जेनुकुरुबजनाङ्गः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


जेनुकुरुबजनाङ्गस्य स्थानानि

मैसूरुमण्डलस्य हेग्गडदेवनकोटे, हुणसूरु इत्यादिषु उपमण्डलेषु च, कोडगुमण्डलस्य कुशालनगरं, सोमवारपेटे, मडिकेरी उपमण्डलेषु च, तमिळ्नाडुराज्यस्य नीलगिरिपर्वतेषु, केरळस्य मानन्दवाडिप्रदेशेषु च एते सन्ति । कर्णाटके एतेषां सङ्ख्या ४३,००० (१९९७वर्षस्य गणनानुसारम्) । पारम्पर्येण एते गजान् गृहीत्वा तेषां प्रशिक्षणे निष्णाताः इति ज्ञायते । मैसूरुनगरस्य दसरा-उत्सवे विजयदशम्यां ‘गजवरण्डकान्’ एते एव निर्वहन्ति ।

जेनुकुरुबजनाङ्गस्य वृत्तिः

वनेषु जेनुकुरुबजनाङ्गीयाः कुमरिनामिकां व्यवसायपद्धतिम् अनुसरन्ति । वृक्षाणां मध्ये स्थानं कल्पयित्वा रागिधान्यं वर्धयन्ति । वंशेन कुटीरं निर्माय निवसन्ति । एतेषां वासस्थानं ‘हाडि’ इति वदन्ति । एते प्रधानतया मधुनिष्कासयन्ति इत्यनेन एतान् ‘जेनुकुरुबाः’ (कन्नडभाषया जेनु नाम मधु इति अर्थः)इति निर्दिशन्ति ।

"https://sa.bharatpedia.org/index.php?title=जेनुकुरुबजनाङ्गः&oldid=4285" इत्यस्माद् प्रतिप्राप्तम्