जैसलमेर

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

जैसलमेर (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितस्य जैसलमेरमण्डलस्य केन्द्रम् अस्ति ।

जैसलमेर – 'Island in the sand' , 'poem in sand', 'fort city' इत्यादिभिः नामभिः ख्यातम् अस्ति ।

राजस्थानराज्ये उत्तरभागे थारमरुभूमिः अस्ति । तत्रैव एतत् ऐतिहासिकं, सुन्दरं नगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मकभवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति नगरमिदम् । 'म्यूसियं' नगरं, प्राचीनभवनानां नगरं, 'महल'नगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र नैकाः दुर्गाः, देवालयाः, राजगृहाणि च दृश्यन्ते । क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल-जैसल-महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरं कलात्मकभवनैः सुन्दरशिल्पैः उत्तमैः देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च समग्रे विश्वे सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।

रजपूतरावल-जैसल-महाराजस्य भावचित्रम्
दुर्गात् जैसलमेरदृश्यम्
"https://sa.bharatpedia.org/index.php?title=जैसलमेर&oldid=4710" इत्यस्माद् प्रतिप्राप्तम्