्येंन ज्योतिःशास्त्रवर्णनं सा संहिता । स्कन्धोऽयं भौतिकफलितज्योतिषपदेनाऽप्यभिधीयते । वस्तुतस्तु सर्वेषामेव स्कन्धानां सङ्क्षेपेण विवेचनाद्धि संहितायाः संहितात्वम् । तेनैवोक्तं संहितापारगो दैवचिन्तको भवतीति । अत्र हि सांवत्सर सूत्रं ग्रहचारः ग्रहयुतिः वर्षफलं शृङ्गाटकं गर्भविवेकः उल्काविवेकः प्रतिवर्षकृत्यं लक्षणानि वास्तु वृक्षायुर्वेदः शकुनविचारः तिथ्यादिफलं ग्रहगोचरश्चैवमाद्या विवेचनीयविषयाः । तेन हि सत्यमेवोच्यते ज्योतिषशास्त्रमनेकभेदविषयमिति ।

सिद्धान्तस्कन्धमाश्रित्य आर्यभटस्य ‘आर्यभटीयम्' प्रथमो लौकिकग्रन्थः । होराभागे तु वराहमिहिरस्य बृहज्जातकमेवाद्यः पृथग्ग्रन्थः । संहिताभागेऽपि तस्यैव बृहत्संहितैव प्रथमः पृथग्ग्रन्थः । सूर्यसिद्धान्त-नारदसंहिता-काश्यपसंहिताद्या ग्रन्थास्तु आर्षत्वेन प्रसिद्धाः । अथात्र कतिपये सम्बद्धग्रन्थी उपस्थाप्यन्ते साधकसौकर्याय ।

सिद्धान्तस्कन्धे होरास्कन्धे संहितास्कन्धे
सूर्यासिद्धान्तः (आर्षः) बृहज्जातकम् (वराहमिहिरस्य) गर्गसंहिता (आर्षः)
आर्यभटीयम् ( आर्यभटस्य) होरारत्नम् (बलभद्रस्य) वसिष्ठसंहिता (आर्षः)
शिष्यधीवृद्धिदतन्त्रम् (लल्लस्य) जातकपारिजातः (वैद्यनाथस्य) भृगुसंहिता (आर्षः)
पञ्चसिद्धान्तिका ( वराहमिहिरस्य ) ताजिकनीलकण्ठी (नीलकण्ठस्य) कश्यपसंहिता (आर्षः)
बाह्यस्फुटसिद्धान्तः ( ब्रह्मगुप्तस्य ) भावकुतूहलम् ( जीवनाथस्य) नारदसंहिता (आर्षः)
राजमृगाङ्कनम् (भोजस्य) जातकालङ्कारः (गणेशस्य) बृहत्संहिता (वराहमिहिरस्य)
करणप्रकाशः (ब्रह्मदेवस्य) जातकपद्धतिः (केशवस्य) लघुपाराशरी (आर्षः)
भास्वती (शतानन्दस्य) सारावली (कल्याणवर्मणः)
सिद्धान्तशिरोमणिः (भास्करस्य) रमलनवरत्नम् (परमसुखस्य)
सिद्धान्तदर्पणः (नीलकण्ठस्य) मुहूर्तचिन्तामणिः (रामस्य)
ग्रहलाघवम् (गणेशदेवज्ञस्य) नरपतिजयचर्यास्वरोदयः (नरपतेः)
सिद्धान्ततत्त्वविवेकः (कमलाकरस्य)
पाटीगणिते

लीलावती (भास्करस्य)

बीजगणिते

चापीयत्रिकोणगणितम् (नीलाम्बरस्य)

सरलत्रिकोणमितिः

स्फुटग्रन्थाः

  • गणकतरङ्गिणी (सुधाकरस्य)
  • भारतीयज्योतिषम् (शङ्करबालकृष्णस्य) ( म० हि०)
  • भारतीयज्योतिषेतिहासः (गोरक्षप्रसादस्य) (हि०)
  • हिन्दूगणितशास्त्रेतिहासः (हि०)
  • भारतीयज्योतिषम् (नेमिचन्द्रस्य) (हि०)
  • संस्कृतशास्त्रेतिहासः (बलदेवस्य) (हि०)।

ज्योतिषशास्त्रस्योत्पत्तिः

संस्कृतवाङ्मयान्तरस्येव ज्योतिषशास्त्रस्योत्पत्तिरपि अह्मण एवाभूदिति सर्वथा विश्वस्यते । ब्रह्मा हि पितामहोऽस्य जगतः यशसाधनंनिमित्तं चतुभ्य मुखेभ्यश्चतुर एवं वेदान् प्रावोचत् । तेन हि वेदानां यशात्मकत्वम् । ते च यज्ञाः कालाश्रयेणैव. सिद्धयन्ति इति तत्सिद्धयर्थं ब्रह्मा कालावबोधक, ज्योतिषशास्त्रं विनिमय नारदाय प्रोवाच । नारदश्च शास्त्रस्यास्य महत्त्वमङ्गीकृत्य लोके प्रवर्तयामासेदम् । मतान्तरानुसारेणेदं शास्त्रं प्रथमं सूर्येण मयासुराय प्रोक्तम् । ततश्च जगति प्रवतितमिति । कश्यपसंहितानुसारेण ज्योतिःशास्त्र प्रवर्तका अष्टादश आचार्याः ते च यथा -

‘सूर्यः पितामहो. व्यासो वसिष्ठोऽत्रिः पराशरः ।

कश्यपो नारदो गर्गों मरीचिर्मनुरङ्गिराः ॥

रोमशः पौलिशश्चैवं च्यवनो यवनो भृगुः ।

शौनकोऽष्टादशाश्चैते ज्योतिःशास्त्रप्रवर्तकाः ॥' इति ।

पराशरस्तु तानित्थं गणयति -

'विश्वसृङ् नारदो व्यासो वसिष्ठोऽत्रिः पराशरः ।

लोमशो यवनः सूर्यश्च्यवनः कश्यपो भृगुः ॥

पुलस्त्यो मनुराचार्यः पौलिशः शौनकोऽङ्गिराः ।

गर्गों मरीचिरित्येते शेया ज्योतिःप्रवर्तकाः ॥' इति ।

नारदस्त्वथ तानित्थमाह -

‘ब्रह्माचार्यों वसिष्ठोऽत्रिर्मनुः पौलस्त्यरोमशौ ।

मरीचिरङ्गिरा व्यासो नारदः शौनको भृगुः ।।

च्यवनो यवनो गगैः कश्यपश्चपराशरः ।

अष्टादशैते गम्भीराः ज्योतिःशास्त्रप्रवर्तकाः ॥' इति ।

इदञ्चाग्ने कथितम् -

‘यज्ञाध्ययनसङक्रान्तिग्रहषोडशकर्मणाम् ।

प्रयोजनञ्च दिज्ञेयं तत्तत्कालविनिर्णयात् ।।

विनैतदखिलं श्रौतं स्मार्तं कर्म न सिद्धयति ।

तस्माज्जगद्धितायेदं ब्रह्मणा रचितं पुरा ।।

तं विलोक्याथ तत्सूनुर्नारदो मुनिसत्तमः ।

उक्त्वा स्कन्धद्वयं पूर्व संहितास्कन्धमुत्तमम् ॥

वक्ष्ये शुभाशुभफलज्ञप्तये देहधारिणीम् ।

होरास्कन्धस्य शास्त्रस्य व्यवहारप्रसिद्धये ।।

तदित्यं हि अह्मणा प्रवर्तितं शास्त्रं हि ब्रह्मा नारदाय सोमः शौनकाय नारायणो वसिष्ठाय रामेशाय च वसिष्ठो माण्डव्यवामदेवाभ्यां व्यासः स्वशिष्याय सूर्यो मयाय पुलस्त्याचार्यगर्गाविरोमकाः स्वस्वशिष्येभ्यः पराशरो मैत्रेयाय च प्रोक्तवन्त इति । बृहत्संहितायामुक्तम् -

‘मुनिविरचितमिदमिति यच्चिरन्तनं साधु न मनुजग्रथितम् ।

तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥' इति ।

व्याख्यातीदं भट्टोत्पल: मुनिभिर्ब्रह्मादिभिरिति । पुनस्तत्रैवोक्तम् -

‘आब्रह्मादिविनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः ।

क्रियमाणकमेवैतत् समासतोऽतो ममोत्साहः ॥' इति ।

यथाऽऽह गर्गाचार्योऽपि -

‘स्वयं स्वयम्भुवा सृष्टं चक्षुर्भूतं द्विजन्मनाम् ।

वेदाङ्गं ज्योतिषं ब्रह्मपरं यज्ञहितावहम् ।।

मया स्वयम्भुवः प्राप्त क्रियाकालप्रसाधनम् ।।' इति ।

अनेन ज्ञायते यद्धि स्वनिर्मितं शास्त्रमिदं ब्रह्मा नारदगर्गप्रभृतीनुषीन् प्रोवाचेति । निष्कर्षमेतेषामेतदेव यच्छास्त्रमिदं प्रथमं ब्रह्मणा यज्ञप्रवर्तनाय सृष्टम् । तच्च शिष्यपरम्परा बुधगृहीतम् । तदेव आर्यभटेन प्रकाशितं वराहमिहिरेण विवेचितश्च । तेनैव वराहमिहिरः कथयति -

प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्यार्थम् ।

नातिलघुविपुलरचनाभिरुद्यतः स्पष्टमभिधातुम् ।।' इति ।

प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्

फलकम्:मुख्यः

प्राग्वैदिककालो हि वेदमन्त्रसङ्ग्रहादपि प्राचीनतरः कालः । न स ह्यस्माकं ज्ञानविषयः । तदा ज्योतिषशास्त्रस्य तु का वातऽपितु तद्योनेर्वेदस्यैव कि स्वरूपमासीदित्यपि अनुमातुं वयं नैव प्रभवामः । एतावदेव तद्विषये वक्तुं पार्यते यत्तदाऽपि ज्योतिषविषये स्वल्पमपि ज्ञानमवश्यमेवाऽऽसीद्यस्य यथायथं वा विकसितं रूपं वेदमन्त्रेषु दृश्यते । 'अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरिह’ ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः' इति शुश्रूम धीराणां ये नस्तद्वयाचचक्षिरे' इत्यादिकथनैरेतत्सिध्यति । सम्प्रत्यपि ग्रामीणजना दिगवबोधाय ध्रुवादिनक्षत्राणां समयज्ञानाय रात्री कृत्तिकानां साहाय्यं गृह्णन्ति । दिवा तु ते सूर्यगतिमधीत्य समयज्ञानं कुर्वन्ति सुदिने । सम्भवत्येतदज्ञातयुगस्यैवावशिष्टम् । ऋग्वेदे 'देवानां पूर्वे युगेऽसतः सदजायत । देवानां युगे प्रथमेऽसतः सदजायत' इति यत्कथितं यच्च यः पश्यादुत्तरे युगे इत्यप्युक्तं तस्यायमेवाशयो भवितुमर्हति यद्वैदिकसंहितापूर्ववतझालेऽपि काचन विशिष्टां सभ्यताऽऽसीदिति ।

वेदा हि नैव निश्चयेन ज्योतिषशास्त्रमात्रमुद्दिश्य प्रवृत्ताः । तेन तत्र नैतादृशः प्रसङ्गो येन ज्योतिषशास्त्रं व्याख्यातं स्यात् । तथापि इतरविषयप्रसङ्गवशाज्ज्योतिषविषयेऽपि यत्किञ्चिदुक्तं तेनैतज्ज्ञायते यत्तदाऽपि शास्त्रेऽस्मिन् मानवीयं ज्ञानं समृद्ध मासीत् । तत्र तत्र गगनमण्डलं सूर्याचन्द्रमसौ नक्षत्राणि ताराः ऋतून मासान् दिवसाँश्चादाय मनोहारि चमत्कारि वर्णनं समुपलभ्यते । प्रकरणेऽस्मिन् वेदशब्देन कात्यायनप्रतिज्ञासूत्रमनुसृत्य तस्य संहिता-ब्राह्मणभाग गृहीतौ, मन्त्रब्राह्मणयोर्वेदनामधेयमित्युक्तेः ।

वेदेषु ज्योतिषम्

वेदाङ्गज्योतिषं द्विधा विचिन्त्यते वेदाङ्गत्वेन ज्योतिष वेदाङ्गेषु । ज्योतिषञ्च। षड्वेदाङ्गानि शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिषश्च । वेदोपकारकत्वाद्रामायणमहाभारतस्मृतिपुराणादीनामपि वेदाङ्गत्वम् । तानि हि वेदस्योपाङ्गत्वेन स्मृतानि । वेदानां सम्यगर्थावबोधकत्वमेव वेदाङ्गानां वेदाङ्गत्वम् । न हि वेदाङ्गानां ज्ञानमन्तरा वेदार्थः शक्यः सम्यक्तया प्रतिपत्तुम् । उक्तमेव -

‘साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृतधर्मस्योपदेशेन मन्त्रान् सम्प्रदुरुपदेशाय ग्लायन्तोऽवरेभ्यः बिल्भग्रहणायेम ग्रन्थं समाम्नासिषुवैदञ्च वेदाङ्गानि च । तत्र शिक्ष्यते इति शिक्षा वर्णस्वराद्युच्चारणविधैरुपदेशिका । शिक्षायां हि वर्णस्वरमात्राबलसामसन्तानादिरुपदिश्यते यत्र वर्णः अकारादिः स्वरा उदातादिः मात्रा ह्रस्वादिः बलस्थानप्रयत्न सामनिषादादिः सन्तानो विकर्षणादिः । शिक्षाविषकग्रन्था हि सम्प्रति त्रिशत्सङ्ख्याका उपलभ्यन्ते । तेष्वपि याज्ञवल्क्यशिक्षा पाणिनीयशिक्षा च प्राधान्येन गृह्यते ।

श्रौतगृह्यधर्मसूत्राणां पारिभाषिकी संज्ञा कल्पशुल्बसूत्रस्य च । तत्रापि वेदोक्तयज्ञादिविवरणप्रतिपादकानि श्रौतसूत्राणि कात्यायनादिप्रणीतानि श्रुतिसम्मतगृहस्थकर्मप्रतिपादकानि गृह्यसूत्राणि पारस्करादिप्रणीतानि जीवनोपयोगिविषयनिर्देशपराणि धर्मसूत्राणि गौतमादिप्रणीतानि । शुल्बसूत्रं हि यज्ञवेदिकासम्बद्धम् । प्रकृतिप्रत्ययविभागपुरस्सरं शब्दानुशासनं व्याकरणं पाणिन्यादि प्रणीतम् । पदविभागमन्त्रार्थदेवतानिरूपक शास्त्रं निरुक्तम् । निरुच्यते इति निरुक्तं यास्कादिप्रणीतम् । रचनायां वर्णमात्रायतिप्रभृतिनियामकं शास्त्रं छन्दःशास्त्रं पिङ्गलादिप्रणीतम् । ज्योतिश्चक्रविषयप्रतिपादक शास्त्र ज्योतिषं लगधार्यभटादिप्रणीतम् । रामायणमहाभारतादिप्रसिद्धमेव । स्मृतिर्धर्मशास्त्रम् । इतिहासोपाख्यानसम्बद्धानि पुराणानि सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितादिवर्णनपराणि ।

अथ प्रथमं वेदाङ्गत्वेन ज्योतिषशास्त्रस्य विवरणमुपस्थाप्यते । वेदाङ्गत्वेन यज्ज्योतिषं तस्य हि लगधमुनेर्वेदाङ्गज्योतिषम्प्रधानो ग्रन्थः वसिष्ठकाश्यपपराशरगर्गनारदादिप्रोक्ता मौलिकाः संहिताग्रन्थाश्च वेदाङ्गज्योतिषस्य हि चत्वारो भेदाः ऋग्ज्योतिषं यजुज्र्योतिष सामज्योतिषमथर्ववेदज्योतिषञ्चेति । एतेषामुपदेष्टा हि लगधो नाम मुनिरुच्यते । ऋग्ज्योतिषे हि षत्रिशत्कारिकाः सन्ति यदा यजुर्वेदज्योतिषे एकोनपश्चाशत्सलयका अथर्ववेदज्योतिषे तु दिषष्टसरैकशतमिताः कारिकाः सन्ति । एवमेव सूर्यप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः ज्योतिषकरण्डकं लघुवासिष्ठसिद्धान्तः रोमकसिद्धान्तः. पोलिशसिद्धान्तः सूर्यसिद्धान्तश्च प्रसङ्गेऽस्मिन् स्मर्तव्या ग्रन्थाः ।

ऋग्वेदज्योतिषम्

ऋग्वेदज्योतिष हि लगधप्रणीतत्वेन प्रसिद्धम् । अत्र हि षट् त्रिशत्कारिका लभ्यन्ते येषां सोमाकरकृता विस्तृता लघ्वी च द्वे व्याख्ये लभ्येते । विस्तृतव्याख्यासमाप्ती 'शेषकृतवेदाङ्गज्योतिष समाप्तम्' इति लिखितमस्ति । कोऽसौ लगधः कश्चासौ सोमाकरः कोऽसौ शेषो वेति न किमपि श्रुतं वा दृष्टमस्ति न च तद्विषये क्वचिदपि किमपि लिखितं दृश्यते । ग्रन्थोऽयं लगधप्रोक्तं शेषाऽऽख्येन सङ्कलितमिति ‘कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः' इति ग्रन्थस्यैव द्वितीयश्लोकांशतः सोमाकरव्याख्यावसानवाक्याच्च ज्ञायते । ग्रन्थस्यास्य सुधाकरप्रणीता व्याख्याऽपि लभ्यते । वस्तुतस्त्वस्य न केनापि पश्चाद्वर्तना कृतिना समुल्लेखः कृतो दृश्यते । तथाप्यस्य महत्ता तु तावन्मात्रेण नैव हीयते । तस्यायमादिमौ श्लोकौ -

‘पञ्चसंवत्सरमयं युगाध्यक्ष प्रजापतिम् ।

दिनवयनमासाङ्गं प्रणम्य शिरसा शुचिः ।। १ ।।

प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् ।।

कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः' ।। २ ।। इति ।

यस्य हि दिनहुँमासायनानि अङ्गानि तादृशं पञ्चसंवत्सरमयं युगाध्यक्ष प्रजापति कालं प्रणम्य सरस्वतीमभिवाद्य लगधस्य महात्मनः कालज्ञानं प्रवक्ष्यामीति । पञ्चसंवत्सराश्च यथा सोमाकरेण व्याख्याताः संवत्सरपरिवत्सरइदावत्सरानुवत्सरेद्वत्सराः क्रमश अग्न्यादित्यवायुचन्द्रमृत्यवस्तेषां देवताः । वाराह्यां तु ते अग्न्यादित्यचन्द्रप्रजापतिरुद्रनामभिः स्मृताः । पञ्चैव संवत्सरास्तैत्तिरीयेऽपि पठ्यन्ते । गर्गादयोऽपि तथैव जानन्ति । एवञ्च ऋग्वेदे ( ७॥१० ३।७ ) संवत्सरपरिवत्सरी वाजसनेयीये ( २७।४५ ) पञ्चैव तैत्तिरीयब्राह्मणे (१।४।१० ) आद्याश्चत्वारः स्मृतास्तत्रान्यत्र पञ्चैव षडपि । पर्वंगणानयनं यथा -

‘निरेकं द्वादशार्धाब्दं द्विगुणं गतसंज्ञिकम् ।।

षष्ठया षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ ४ ॥

अत्र शङ्करबालकृष्णः द्वादशाब्दमित्यस्य स्थाने द्वादशाभ्यस्तं गतसंज्ञिकमित्यस्य स्थाने गतसंयुतमिति पिपठिषति सोकर्याय । करणग्रन्थेषु अहर्गणस्येवात्र पर्वगणस्य विषयः । वर्तमानसंवत्सरसङ्ख्याया एकं वियुज्य शेष द्वादशगुणिते गतमाससङ्ख्यां संयोज्य सङ्ख्या द्विसङ्ख्यायो गुणिती कार्या। तस्याञ्च षष्ट्या प्रत्येकपर्याये उत्तरोत्तरं द्वियोगेन पर्वसङ्ख्या लभ्यते इति । उदगणनारम्भो यथा -

'स्वरार्कभेके सोमाक यदा साकं सवास।

स्यातदादियुगं माघस्तप शुक्लो दिनत्यचः ।। ५ ।।

(स्वराक्रमेते सोमा यदा साकं सवासवौ ।

स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं युदक् ।।)'[१]

यदा सोमाक धनिष्ठां प्राप्य गगनमाक्रमेते तदा युग-माघमासशिशिरर्तुशुक्लपक्षोदगयनानि आरभन्ते इति । अयनविमर्शो यथा -

‘प्रपद्येते श्रविष्ठादो सूर्याच( चा )न्द्रमसावुदक् ।

सापर्धं दक्षिणार्कस्तु माघश्रावणयोः सदा' ।। ६ ।।

धनिष्ठारम्भे सूर्याचन्द्रमसौ उदक चलतः आश्लेषाधे दक्षिणं प्रति । सदा सूर्यो माघे उदञ्च श्रावणे दक्षिणं चलतीति । अमुमेवादाय वाराह्यामुक्तम् -

‘आश्लेषाद्धद् दक्षिणपतरमयनं रवेर्धनिष्ठाद्यम् ।

नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु ।।

साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत् ।' इति ।

तल्लक्षणं यथा -

‘घर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।

दक्षिणे तो विपर्यस्तो षण्मुहूर्त्ययनेन तु' ।। ७ ।।

घर्मो दिनम् । एकः प्रस्थ इति नाडिकाः । यथा वक्ष्यति सप्तदशतमपद्ये । कदा हि षण्मुहूर्त वृद्धिदनमाने इत्यपेक्षायामाह--

‘द्विगुणं सप्तमच्चाहुरयनाद्य त्रयोदश ।।

चतुर्थं दशमञ्चैव द्विर्युग्माघं बहुलेप्य॒तौ ।। ८ ।।

(प्रथमं सप्तमञ्चाहुरयनाद्यं त्रयोदशम् ।)

शुक्लस्य प्रतिपदा सप्तमी त्रयोदशी कृष्णस्य चतुर्थी दशमी चेति उदगयने एता एवं दक्षिणायेन पञ्चसंवत्सरेषु क्रमेण सूर्यस्यायनाद्यास्तिथयः । तदित्यम् - प्रतिपदासप्तम्यौ त्रयोदशीचतुथ्य दशमीप्रतिपदे सप्तमीत्रयोदश्यौ चतुर्थीदशम्यौ च क्रमेण अयनाद्यतिथयः । यथोक्तं गर्गाचार्यैरपि -

( १ ) ‘यदा माघस्य शुक्लस्य प्रतिपद्युत्तरायणम् ।

सहोदयं श्रविष्ठाभिः सोमाकौं प्रतिपद्यतः ॥

तदात्र नभसः शुक्लसप्तम्यां दक्षिणायनम् ।

सापर्धं कुरुते मुक्ति चित्रायाञ्च निशाकरे ।।

प्रथमः सोऽग्निदेवत्यो नाम्ना संवत्सरः स्मृतः ।।

(२) यदा माघस्य शुक्लस्य त्रयोदश्यामुदग् रविः ।।

युक्ते चन्द्रमसा रौद्रे . वासवं प्रतिपद्यते ।

चतुथ्य नभसः कृष्णे तदाऽसौ दक्षिणायनम् ।।

सापर्धं कुरुते सूर्यस्त्वजयुक्ते निशाकरे ।

द्वितीयश्चाकैरेवत्यः स नाम्ना परिवत्सरः ।।

(३) कृष्णे माघस्य दशमी वासवादी दिवाकरः ।

उदीचीं दिशमातिष्ठन् मैत्रस्थेऽनुष्णतेजसि ।।

नभसश्च निवर्तेत शुक्लस्य प्रथमे तिथौ ।

चन्द्राभ्यां सुयुक्ताभ्यां साधं वायुदैवतम् ।।

तदा तृतीयं तं प्राहुरिदासंवत्सरं जनाः ।।

( ४ ) सप्तम्यां माघशुक्लस्य वासवादौ दिवाकरः ।।

अश्विनीसहिते सोमे यदाशामुत्तरं व्रजेत् ।

सोमे चाप्येनसंयुक्ते सापर्धस्थो दिवाकरः ।।

व्रजेद याम्यां हि शुक्लस्य श्रावणस्य त्रयोदशीम् ।

चतुर्थमिन्दुदैवत्यमाहुश्चाथाऽनुवत्सरम् ॥

( ५ ) फल्गुनीमुत्तरां प्राप्ते सोमे सूर्यं च वासवे ।

यदुत्तरायणं कृष्णचतुथ्र्यो तपसो भवेत् ।।

श्रावणस्य च कृष्णस्य सार्पार्ध दशमी पुनः ।

रोहिणीसहिते सोमे रवेः स्याद् दक्षिणायनम् ।।

इद्वत्सरः स विज्ञेयः पञ्चमो मृत्युदैवतः ॥

एवमेतद्विजानीयात् पञ्चवर्गस्य लक्षणम्' ( १-१६ ) । तदित्थं हि उत्तरदक्षिणायनारम्भस्य पञ्चैव स्थितयो भवन्तीति पञ्चसंवत्सरयुगस्याधिवादः । यथा हि -

संवत्सराः उत्तरायणारम्भे दक्षिणायनारम्भे
तिथयः रविभानि चन्द्रभानि तिथयः रविभानि चन्द्रभानि
संवत्सरः माघशुल्कप्रतिपत् धनिष्ठा धनिष्ठा श्रावणशु. सप्तमी आश्लेषार्धा चित्रा
परिवत्सरः माघशुक्लत्रयोदशी धनिष्ठा आर्द्रा श्रावणशु. चतुर्थी आश्लेषार्धा पूर्वभाद्रपदा
इदावत्सरः माघकृष्ण दशमी धनिष्ठा अनुराधा श्रावणशु. प्रतिपत् आश्लेषार्धा आश्लेषा
अनुवत्सरः माघशुक्लसप्तमी धनिष्ठा अश्विनी श्रावणशु. त्रयोदशी आश्लेषार्धा पूर्वाषाढा
इद्वत्सरः माघकृष्णचतुर्थी धनिष्ठा उत्तराफाल्गुनी श्रावणकृ. दशमी आश्लेषार्धा रोहिणी

अयनादिनक्षत्राणि यथा -

'वसु त्वष्टाभगोऽजश्च मित्रः सपश्विनौ जलम् ।

धाता कश्चायनाद्याश्चार्धपञ्चनभस्त्व॒तुः ॥ ९ ।।

वसुः त्वष्टाभग: अजः मित्रः सर्पः अश्विनौ आपः धाता ब्रह्मा चेति देवता येषां तानि धनिष्ठाचित्राद्रपूर्वभाद्रपदाऽनुराधाऽश्लेषाऽश्वयुक्पूर्वाषाढोत्तरफाल्गुनीरोहिणीनक्षत्राणि अयनादीनि । सार्धचतुर्नक्षत्राणि ऋतुः । तेनाऽस्य पाठेन ‘अर्धानपञ्चभं त्वतुः' इति भाव्यम् । ऋतौ हि द्वौ मासौ । तदवधौ सूर्यो हि तावन्त्येव नक्षत्राणि आक्राम्यति ( १३<math>{1 \over 3}</math>+१३<math>{1 \over 3}</math>+१३<math>{1 \over 3}</math>+१३<math>{1 \over 3}</math> +४<math>{1 \over 2}</math> ) । अत्र क्रमेण धनिष्ठाचित्रयोः आद्रपूर्वभाद्रपदयोः अनुराधाश्लेषयोः अश्विनीपूर्वाषाढयोः उत्तरफाल्गुनीरोहिण्योश्च चन्द्रेण युतिरिति । नक्षत्राणां नामानि यथा सङ्केतितानि -

‘जौद्राघः खेश्वेहीरोषाचिन्मूषाज्यः सो( सू )माधानः ।

रेमृघ्रा(घा)जो(पो)जः तृ(कृष्यो हर्ये (ज्येष्ठा इत्यृक्षा लिङ्गैः ॥ १४ ॥

अत्र हि जौ-द्रा-ग-खे-श्वे-हि-रो-षा-चित्-मू-ष-ष्य-सू-मा-धा-न-रे-मृ-घास्वा-प-ज-कृष्य-ह-ज्येष्ठावणैः क्रमेण अश्विनी--पूर्वफाल्गुनी-विशाखाउत्तराषाढा-उत्तरभाद्रपदा-रोहिणी-आश्लेषा-चित्रा-मूल-शतभिषा-भरणी-पुनर्वसुउत्तरफल्गुनी-अनुराधा-श्रवण-रेवती-मृगशीर्ष-मघा-स्वाती-पूर्वाषाढा-पूर्वभाद्रपदाकृत्तिका-पुष्प-हस्त-ज्येष्ठा-धनिष्ठानक्षत्राणि सूचितानि । व्याख्येयं शङ्करबालकृष्णमनुधावति । तत्र जो इत्यश्वयुजौ द्रा इत्या ग इति भगस्तद्देवता पूर्वफाल्गुनी इत्यादि । अस्योपपत्तिश्च पवन्ते सूर्यस्य स्थितिमनुसृत्येवेति शङ्करबालकृष्णः । पञ्चसंवत्सरात्मके युगे १२४ पर्वाणि भवन्ति संवत्सरे २४ परिवत्सरे २४ इदावत्सरे २४ अनुवत्सरे २४ इद्वत्सरे २६ सङ्ख्यया । तेन हि नक्षत्राणामपि तावन्त एवांशाः । युगे १८६० विधयो भवन्ति । तदवधौ सूर्यो हि पञ्चवारं भचक्र परिक्राम्यति । तेन हि एकस्यां तिथौ नक्षत्रं हि <math>{9 \over 124}</math> भागं भुनक्ति ।

( <math>{27*5 \over 1860}</math>= <math>{9 \over 124}</math>) विशेषज्ञानाय शङ्करबालकृष्णोऽध्येतव्यः । समयमानं यथा -

‘कला दश च ( स ) विशा स्याद् द्विमुहूर्तुस्तु नाडिके ।

द्वित्रिशस्तकलानां तु षट्शती श्यधिकं भवेत्' ।। १६ ।।

द्वित्रिंश इत्यस्य 'द्युत्रिशत्' इति पाठान्तरम् । एकस्मिन् दिने त्रिशन्मुहूर्ता ६०३ कलाश्च भवन्ति । नाडीद्वयेन मुहूर्तः ।

'नाडिके द्वे मुहूर्तस्तु पञ्चाशत्पलमाषकम् ।।

माषकात्कुम्भको द्रोणः कुटपैर्वर्धते त्रिभिः' ।। १७ ॥ (‘चतुभिराढकैद्रणः' इत्यपि पाठः )

‘पञ्चाशत्पलम् आढक चतुभिराढणः ।'

एवमेव -

‘ससप्तकुम्भयुक्स्न्योन सूयर्धानि त्रयोदश ।

नवमानि च पञ्चाह्नः काष्ठाः पञ्चाक्षराः स्मृताः ॥ १८ ।।

श्रविष्ठाभ्यां गुणाभ्यस्ता प्राग्विलग्नान् विनिदिशेत् ।

सूर्यान् मासान् षडभ्यस्ता विद्याच्चान्द्रममावृतून् ॥ १९ ॥

यदुत्तरस्यायनतोयनं स्याच्छेषं तु यद्दक्षिणतोऽयनस्य ।

तदेव षष्ठ्या द्विगुणं विभक्तं तद् द्वादशं स्याद् दिवसप्रभावम् ॥ २२ ॥

विषुवानयनविधिर्यथा -

‘विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् ।

यल्लब्धं तानि पर्वाणि तथोध्र्वं सा तिथिर्भवेत् ॥ ३१ ॥

तथा कालस्वरूपं यथा -

‘माघशुक्लप्रवृत्तस्तु पौषकृष्णसमापिन ।

युगश्च पञ्चवर्षाणि कालज्ञानं प्रचक्षते ॥ ३२ ॥

इत्थं हि ऋग्वेदज्योतिषस्य विषयः कालचक्रनिरूपणमेव । तत्र हि ग्रहाणां राशीनाञ्चोल्लेखो नैव लभ्यते । वेदाङ्गज्योतिष कदा सङ्कलितमित्यपि अनुमानविषय एव । कालचक्रशास्त्रमिदं स्वकालविषये न किमपि वक्ति । इदं हि मोक्षमूलरमते विक्रमतः २५० वर्षपूर्वं वेवरमते ४५० वर्षांपूर्वं ह्विटनीमते १२८० वर्षपूर्वं कोलबूकमते १३६० वर्षपूर्वं प्रणीतमिति विश्वस्यते । अस्य हि पुनर्वाचनलेखनादिकं यदा कदाऽपि सम्पन्नं स्यात् । तेनापि कालेन कथमपि विक्रमपूर्वसप्तमशतकानन्तरवर्तना तु कदापि नैव भाव्यमेव महाभारतादावपि तस्य स्मरणात् । तत्कालीननक्षत्रगणनासम्पातगत्ययनचलनादीनामध्ययनेन स्पष्टमेवैतद्यदिदं शास्त्र विक्रमतः १४०० वर्षांपूर्वमेव प्रोक्तमासीदिति । कृत्तिकात एव नक्षत्रगणनया सिध्यत्यस्य प्रथमप्रवचनस्य ब्राह्मणसमकालीनत्वं तदनतिदूरानन्तरवतत्वं वा । अयमेव भारतीयज्योतिषस्य स्वतन्त्रः प्रथमो ग्रन्थः । तत्र हि प्रतिपादितमस्ति यत्सूर्यो पदाऽऽश्लेषाधं भुनक्ति तदा दक्षिणायनस्य यदा च स श्रविष्ठामाक्राम्यति तदोत्तरायणारम्भ इति । यथा -

‘प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।

सार्पाचें दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ६ ॥ इति ।

वराहमिहिरकाले (४२७ शके) तु उत्तराषाढायाः द्वितीय पादमाक्रामतोश्चन्द्रसूर्ययोरुत्तरायणं सूर्ये हि पुनर्वसोरन्तिमं पादं स्पृशति दक्षिणायनं प्रावर्ताताम् । यथोक्तं वाराह्याम् -

‘साम्प्रतमयनं सवितुः मृगाद्यं कर्कटादितश्चान्यत्' इति ।

साम्प्रतिककाले तु यदा सूर्याचन्द्रमसौ पूर्वाषाढावृत्तं स्पृशतस्तदोत्तरायणं यदा च सूर्यः आद्र स्पृशति तदैव दक्षिणायनं प्रवर्तते । ( शङ्करबालकृष्णस्य ‘भारतीयज्योषिम्' हि० पृ० १२३; सारस्वती सुषमा सं० २००७ पृ० ३९ श्रीकृष्णमिश्रस्य लेखः ) । अनेन सिध्यति यदयनारम्भः उत्तरोत्तरं पश्चादपसर्पतीति । सम्पातगतिर्वाऽयनचलनं प्रतिवर्षं पञ्चाशद्विकला भवति । यतो हि तदोतरायणं धनिष्ठारम्भे भवति स्म । तेन धनिष्ठायाः सायनो भागे ९ राशिरेवाऽऽसीत् । तस्य हि सूक्ष्मभागे १९४४ वैक्रमे यथा हि शङ्करबालकृष्णो निदिशति १०॥१५॥४८॥२९ आसीत् । यो हि ९ राशितः ०४५।४८ अधिकः । सम्पातस्य प्रतिवर्षं पञ्चाशद्विकलागत्या तथावृद्धौ ३२९७ मितवर्षाणि व्यतीतानि भवन्ति । तत्र १९४४ सङ्ख्याया वियोगे १३५३ वर्षाण्यवशिष्यन्ते । तेन हि विक्रमतः १३५३ वर्षपूर्वं हि धनिष्ठाया आरम्भे उत्तरायणमुपक्रान्तमासीत् । स एव वेदाङ्गज्योतिषस्य प्रथमप्रवचनकाल इति ।

कोलबूकमतानुसारेण ६२९ वैक्रमाब्दे उत्तराषाढायाः प्रथमचरणस्यान्त्यभागे उत्तरायणं घटते स्मेति । तदा रेवती सम्पाते असीदिति । धनिष्ठारम्भोतराषाढाप्रथमचरणयोः ०१२३२०१० अन्तरं भवति । सम्पातगत्याः प्रतिवर्ष पञ्चाशद्विकलामानेन तथान्तरे १६८० वर्षाणि लगन्ति । तेन हि ( १६८०६२९= १०५१ इति ) विक्रमतः १०५१ वर्षपूर्वं तथा सम्पद्यत इति किन्तु विभागात्मकधनिष्ठारम्भस्थानार्द्धनिष्ठायोगतारा ०।४।११।० अग्रे वर्तते । तथासम्पातयतिसिद्धये ३०० वर्षाणि व्यतियन्ति । कोलबूकमानं हि विभागात्मकधनिष्ठाधारित्वात्तत्र ३०० वर्षाणि त्रुटितानि सन्ति ।

यजुषज्योतिषम्

यजुर्वेदज्योतिषमपि ऋग्वेदज्योतिषसंवाद्येव । ग्रन्थेऽस्मिन् ४९ श्लोकाः सन्ति किन्तु तेषु ३० श्लोकाः किञ्चित्पाठान्तरेण सह ऋग्वेदज्योतिषादेव गृहीताः सन्ति । तेऽपि शब्दरचनादिदृष्टया भिन्ना इव प्रतिभान्ति । ऋग्वेदज्योतिषस्येव याजुषज्योतिषस्यापि प्रयोजनं तु पर्वज्ञानभेव । उक्त यथा आर्चे--

‘युगश्च पञ्चवर्षाणि कालज्ञानं प्रचक्ष्यते ।' इति ।[२]

युगनिरूपणं यथा-

‘त्रिशत्यह्रां सषट् पष्टिरब्दः पङ् ऋतवोऽयने ।

मासा द्वादश सूर्याः स्युरेतत्पञ्चगुणं युगम् ॥ २७ ॥

वर्षे हि ३६६ दिनानि षड् ऋतवः द्वेऽयने द्वादश सौरमासा भवन्ति । एतेषामेव पञ्चसङ्ख्यया गुणने युगं भवति । तेन युगे (३६६४५=) १८३० दिनानि भवन्ति ऋतवस्त्रशत् दशायनानि ६० सौरमासाश्च । एवमेव १८३०. सूर्योदयाः ६२ चन्द्रक्रमाश्च । तथैव १८३५ नक्षत्रोदयाः चन्द्रमसः १३४ अयनानि १२४ पर्वाणि ६७ पर्यायाश्च । अधिमासहेतुर्यथा -

द्यूनं द्विषष्टिर्भागेन हेयं सूर्यात्सपार्वणम् ।

यत्कृतावुपजायेते मध्ये चान्ते चाधिमासकौ ॥ ३७ ।।

सावनदिनमाने तस्य द्विषष्टितमभागवियोगेन यच्छिष्यते तत्तिथिः सावनमाने हि तस्यैव षष्टितमभागसंयोगेन सौरदिनम् । सौरदिनापेक्षया तिथेरंल्पत्वेन युगस्य मध्ये चान्ते चाधिमाल.। यथा हि -

१ तिथिः = <math>{1830 \over 62*30}</math>

तदित्थं युगे -

सौरमासाः ६० चान्द्रमासाः ६२ अधिमासौ द्वौ सावनदिनानि १८३० तिथयः १८६० क्षयतिथयः ३० नाक्षत्रमासाः ६७ नक्षत्राणि १८०९ वृद्धनक्षत्राणि २१ भवन्ति । सावनदिनानि च क्रमेण ३५५ + ३५४+३८४+३५४ +३८३= १८३० । युगस्थितिहि प्रतियुगं समाना भवति । किन्तु उत्तरकालिकप्रवृत्तिर्न तथा दृश्यते ।

वेदाङ्गज्योतिषीये पञ्चाङ्ग चान्द्रमासापेक्षया सौरवर्षमाने अधिका अशुद्धयः सन्ति । वस्तुत इयं स्थूलपद्धतिरेव । वेदाङ्गज्योतिषे हि केवलं सूर्याचन्द्रमसोरेव गतो व्याख्याता नान्येषां ग्रहाणाम् । तयोरपि तत्र मध्यममानमेव निर्दिष्टं न तु स्पष्टमानम् । वस्तुतस्तु मध्यमस्थित्यपेक्षया स्पष्टस्थितिः सूर्यस्य द्वाभ्यामंशाभ्यां चन्द्रस्य अष्टाभिरंशैश्च अग्रे पश्चाद्वा भवति । उभयोरन्तरमेव फलसंस्कार इत्युच्यते । किन्तु वेदाङ्गज्योतिषे स्पष्टगतिस्थितिविषये नैव किञ्चिदुक्तमिति सम्भवति तदाऽस्य ज्ञानमेव नाऽऽसीत्तथापि तदा ग्रहणस्य ज्ञानं त्वासीदेव । सूर्यस्य वा चन्द्रस्य एकपर्यायप्रदक्षिणोपक्रमानन्तरमपरपर्यायप्रदक्षिणारम्भे यः कालो व्यत्त्येति तस्य ज्ञानं विना एकपर्यायप्रदक्षिणासम्बद्धकालस्य दैनिकमध्यमगतेश्च ज्ञानं न सम्भवति । तेन तदापि कामं स्थूलरूपेणैव स्यादेतद्विषयकज्ञानमनुभूतमेवाऽऽसीत् । ऋग्वेदज्योतिषे संवत्सरवर्षशब्दो प्रयुक्तौ दृश्यते याजुषे अब्दशब्दोऽपि ।

वेदाङ्गज्योतिषे अमान्तमानमेव सम्मतं दृश्यते न तु पूणिमान्तमानमपि । तेन हि शुक्लपक्षस्य पूर्वपक्षत्वं कृष्णस्यापरपक्षत्वम् । तत्र ह्यादिनक्षत्रत्वेन धनिष्ठा ग्रहीताऽस्ति । नक्षत्राणां गणना तु कृत्तिकात एव कृताऽस्ति । तदा पूर्णाङ्कस्य परिकर्मचतुष्टयस्य योगान्तरहननभागरूपस्य तथा त्रैराशिकस्य चे ज्ञानमासीत् भिग्नपरिकर्मचतुष्टयस्य च । अपवर्तनज्ञानञ्चैतत्सूचयति यत्तदा गणितस्य शानं समृद्धमासीत् । तदा तात्कालिकलग्नमपि ज्ञातमासीदिति ‘श्रविष्ठाभ्यां गुणाभ्यस्ता प्राग्विलग्नान् विनिदिशेत्' इति कथनतो ज्ञायते । क्रान्तिवृत्तस्य क्षितिजसंलग्नभाव एव तात्कालिकलग्नमित्युच्यते । तदा राशिज्ञानं क्रान्तिवृत्तं द्वादशधा विभज्य तदनुसारेण ग्रहस्थितिनिरूपणञ्च नैव दृश्यते । तत्र नक्षत्रमाश्रित्यैव सूर्याचन्द्रमसोः ‘स्थितिनिरूपिताऽस्ति । राशिज्ञानाभावेऽपि सौरमासस्य चान्द्रसौरमासयोः सम्बन्धस्य च तत्र स्पष्टतयोल्लेखोऽस्ति । ऋत्वारम्भतिथेरुल्लेखोऽपि तत्र दृश्यते । क्षेत्रविभागस्येव कालविभागस्य पद्धतिस्तत्रोल्लेखनीय दृश्यते । यथा हि सूर्यसिद्धान्तादौ विकलाकलांऽशाशिवृत्तपरिधिभिः कालविभागः कृतस्तथा वेदाज्योतिषे घटिकादिनमासवर्षेः । कर्मकाण्डे सम्प्रत्यपि घटिकामानमेव प्रयोगे दृश्यते । उभयत्र विकलापलयोः कलाघटिकयोरंशदिनयोः राशिमासयोः वृत्तपरिधिवर्षयोः समानमेव मानम् । तत्रोक्तं यन्नक्षत्रस्य ६१० कलाः भवन्ति तत्र चन्द्रो दिनावधौ ६०३ कलाश्चलति । ता एव दिनस्य कला इत्युच्यन्ते । अयं हि क्षेत्रानुरूपकालविभागः । १२४ पर्वभिः नक्षत्राणाम् १२४ अंशानां कल्पना हि कालविभागानुरूपं क्षेत्रविभाग एव ।

अथर्वज्योतिषम्

अथर्वज्योतिष हि अनन्तरोक्ताभ्यां पृथक्प्रकृतिकम् । इदं हि फलितज्योतिषेन सम्बद्धम् । सन्त्यत्र १६२ श्लोका चतुर्दशप्रकरणानि च । इदं हि पितामहकाश्यपसंवादरूपम् । कालविभाजनं रौद्रसौम्यकर्मयोग्यनक्षत्राद्युल्लेखः करणादीनि चास्य प्रतिपाद्यविषयाः । तत्रोक्तम् -

‘तिथिरेकगुणा प्रोक्ता नक्षत्रञ्च चतुर्गुणम् ।

वारश्चाष्टगुणः प्रोक्तः करणं षोडशान्वितम् ।।

द्वात्रिंशत् ( २ ) योगस्तारा षष्टिसमन्विता ।

चन्द्रः शतगुणः प्रोक्तस्तस्माच्चन्द्रबलाबलम् ।।

समीक्ष्य चन्द्रस्य बलाबलानि ग्रहाः प्रयच्छन्ति शुभाशुभानि। न कृष्णपक्षे शशिनः प्रभावः":"••••••••।

तत्र ग्रहा यथा -

‘आदित्यसो भौमश्च तथा बुधबृहस्पती ।

भृगुः शनैश्चरश्चैव एते सप्त दिनाधिपाः ॥' इति ।

वस्तुतस्त्विदं संहिताग्रन्थ एव । तेनाऽत्र प्रसङ्गवशासिद्धान्तो होरा च समुपदशिताः सङ्क्षेपतः । । यद्यपि ग्रन्थोऽयमनन्तरोक्तग्रन्थद्वयापेक्षया नवीनस्तथापि तेनास्य प्राचीनत्वं न हीयते । अत्रापि मेषादिराशीनामुल्लेखो नैव दृश्यते इति राशिप्रचलनादस्य प्राग्वतित्वं स्पष्टमेव ।

वेदाङ्गेषु ज्योतिषम्

एवमेव वेदाङ्गान्तरेषु कल्पव्याकरणनिरुक्तादिष्वपि प्रसङ्गवशाद् विषयोऽयं प्रपञ्चितो दृश्यते । कल्पसूत्रेषु यथा 'श्रावण्यां पौर्णमास्यां श्रवणकर्म'[३] इति । श्रौतसूत्रे[४] मधुमाधवादिमासनाम गृहीतमस्ति । एवमेव तत्र[५] षण्णामृतूनामुल्लेखो दृश्यते । वसन्ताद्धि तेषामारम्भः । मार्गशीष्य चतुर्दश्यां प्रत्यव्ररोहणमुक्तं गृह्यसूत्रे[६] हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः[७] 'अध्यायोपाकरणं श्रावणस्य पञ्चम्याम्'।[८] बहुषु स्थलेषु अयनस्य विषुवस्य चोल्लेखो लभ्यते । तत्र ध्रुवारुन्धतीसप्तर्षीणामपि समुल्लेखो दृश्यते । यथा 'ध्रुवमरुन्धतीं सप्तर्षीनिति दृष्ट्वा वाचं विसृजेत्' ।[९] गृह्यसूत्रे[१०] अग्न्याधानार्थं नक्षत्राणि निर्दिष्टानि । तत्र उत्तरप्रोष्ठपदाफल्गुनीरोहिणीनक्षत्रेषु क्षेत्रस्य कर्षणं निर्दिष्टम् । 'तत्रोक्तं यदुपनयनादिकर्म कल्याणकारकनक्षत्रेषु कर्तव्यम्'।[११]

पारस्करगृह्यसूत्रेऽपि तथैव ज्योतिषविषयकप्रसङ्गो लभ्यते । यथा-‘मार्गशीष्य पौर्णमास्यामाग्रहायणीकम्'।[१२] ‘त्रिषु त्रिषु उत्तरादिषु स्वाती मृगशिरसि रोहिण्याम्' (विवाहः) ज्येष्ठायां क्षेत्रकर्षणम्'[१३] 'मूलांशे प्रथमे पितुर्नेष्टो द्वितीये मातृस्तृतीये धनधान्यस्य चतुर्थे कुलशोकावहः स्वयं पुण्यभागी स्यात् '[१४]। एवमेव हिरण्यकेशीयादिसूत्रेष्वपि बहुधाज्योतिषप्रसङ्गो दृश्यते । बौधायनसूत्रे मीनमेषादिराशीनामुल्लेखोऽपि दृश्यते । एवमेवान्यान्यसूत्रेष्वपि न्यूनातिरिक्तं ज्योतिषप्रसङ्ग आपतितो दृश्यते ।

एवं हि निरुक्तेऽपि । यथा-'सप्तऋषीणानि ज्योतींषि'।[१५] एवमेव तत्र दिनरात्रिपक्षायनादीनामप्युल्लेखः ।[१६] 'युगंसहस्रान्तमहर्बह्मणो विदुः रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः' इति ।[१७]

पाणिनीये हि व्याकरणेऽपि प्रसङ्गवशाज्ज्योतिषशास्त्रविषय उल्लिखितो दृश्यते । यथा 'वर्षाल्लुक च'[१८] 'दामहायनान्ताच्च’[१९] इत्यादौ वर्षहायनशब्दौ 'साऽस्मिन् पौर्णमासीति'[२०] 'लिङ्चोऽर्वमौहूतिके'[२१] पुष्यतिष्य नक्षत्रे'[२२] 'विभाषा फाल्गुनीश्रवणाकातकीचैत्रीभ्यः'[२३] 'नक्षत्रेण युक्तः कालः'[२४] ‘कालेभ्यो भववत्’[२५] द्यावापृथिवी'[२६], ‘छन्दसि पुनर्वस्वोरेकवचनम्[२७] 'विशाखयोश्च'[२८] 'फाल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे'[२९] ‘विभाषाग्रहः'[३०] इत्यादौ तत्तच्छब्दाश्च।

एवं हि स्मृतिग्रन्थेषु ज्योतिषविषयकचर्चा बहुत्र लभ्यते, विशेषत आचाराध्यायेषु प्रायश्चित्तप्रसङ्गे च । विशेषतो धर्मशास्त्रग्रन्थत्वेन स्मृतिहि युगमानतिथिवारनक्षत्रयोगकरणलग्नमुहूर्तादिभिरेव सम्बद्धा तेषामेवाचारसम्पादने प्रयोगात् । मनुस्मृतावुक्तं--‘यच्चत्वारीह युगानि सत्यत्रेताद्वापरकलिसंज्ञितानि । युगानां द्वादशसाहस्रदैवयुगम् देवयुगानां सहस्रेण ब्रह्मण एकाहस्तावत्य एव रात्रयश्च । मनुष्याणां भासेन देवोऽहोरात्रः पैत्रः वर्षेण तु दैवः दैवे युगसहस्र द्वे ब्राह्मोऽहोरात्रो मनुष्याणां तु कल्प' इति ।[३१] याज्ञवल्क्यस्मृतौ हि नवानामेव ग्रहाणामुल्लेखो दृश्यते । यथा -

‘सूर्यः सोमो महीपुत्रः सोमपुत्रो वृहस्पतिः ।

शुक्रः शनैश्वरो राहुः केतुश्चैते ग्रहाः स्मृताः ॥'[३२]

एवमेव तत्र क्रान्तिवृत्तस्य द्वादशभागा अप्युक्ता।[३३] नक्षत्रमधिकृत्य तत्रोक्तम्-'कृत्तिकादिभरण्यन्तम्” इति।[३४] एवञ्च श्राद्धमुद्दिश्योक्तम् -

‘अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।।

द्रव्यं ब्राह्मणसम्पत्तिविषुवत्सूर्यसङ्क्रमः ।। व्यतीपातो गंजच्छाया ग्रहणं चन्द्रसूर्ययोः' । इति ।[३५]

तत्र अष्टकाः हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीषु समरात्रिन्दिवः। कालो विषुवत् सङ्क्रमः सूर्यस्य राशेः राश्यन्तरप्रवेश इति । ग्रहयुतिस्तत्फलमपि तत्र निदष्टम् ।[३६] एवं तत्र ज्योतिषसम्बद्धा अनेक विषयाः प्रसङ्गोपयोगिन उद्धृता दृश्यन्ते । ग्रहनक्षत्राणां शुभाशुभफलञ्च तत्र निदिष्टमशुभफलपरिहारोपायश्च । याज्ञवल्क्यस्मृतावपि मेषादिराशिनामानि नैव गृहीतानि दृश्यन्ते । । एवमेव स्मृत्यन्तरेष्वपि प्रसङ्गोपयोगित्वेन तत्र तत्र ज्योतिषविषयः समनूदितो दृश्यते ।

महाभारते ज्योतिषम्

रामायणे महाभारतादावपि बहवो ज्योतिषसम्बद्धप्रसङ्गाः स्मृता दृश्यन्ते । रामायणे मुहूर्तादिकमधिकृत्य प्रासङ्गिकं वर्णनं लभ्यते । महाभारतं तु भारतीयपरम्परायाः विश्वकोष एव । तत्र ज्योतिषविषयोऽपि बहुत्र प्रस्तुतोऽस्ति यस्य सारमेवाऽत्रोपस्थाप्यते । महाभारतस्य हि त्रीणि स्वरूपाण्यनुमीयन्ते प्रथमं जयो नामेतिहासः द्वितीयं भारतं नामाख्यानं तृतीयं तु महाभारत लक्षश्लोकात्मकम् । अस्य वाचनान्यपि तावन्त्येव यत्र प्रथमं व्यासेन वैशम्पायनाय पाठितं द्वितीयं तु वैशम्पायनेन जनमेजयाय श्रावितं तृतीयं तु सौतिना शौनकादिभ्यः कथितम् । भगवान् पाणिनिस्तृतीयं स्वरूपमपि जानाति यथा हि तत्र सूत्रं ‘महान्त्रीह्यपरागृष्टीवासजाबालभारभारतहेलिहिलरौरवप्रवृद्धेषु'[३७]। महाभारतस्य जयभागे चतुर्विंशति सहस्राणि पद्यान्यासन् । यथोक्तम् -

‘चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।

उपाख्यानैविना तावद् भारतं प्रोच्यते बुधैः ॥'[३८]

महाभारतस्यायमेव भागः प्राचीनतमः । अस्य हि रचना न्यू रमपि पारीक्षितीज्जनमेजयात्प्रागेव सम्पन्ना आसीत् । परीक्षितस्य हि जन्म विक्रमतः १४१४ वर्षपूर्वं सञ्जातमासीदिति प्रमाणासिद्धम् । तेन हि पाण्डवानां समयः ततोऽपि अधिकमपि १५० वर्षान्तराले एवापतति । जयस्य प्रणयनं परीक्षिकाले सम्पन्नमिति तस्य जनमेजययज्ञे वाचनाऽज्ञायते । शौनकादीनां दीर्घसत्रं हि जनमेजयप्रपौत्रस्याधिसीमकृष्णस्य समये प्रवतितमासीत् । महाभारतकाले ग्रहगतिज्ञानं समृद्धमासीत् । यथोक्तं शान्तिपर्वणि-

‘अथ संवत्सराणाञ्च मासानाञ्च क्षयं तथा।

पक्षक्षयं तथा दृष्ट्वा दिवसानाञ्च सङ्क्षयम् ।।'[३९]

शङ्करबालकृष्णो निर्दशति यत्संवत्सरक्षयो हि प्रायः ८५ वर्षानन्तरं घटते । महाभारते हि मेषादिद्वादश राशीनां विधिः क्रान्तिवृत्तस्य द्वादश विभागेन ग्रहस्थितिनिद्धरणपद्धतिर्वा नैव दृश्यते । न च मध्यमराशिभोगद्वारा संवत्सरविनिश्चयपद्धतिश्च तदासीत् । तदा द्वादशसंवत्सरपद्धतिः प्रचलितासुमीयते । सा हि गुरोरुदयास्तमययोरवलम्बिता । तत्र हि पुनः पुनः संवत्सलयावसर आपतति । स्पष्टगतेः सूक्ष्मज्ञानं विना क्षयमासो नैव ज्ञातुं शक्यते । तेन हि तदा गुरोः सूक्ष्ममध्यमगतेज्ञनेमवश्यमेवाऽऽसीत् ।। । तत्र हि धूमकेतोरुल्कापातादेश्वोल्लेखो बहुत्र दृश्यते । तदाऽपि वर्षायाः कारणं सूर्य एवेत्यपि ज्ञातमासीत् । यथोक्तम्-

'त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।।

सवौषधिरसानाञ्च पुनर्वसु मुञ्चसि ॥'[४०]

तत्र हि सामुद्रस्योत्तरङ्गस्य चन्द्रमसा सह संम्बन्धः पृथ्व्याः गोलत्वं चन्द्रमसः पूष्ठस्यादृश्यत्वञ्चोक्तम् । यथा

‘यथा हिमवतः पाश्र्वं पृष्ठं चन्द्रमसो यथा। न दृष्टपूर्वं मनु""" "" ०" ।'

महाभारते हि ज्योतिषस्य सिद्धान्तस्कन्धापेक्षयाऽपि संहितास्कन्धस्य ज्ञानं समृद्धतरं दृश्यते । अथाऽत्र कानिचित्तत्सम्बद्धानि वचनान्युदिध्रयन्ते । यथा -

‘यतो वायुर्यतः सूर्यो यतो शुक्रस्ततो जयः ।[४१] ‘अद्यः पौष्ययोगमुपैति चन्द्रमाः । पाणि कृष्णायास्त्वं गृहाणाद्य पूर्वम् ।'[४२]

एवमेव संवत्सरादिज्ञानं यथा -

‘अनुसंवत्सरं जाताः पाण्डवाः कुरुसत्तमाः ।

पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव ॥'[४३]

समयगणना यथा -

‘तेषां कालातिरेकेण ज्योतिषाञ्च व्यतिक्रमात् ।

पञ्चमे पञ्चमे वर्षे द्वौ मासाचुपजायतः ।।

एषामप्यधिको मासाः पञ्च च द्वादश क्षेपाः ।

त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥'[४४]

पञ्चसु वर्षेषु द्वयोरधिमासयोरवस्थितिहि वेदाङ्गज्योतिषानुसारेण सिध्यति । नक्षत्रगणना कृत्तिकात एव तत्र मता। अनुशासनपर्वणि चतुःषष्टितमेऽध्याये कृत्तिकात आरभ्य भरणीपर्यन्तं नक्षत्रगणना कृताऽस्ति तत्तन्नक्षत्रेषु दानविशेषनिर्देशश्च । युधिष्ठिरजन्ममुहूर्तों यथा -

‘ऐन्द्र चन्द्रसमारोहे मुहूर्तेऽभिजिदष्टमे ।

दिवो मध्यगते सूर्ये तिथौ पूर्णेतिपूजिते ॥'[४५]

ग्रहाणां सौम्यक्रूरत्वं तेषां शुभाशुभफलप्रदत्वं च यथा -

‘प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।

शनैश्चरः पीडयति पीड्यन् प्राणिनोऽधिकम् ॥

कृत्वा चाङ्गारको वक्र ज्येष्ठायां मधुसूदन ।

अनुराधां प्रार्थयते मैत्रं सङ्गमयन्निव ।।

नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।

विशेषेण हि वाष्र्णेय चित्रां पीडयते ग्रहः ।।

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च ।

दिवश्वोल्काः पतन्त्येताः सनिर्वाताः सकम्पनाः ॥'[४६]

ग्रहयोगों यथा - भृगुपुत्रधरापुत्रौ शशिजेन समन्वितौ ।'[४७] त्रयोदशदिपक्षो यथा -

'चतुर्दशीं पञ्चदशीं भूतपूर्वा तु षोडशीम् ।

इमां तु नाभिजानेऽहममावास्यां त्रयोदशीम् ॥

चन्द्रसूर्यावुभौ ग्रस्तावेकमासीं त्रयोदशीम् ।

अनुशासनपर्वणि १०६ अध्याये ( १७-३१ ) १०७ अध्याये ( ३-१४ ) च मार्गशीर्षादिद्वादशमासानां नामानि गृहीतानि सन्ति । चन्द्रस्वरूपं यथा -

‘मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते ।

पादौ मूलेन राजेन्द्र जङ्घायामथ रोहिणीम् ।।

अश्विभ्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा ।

गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा ।।

नाभिर्भाद्रपदे विद्याद् रेवत्यामक्षिमण्डलम् ।

पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा ।।

बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निदिशेत् ।

पुनर्वस्वङ्गुलौ राजन् आश्लेषास्तु नखास्तथा ।।

ग्रीवा ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः ।

मुखं पुण्येण दानेन दन्तोष्ठौ स्वातिरुच्यते ।।

हासं शतभिषाञ्चैव मघाञ्चैवाथ नासिकाम् ।।

नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु ।।

भरण्यां तु शिरो विद्यात्केशानाद्र नराधिप ।

जायते : परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः ।'

नक्षत्रगणनाक्रममधिकृत्य महाभारते वनपर्वणि उक्तम् -

अभिजित् स्पर्धमाना तु रोहिण्याः कन्यसी स्वसा ।

इच्छन्तीं ज्येष्ठतां देवी तपस्तप्तुं वनं ययौ ।।

तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।

कालं त्विमं परं : स्कन्द ब्रह्मणा सह चिन्तये ॥

धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः ।

रोहिणी ह्यमवत्पूर्वमेवं सङ्ख्या समाऽभवत् ।।

एवमुक्ते तु शक्रेण कृत्तिका - त्रिदिवं गता।

नक्षत्रं सप्तशीर्षाभं भाति तद्वह्लिदैवतम् ॥'[४८]

अस्यायमाशयः - आदौ हि अभिजितमादाय नक्षत्रसङ्ख्या सप्तविंशतिरासीत् । अभिजिद्धि कालवशेन निस्तेजस्काः समपद्यत । ततो हि नक्षत्रसङ्ख्यापूरणीय कृत्तिका गृहीता। पूर्वं हि रोहिणीक्रमेण नक्षत्रगणनाऽऽसीत् । तदा तु धनिष्ठाक्रमेणेति । व्याख्यातं यथा नीलकण्ठेन–'यस्य नक्षत्रस्याचक्षणे चन्द्रसुर्यगुरूणां योगस्तद्युगादिनक्षत्रम् । तच्च पूर्वं रोहिण्यभूत् । तदा तु धनिष्ठेति । अत्र विचारणीयो विषयो यथा शङ्करबालकृष्णो निर्दशति -

‘अभिजिन्नक्षत्रस्य शराः ६१ अंशाः उत्तरतः । सम्पातगतिजनितनक्षत्रमण्डलभ्रमणे कदाचिदभिजिद् ध्रुवस्थानमायाति । तदा हि वृत्ते षड्वशतिरेव नक्षत्राप्यवशिष्यन्ते' । घटनेयं त्रयोदशसहस्रवर्षपूर्वं घटिता सम्भवति यतो हि पाश्चात्यगणका अपि तथा मन्यन्ते । तथैव आदिपर्वणि--

‘चकारान्यच्च लोकं वै क्रुद्धो नक्षत्र सम्पदा ।

प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः ॥'[४९]

अश्वमेधपर्वणि -

‘अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः ।

श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥'[५०]

अत्रेदमवधेयं यद्वेदसंहिताकाले उत्तरायणं मृगशिरसि आसीत् । अत्रापि ‘यस्याद्यक्षणे चन्द्रसूर्यगुरुयोगस्तद्युगादिनक्षत्रमिति सिद्धान्तः । युगादिनक्षत्रं हि प्रति ९६० वर्ष पश्चादपसर्पति । ततश्चोत्तरवैदिककाले रोहिणी युगादिनक्षत्रमासीत् । ब्राह्मणयुगे कृत्तिका तदासीत् । ततश्च क्रमेण वेदाङ्गज्योतिषकाले धेनिष्ठा तदासीत् । महाभारतस्याश्वमेधपर्वप्रवचनकाले श्रवणं तदासीत् । कदाचित् उत्तराषाढा तदासीत् । साम्प्रतिककाले तु पूर्वाषाढा तदस्ति । एतदतिरिक्तमपि महाभारते ऋत्वयनमासतिथ्यादीनामनेकत्रोल्लेखो लभ्यते । तत्रोक्तम् -

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।।

स्फीतसस्यसुखे काले कल्पः सत्यवतां वरः ॥'[५१]

कौमुदे कार्तिके । रेवत्यामिति शुक्लद्वादश्यां शरदः समाप्तिहेमन्तस्यारम्भ इति । एतेन तदा वसन्तो हि चैत्रवैशाखयोरेवेति सिध्यति । पक्षस्तु एकत्र शुक्लपूर्वोऽपरस्मिस्तु कृष्णपूर्व इत्यपि । यथा -

‘मासाः शुक्लादयः स्मृताः ।[५२]

‘कृष्णशुक्लावुभौ पक्षौ।'[५३]

एवञ्च--- ‘काष्ठाः कला मुहूर्ताश्च दिवा रात्रिस्तथा लवाः[५४]

एवमेव - ‘संवत्सरान् ऋतून मासान् पक्षानथ लवान् क्षणान् ।'[५५]

तत्र अभिजिज्जयादिमुहूर्तानामपि समुल्लेखो लभ्यते । यथा -

‘स भवान् पुण्ययोगेन मुहूर्तेन जवेन च ।[५६]

‘ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजिदष्टमे ।'[५७]

तत्र हि सप्तवाराणां नामानि तु न दृश्यन्ते । आदिपर्वणि वारशब्दः पर्यार्यार्थं प्रयुक्तो दृश्यते । यथा -

‘एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् ।

स वारो बहुभिर्वषैर्भवत्यसुकरौ नरैः ॥'[५८]

नक्षत्राणि कृतिकारम्भाणि उक्तानि इति पूर्वमेवोक्तम् । सम्प्रति नक्षत्रविषये महाभारतगतानि कानिचिद्वचनानि समुदिध्रयन्ते--

‘अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ।'[५९] ‘चन्द्रस्येव पुनर्वसू ।'[६०] ‘पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ।[६१] ‘विशाखयोर्मध्यगतः शशी यथा ।'[६२]

एवमेव सप्तरुन्धत्यगस्त्यादितारका अपि तत्र तत्र स्मृताः । किन्तु योगकरणादीनां मेषादीनाञ्च न तत्रोल्लेखः । पर्वर्तुविषुवायनचन्द्रसूर्योपरागादयश्च तत्र स्मृताः।[६३]

ग्रहणमधिकृत्य महाभारते सन्त्यनेके प्रसङ्गाः । यथा केचित् -

‘राहुरग्रसदादित्यमपर्वणि विशाम्पते ।[६४]

अलक्ष्यः प्रभया हीनः पौर्णमासीञ्च कार्तिकीम् ।

चन्द्रोऽभूदग्निवर्णश्च पद्मवणे नभस्तले ॥'[६५]

महाभारतयुद्धवर्षे कातिकपौर्णमास्यां चन्द्रग्रहणं मार्गकृष्णामावास्यायां सूर्यग्रहणं घटितमासीत् मार्गशीर्षकृष्णपक्षश्च त्रयोदशदिनात्मक एव । यथोक्तं भीष्मपर्वणि--

'चतुर्दशीं पञ्चदशीं भूतपूर्वा तु षोडशीम् ।

इमां तु नाभिजानेऽहममावास्यां त्रयोदशीम् ।

चन्द्रसूर्यावुभौ ग्रस्तौ एकमासो त्रयोदशीम् ॥'[६६]

एवम् - 'राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते ।'[६७] महाभारते नवैव ग्रहास्तत्र तत्र स्मृताः । यथा -

‘सोमो वृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ।

इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ।'[६८]

‘ग्रहाः पञ्च रवि यथा ।'[६९] ‘सोमं सप्तग्रहा इव ।'[७०] ‘निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ।[७१] ‘विमार्गस्थौ( वक्रो)ग्रहाविव ।'[७२] ‘वक्रातिवक्रगमनादारक इव ग्रहः ।[७३]

‘प्रतिलोमोऽभवद्गुरुः ।'[७४] ‘नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ।'[७५] ‘भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ ।'[७६] महाभारतयुद्धकालीननक्षत्रग्रहस्थितिर्यथा -

‘श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ।

(श्वेतो ग्रहः केतुः । चित्रां समतिक्रम्य स्वात्यादी )

•••• • •• धूमकेतुर्महावीर पुष्यञ्चाक्रम्य तिष्ठति ।

मधास्वङ्गारको वक्रः श्रवणे च वृहस्पतिः ।

भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ।

( भग उत्तरफाल्गुनी ) शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विराजते ।

रोहिणीं पीडयत्येवमुमौ च शशिभास्करी ।

चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ।

वक्रानुवकं कृत्वा च श्रवणं पावकप्रभः ।

ब्रह्मराशि समावृत्य लोहिताङ्गो व्यवस्थितः ।

विशाखायाः समीपस्थौ वृहस्पतिशनैश्चरौ ।

चन्द्रसूर्यावुभौ ग्रस्तावेकाह्रा हि त्रयोदशीम् ॥'[७७]

‘प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।

शनैश्चरः पीडयति पीड्यन् प्राणिनोऽधिकम् ।

कृत्वा चाङ्गारको वक़ ज्येष्ठायां मधुसूदन ।

अनुराधां प्रार्थयते मैत्रं सङ्गमयन्निव ।

.... .... .... ••••• ••••चित्रां पीडयते ग्रहः ।'[७८]

स्थूलानुमानेन तदुच्यते यन्मार्गशुक्लप्रतिपदायां महाभारतयुद्धमारब्धं समाप्तञ्च गौषकृष्णतृतीयायां भीष्मश्च मार्गशुक्लदशम्यां पातितोऽपि अष्टपञ्चाशद्दिनानि प्राणान् घारयित्वा माघशुक्लाष्टम्यां निर्वाणमाप । यथोक्तमनुशासनपर्वणि -

‘अष्टपञ्चाशतं रात्र्यः शयानस्याद्य में गताः ।

माधोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर ।

त्रिभागशेषः . पक्षोऽयं शुक्लो भवितुमर्हति ॥[७९]

सौम्यश्चान्द्रः । मासस्य चतुर्भागकरणे सार्धसप्ततिभंगत्वात् अष्टम्यर्धस्यानतीतत्वेन प्रथमभागस्य विद्यमानत्वात् त्रिभाग शेषो भवितुमर्हतीत्यर्थः । तेनाष्टमीत्यर्थः इति नीलकण्ठः । अत्रेदमप्यवधेयं यज्जयो नामेतिहासोऽयं वस्तुतः आदिपर्वगतात् 'मृते पितरि ते वीराः' ( ६१।६ ) इति पद्यात्प्रारभते समाप्यते च शल्यपर्वणि षष्टितमेऽध्याये यस्यायं चरमः श्लोकः--

‘दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः ।

दिष्ट्या जयति दुर्धर्षं दिष्ट्या शत्रुनिपातितः ।।' इति॥[८०]

तेनायमेव भागो महाभारतस्य प्राचीनतमः । अवशिष्टभागस्तु सौतिना पूरितस्ततोऽप्यवशिष्टो लिपिकारेणति ज्योतिषे जयभागस्यैव : प्रामाण्यम् । यो यो भागो यदा यदा गुम्फितस्तत्र तत्र तत्कालव्यवहृतमानमेव निर्दिष्टम् । तेन यत्र कुत्र विषयवैषम्यमपि दृश्यते । वनपर्वणि २३० तमेऽध्याये धनिष्ठारम्भे उत्तरायणमुक्तमनुशासनपर्वणि भीष्मस्वर्गारोहणप्रसङ्गे मकरदावर्थादुत्तराषाढाया द्वितीये पादे । एकत्र नक्षत्राणां कृत्तिकादितो गणनाऽपरत्र श्रवणादितोऽपि मासेष्वप्येक मार्गशीर्षस्य प्राथम्यमपत्र चैत्रवैशाखयोरेव वसन्तगत्वमपीति । जयस्य वीररसकाव्यस्य प्रणयनकालोऽपि न तथा निश्चितः । आदिपर्वणि।[८१]

‘अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् ।।

समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥' इत्युक्तम् । वनपर्वणि[८२] ‘एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते इत्युक्तम् । गदापर्वणि तु ‘प्राप्तं कलियुगं बिद्धि'[८३] इत्यप्युक्तं दृश्यते । तेन हि पाण्डवा वस्तुतः कदाऽऽसन्निति न निश्चयेन तत्र कथितं दृश्यते । यच्च केरपन्तमहोदयेः साधितो यच्च शङ्करबालकृष्णमहोदयेन पयलोचितः पाण्डवसमयः खोऽपि वराहमिहिरस्य -

'आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।

षद्विकपञ्चद्धि ( २५२६) युतः शककालस्तस्य राज्ञश्च ।'

इति कथनासंवादित्वाच्चिन्त्यमेव । श्रीमद्भागवतेऽपि परीक्षितः, काले सप्तर्षीणां मघासु विचरणं नन्दकाले तु पूर्वाषाढायां सञ्चरणमुक्तम् । ते हि एकनक्षत्रेऽब्दशतं तिष्ठन्तीति अव्यक्तगणितेनाऽप्युक्तम् -

'आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् ।

एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥' इति ।[८४]

तेन हि वराहमिहिरमतानुसार ६५३ कलिगतवर्षेषु पाण्डवानामुदयः । यदा युधिष्ठिरो. नवतिवर्षवयस्क आसीत्तदा महाभारतयुद्धं प्रशुत्तम् । युद्धानन्तरम् ३८ वर्षाणि स महीं बुभुजे । ततश्च परीक्षिदभिषिक्त इति कलिगत ८८१ वर्षेषु परीक्षितोऽभिषेकः । सोऽपि षष्टिवर्षाणि महीं भुङ्क्त्वा दिवं गत इति कलिगत ९३१ वर्षेषु जनमेजयस्याभिषेकः । कलिगतेषु ३०४४ वर्षेषु विक्रमस्य जन्मेति विक्रमतः २३९१ वर्षपूर्वं पाण्डवसमय इत्यनुमीयते । एतदेव चिन्तनं वराहमिहिराचार्येण सह संवादि ।।

पुराणेषु ज्योतिषम्

एतदतिरिक्तं पुराणेष्वपि तत्र तत्र ज्योतिषविषयप्रसङ्गो दृश्यते किन्तु तत्र नैव किञ्चिन्नवीनत्वमिति तेषां विस्तृतत्वेन ग्रन्थकलेवरवृद्धिभयाच्च नात्र तस्योल्लेखः । गारुडे हि महापुराणे सर्वस्य सारत्वेन विषयः प्रपञ्चितः । तत्र सामान्यतः सूर्यव्यूहवर्णनं ज्योतिषशास्त्र कथनं नक्षत्राणां कृत्तिकादित गणना नक्षत्रदेवताकथनं योगिनीस्थितिनिर्णयः सिद्धियोगः अमृतयोग: ज्योतिषशास्त्रवर्णनं दशाकथनं दशाफलं यात्राविचारः चन्द्र शुद्धिकथनं द्वादश राशिपरिमाणं मेषादिलग्नेषु विवाहफलं चरादिलग्ने कर्तव्यानि च तत्र यथायोग प्रपञ्चितानि ।[८५] एतदतिरिक्तमपि तत्समकालिकत्वेन तदनतिद्रकालवतित्वेन वा ‘सूर्यप्रज्ञप्तिः' 'ज्योतिषकरण्डकम्' 'वसिष्ठसंहिता' 'नारदसंहिता' 'भृगुसंहिता' ‘पराशरसंहिता' 'काश्यपसंहिता' चे स्मर्यन्ते ।

सूर्यप्रज्ञप्तिः

सूर्यप्रज्ञप्तिः प्राकृतभाषायामाबद्धो ग्रन्थः । ग्रन्थस्यास्य मलयगिरिणा सत्कृतमाश्रित्य टीका प्रणीताऽस्ति । अत्र हि सूर्यस्य गमनं नमनमायुः परिवारः । सङ्ख्या च निरूपिताः । सूर्यद्वयस्य कल्पना चन्द्रद्वयस्य च प्रत्येक पृथक्पृथगष्टाविंशतिनक्षत्राणां कल्पना चास्य ग्रन्थान्तरेभ्यो वैशिष्ट्यम् । तयोरेकान्तरेण भ्रमणादेकत्वभानमुक्तम् । अत्रापि युगः पञ्चवर्षात्मक एवं कथितः ।।

चन्दप्रज्ञतिः

चन्द्रप्रज्ञप्तेरपि सूर्यप्रज्ञप्तेरिव विषयाः किन्तु चन्द्रसम्बद्धाः । एतदनुसारेण हि सूर्यस्य प्रतिदिनं योजनात्मिका गतिर्भवति । छायाप्रमाणेन दिनमाननिर्धारणमस्य वैशिष्टयम् । अत्र चन्द्रमसो हि स्वयंरश्मित्वमुक्तं न तु सूर्यरश्मित्वम् ।।

ज्योतिषकरण्डकम्

ज्योतिषकरण्डके हि सन्ति ज्योतिषशास्त्रसम्बद्धविषयाः प्रतिपादिताः ।। ग्रन्थोऽयमनन्तरोक्तापेक्षया नितान्तमेवीर्वाचीनः । आचार्या हि ऋषिपुत्रं ज्योतिषाचार्यत्वेन स्मरन्ति यस्य ग्रन्थः सामज्योतिषमिव प्रलुप्तप्रायः । वाराहीसंहितायाष्टीकाकृद् भट्टोत्पलस्तं बहुशः स्मरति । | इतश्चोदेति ज्योतिषशास्त्रस्य पूर्वमध्यमकालो यत्र विविच्यते प्राधान्येन सिद्धान्तस्कन्धः ।।

विशिष्टम्

अथात्रोपस्थाप्यते प्रकरणसारः पूर्वाचार्यमनुसृत्य । यद्धि शतपथब्राह्मणे[८६] कृत्तिका आदायोक्तम् ‘एता ह वै प्राच्य दिशो न च्यवन्ते' इति तस्यायमेवाशयो यत्तदा कृत्तिका हि विषुववृत्तमाश्रित्य स्थिता आसन् । सम्प्रति तु ताः पूर्वविन्दुतः किञ्चिदुत्तरमुपसृत्य स्थिता दृश्यन्ते । तासामिदं स्थितिपरिवर्तनमयनगत्येव । अयनगतिश्च प्रतिवर्ष पञ्चाशद्विकलाप्रमाणेन भवतीति सार्वत्रिकः सिद्धान्तः । तन्माने कृत्तिकानां क्रान्तिशून्यत्वं हि शककोलतः ३०६८ तमवर्षपूर्वं सम्भवति । अयनगतेः प्रतिवर्षम् ४८ विपलामाने तु ततोऽपि १५० वर्षांपूर्वं सम्भवति यद्धि कलिप्रारम्भसमयसंवादि । तेन हि शतपथब्राह्मणस्य भागस्यास्य रचनाकालः शककालतः ३१०० वर्षांपूर्वमभित आपतति । कलिगत ३१७९ वर्षेषु शकयुगस्यप्रारम्भो मतः । ( ५०९०- १९११= ३१७९ )।

वेदेषु ब्राह्मणेषु च कृत्तिका आरभ्य नक्षत्रगणना लभ्यते । तेन हि तदा कृत्तिकासु सम्पातोऽभीष्टः । कृत्तिकासु सम्पातेन तदा तासां सायनभोगेन शून्येन भाव्यम् । शङ्करबालकृष्णानुसारेण १७७२ तमशकवर्षे तस्याः सायनभोगः ०५५७१५४१० आसीत् । अतः तेन वर्षेण शकपूर्व २३९८ तमेन भाव्यम् । नक्षत्राणां कृत्तिकादिगणनायास्तासां पूर्वस्यामुयनमेव हेतुः । तत्संवादिकालश्च शककोलतः २४००मितवर्षपूर्वमभितोऽनुमितः । ततः पूर्वमेव यजुर्वेदसंहिताकालः किन्तु न तथाऽतिदूरवर्ती तत्रापि कृत्तिका आरभ्य नक्षत्रगणनादर्शनात् । ऋक्संहिताकालस्तु ततोऽपि पूर्ववर्ती सम्भवतः सुदूरवर्ती तत्र कृत्तिकादिगणनोल्लेखाभावात् ।

केचिद्वदन्ति यत्कृत्तिकाप्रभृतिनक्षत्राणां चैत्रादिमासानां च संज्ञा भारतीयसाहित्ये प्रवासत आयाता इति किन्तु शङ्करबालकृष्णस्तश्न मन्यते । तदनुसारेण नक्षत्राणां नामानि हि भारतीयसंस्कृतेः परिचायकानि । यथा कर्तनमिव स्थिताः कृत्तिका इति । अन्यापेक्षया रोहितवर्णेति रोहिणी । कथ्यते हि रोहिण्याद्याः सप्तविंशतिर्दशसुताश्चन्द्रेणोद्वाहिताः । तस्य रोहिण्यामेवानुरागातिशयेन दुःखिता अन्याः पित्रे स्वव्यथां निवेदयाञ्चक्रुः । स च जामातरं सर्वासु सभानव्यवहाराय : निददेश । तच्च चन्द्रो नानुमेने । तेन कुपितो दुहितृपिता चन्द्रमसं क्षयमवाप्नुहीति शशाप । तेन चन्द्रः कृष्णपक्षे क्षीणो भवतीति । एवमेव मृगशिरसो विषयेऽपि कथ्यते यत्प्रजापतिहि ब्रह्मा दुहितर कामयामास । सा च लज्जिता मृगी भूत्वा प्रदुद्राव । ब्रह्माऽपि मृगो भूत्वा तामन्वधावत् । तञ्च निषिद्धकर्मपरं रुद्रोऽनुययौ धनुष्पाणिः । तेन स मृगशिरो भूत्वा तत्रैव स्वरूपेणैकेन भीतस्तिष्ठतीति । सैव रोहिणी । स एव मृगशीर्पमिति । ( ऐत० १३।९, तैत्ति० १।१।१०१६ । ( सा तत ऊर्वारोहत् । सा रोहिण्यभवत् ) । अश्विनीविषयेऽप्युच्यते यत्सूर्यस्य पत्नी संज्ञा पतितेजोऽमितप्ता दूरमपासरत् । तां सविताऽन्वधावत् । सा च वडवा भूत्वा प्रदुद्राव । सोऽपि तेनैव रूपेण तामन्वगच्छत् । तावेवाश्विनाविति । इत्थं हि आख्यानादिसिद्धा नक्षत्रसंज्ञा न कथमपि विदेशागताऽपि तु स्वकीयैव । मासानां चैत्रादिसंज्ञाऽपि तथैव स्वकीया । शतपथब्राह्मणं हि द्विधा विभक्तं पूर्वोत्तरभागेन । आदितो दशमकाण्डपर्यन्तं पूर्वभागः शेषकाण्डान्युत्तरभागः । एवमुत्तरभागगते एकादशतमकाण्डे वैशाख्याममावास्यामादधीतेति वचनं लभ्यते ( १।१७ ) । तेन मासनामान्यपि अत्रत्यान्येवेति स्पष्टमेव । कौषीतकीब्राह्मणे ( १९२३ ) तपस्यस्य माघस्य चोल्लेखो दृश्यते । एवमेव पञ्चविंशब्राह्मणेऽपि 'मुखं वा एतत्संवत्सरस्य यत् फाल्गुनः' इति फाल्गुनशब्दः प्रयुक्तो दृश्यते ।

आर्तवसौरवर्षापेक्षया नाक्षत्रसौरवर्षों हि पञ्चाशत्पलया अधिको भवति । ऋतुह आर्तवसौरवर्षे आधारितो भवति । सूर्य सम्पातस्थेऽद्य य ऋतुर्भवति वर्षसहस्रानन्तरमपि तदा स एव ऋतुर्भवति किन्तु नाक्षत्रसौरवर्षे न तथा स्थितिः । कस्मिश्चिन्नक्षत्रे स्थिते सूर्येऽद्य य ऋतुर्भवति द्वितीयपर्याये न तथैव स्थितिरपि तु किञ्चिद्भिन्नैव । तत्र हि द्विसहस्रवर्षेषु एकमासस्य चतुःसहस्रवर्षेषु द्वि मासस्यैवान्तरं भवति । यथा हि अश्विनीगते सूर्ये यदि कस्मिश्रित्पर्याये वसन्तः सम्पद्यते तत्र संपादसहस्रचतुष्कवर्षानन्तरं ग्रीष्मः सम्पद्यते साद्धष्टसहस्रवत्सरानन्तरं वर्षा सम्पद्यते । अश्विनीतः प्रारभ्य पुनस्तत्रैवागमनाय सूर्यो यावन्तं कालमाददाति तदवधिको हि नाक्षत्रसौरवर्षः । सूर्येऽश्विन्यां प्राप्ते चन्द्रोऽपि पूणिमायां चित्रां प्राप्नोति । स एव चान्द्रो मासश्चैत्रः ।

चित्रानक्षत्रसम्बन्धादेव स मासश्चैत्रः । तदा हि यद्येकवारं वसन्तर्तुर्भवति चेत्तत्र सपादचतुःसहस्रवर्षानन्तरं ग्रीष्मः सम्पद्यते । तेन हि यदि चैत्रे वसन्तारम्भ एकदा भवति चेत्साकविंशतिशतवर्षपर्यन्तं तु स चैत्रे एव भवति । तदनु स फाल्गुने घटते । ततोऽपि सार्द्धकविशतिशतवर्षानन्तरं माघे एव घटते । इत्थं चैत्रे वसन्तारम्भोपक्रमात साचतु:सहस्रवर्षानन्तरं तत्र ग्रीष्मारम्भोपक्रमः सम्पद्यते । तेन हि चैत्रस्य वसन्तारम्भहेतुना प्रथममासत्वं द्विसहस्रवर्षपर्यन्तमेव स्थायि । शतपथब्राह्मणे चैत्रस्य प्रथम मासत्वं तत्रैव वसन्तारम्भश्वोक्तः---'मधुश्च माधवश्व वसन्त' इति । समयक्रमेण वसन्तारम्भोऽपि पश्चादपसृतः । ततश्च फाल्गुनो हि मासः प्रथममासः सञ्जातस्तत्रैव वसन्तारम्भात् । साम्प्रतिककाले तु माघे एव वसन्तारम्भो भवति माघफाल्गुनौ हि वसन्त । एतेन हि चतुःसहस्रवर्षपूर्वं चैत्रादिगणना प्रवृत्तासीदिति ज्ञायते ।

वर्षारम्भमधिकृत्य तिस्रः स्थितयो दृश्यन्ते तत्र तत्र । वर्षारम्भमादाय ऋग्वेदे मौनेऽपि यजुर्वेदः साक्ष्यं ददाति यद्व सन्तारम्भे एव वर्षारम्भो भवति वसन्तारम्भश्च चैत्रे एवेति । तैत्तिरीयब्राह्मणे तु स्पष्टमेव वसन्तो हि ऋतूनां मुखं मतः । उत्तरफाल्गुन्यां वसन्तस्य वर्षस्य चारम्भश्च निर्दिष्टस्तत्र । यथा -

'वसन्ते ब्राह्मणोऽग्निमादधीत । वसन्तो वै ब्राह्मणस्यर्तुः । मुखं वा एतदृतूनाम् । यद्वसन्तः । यो वसन्तेऽग्निमाधत्ते मुख्य एव भवति । न पूर्वयोः फल्गुन्योरग्निमादधीत । एषा वै जघन्या रात्रिः संवत्सरस्य यत्पूर्वं फल्गुनी । उत्तरयोरादधीत । एषा वै प्रथमा रात्रिः संवत्सरस्य यदुत्तरे फल्गुनी । मुखत एव संवत्सरस्याग्निमाधाय ।'••••••••••।[८७]

वेदाङ्गज्योतिषे स्पष्टत उत्तरायणारम्भादेव वर्षारम्भ उक्तः । महाभारते तु स्पष्टमेव मार्गे वर्षारम्भः कथितः किन्तु वसन्तर्तुस्तु चैत्रवैशाखयोरेव उत्तरायणञ्च माघे । कोषकारोऽपि तथैव मन्यते यदा स कथयति -

‘मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी ।'

मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः । इति ।

‘मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः' इति कथयन्महाभारतं पुनस्तदेव द्रढयति । एतेन सिध्यति यन्न हि काचिद्राजाज्ञा यद्वसन्ते एव वर्षारम्भो भवत्विति । ऋतुविचारे वसन्तः श्रेष्ठो मासविचारे मार्गशीर्षः । वर्षारम्भस्तु, तदुभयविलक्षण इति । प्राग्वैदिकसंहिताकाले मृगशिरसि सूर्ये प्राप्ते वर्षारम्भो मत आसीत् । मृगशिर्षस्यैवापरं नामाग्रहायणीति । आग्रहायणीयुक्ता पौर्णमासी आग्रहायणी यत्र मासे सा स नाम्ना आग्रहायणिको मास इति मार्गस्य ग्रहायणीयुक्तपूणिमायुक्तत्वेनैव अग्रहायणिकत्वं न तु प्रथममासत्वेनेति स्पष्टम् । न हि मासस्य प्राथम्यं वार्तेर्वर्षारम्भे हेतुरपि तु सूर्यस्योदगयनमेवेति तैत्तिरीयब्राह्मणस्य-उत्तरयोरादधीत एषा वै प्रथमा रात्रिः संवत्सरस्य यदुत्तरे फल्गुनी । मुखत एव संवत्सरस्याग्निमाधाय५::::' इत्यादिवचनात् ज्ञायते । उत्तरायणमेव वर्षारम्भ इति वेदाङ्गज्योतिषादपि सिध्यति । तथाभूते सत्येव विषुवान् हि मध्ये संवत्सरं तिष्ठती'ति[८८] कथनमपि सिध्यति । समराथिन्दिवः काल एव विषुवान् भवति । एवमेव तथ्यं निभाल्यैवोक्तं स्यात्-‘उभयतो मुखमृतुपात्रं . भवति । को हि तद्वंद् यदृतूनां मुख'[८९] इति ।

मार्गशीर्षस्याग्रहायणिकत्वं प्राग्वैदिकसहिताकालस्मृत्येव न तु तात्कालिकत्वेन । महाभारत हि पञ्चमो वेदस्तद्वेदसम्मतं मार्गमनुसरतीति किमाश्चर्यं कामं तद्यदाकदाऽपि गुम्फितं स्यात् । अमरसिंहश्च कोषकारः परमवैदिकः । सोऽपि तदेवानुयातीति नाश्चर्यम् । यदा हि सूर्ये मृगशिरसि प्राप्ते उत्तरायणं प्रवर्तते स्म तदा मृगशिरस: आग्रहायणीत्वं मार्गस्य च आग्रहायणिकत्वं तद्युक्तपौर्णमास्यास्तस्मिन् मासे घटनात् । तत्सम्बन्धेन तस्याः प्रथमत्वेन गणना। वर्षमुखत्वं तु तस्यैव मासस्य यदा सूर्य उदगयनमालिङ्गति कामं स मार्गो हि स्यात् फाल्गुनो वाऽपि ।

सम्बद्धाः लेखाः

सन्दर्भाः

फलकम्:Reflist

  1. यजु० ३७
  2. ३२
  3. अश्वि० गृ० सं० २।१।१
  4. ४।१२
  5. ४।१२
  6. ३।२।१
  7. गृ० सं० २।४।१
  8. ३।५
  9. गृ० सं० १॥७॥२२
  10. २।१०।३
  11. गृ० सं० १।४।१
  12. ३।१२
  13. २।१६
  14. १।२१
  15. १०।२६
  16. १४/८-९
  17. १४।४
  18. ५॥१॥८८
  19. ४/१॥२७
  20. ४।२।२१
  21. ३।३।९
  22. ३/१॥११६
  23. ४।२।२३
  24. ४।२।३
  25. ४।२।३४
  26. ४।२।३२
  27. १।२।६१
  28. १।२।६२
  29. १॥२॥६०
  30. ३।१।४१
  31. मनु० १६८-८६
  32. १।२९५
  33. १॥२१७
  34. १/२६८
  35. १।२१७-२१८
  36. ३।१७१
  37. ६।२।३८
  38. महा० १।१।७८
  39. ३०१।४६-४७
  40. वन० ४९।३
  41. शा० १००।२०
  42. आदि० १९८/५
  43. आदि० १३४।२४
  44. विरा० ५२।३-४
  45. आदि० १२३।६
  46. उद्योग० १४३।८।११
  47. शल्य० ११।१८
  48. ७-११
  49. ७१।३४
  50. 44/2
  51. उद्योग० ४३।७
  52. अश्व० ४४॥२
  53. वन० ८४/९६
  54. शान्ति० ७॥२१
  55. शान्ति १४।१६
  56. उद्योग० ६/७
  57. आदि० १२३।६
  58. १६०/७
  59. वन० २७८/२०
  60. कर्ण० ४९।२८
  61. आदि० १३५॥३०
  62. कर्ण० २१॥४८
  63. वन २००।२४-२५
  64. सभा० ७९।१९
  65. भीष्म० २।२३
  66. ३।३१-३२
  67. गदा० २७॥१०
  68. वन० ३।१७
  69. भीष्म० १००।३७
  70. द्रोण० ३७/२२
  71. कर्ण० ३७/४
  72. कर्ण० १८।२२
  73. कर्ण० २०/१
  74. शान्ति० ११॥१५
  75. कर्ण० १८।१
  76. शल्य० ११।१८
  77. भीष्म० तृतीयाध्याये
  78. उद्यो० १४३ अध्याये
  79. १६७/२७-२८
  80. ४८
  81. २/१३
  82. १४९।३८
  83. ३॥१॥२३
  84. १२।२।२६
  85. ५९-६१ अध्यायाः
  86. २।१।२
  87. १।१।२
  88. ऐत० ० १८।१८। तैत्ति० वा० १।२।४
  89. तै० सं० ६।५।३