जीवगोस्वामी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox philosopher जीवगोस्वामी (१५१३-१५९८), रूपगोस्वामिनः सनातनगोस्वामिनश्च भ्रातुष्पुत्रः आसीत्। तेन रचिताः ग्रन्थाः तावत्- हरिनामामृतव्याकरणम्, गोपालचम्पू, धातुसूत्रमालिका, माधवमहोत्सवः ,संकल्पद्रुमः ,सारसंग्रहः , उज्ज्वलनीलमणिः , गोपालतापनी इत्यादयः। किञ्च तेन भागवतस्य टीका अपि विरचिता। स मालदाजनपदस्य रामकेलिनामके ग्रामे जनिं लेभे। स आसीत् रूपगोस्वामिनः सनातनगोस्वामिनश्च भ्रातुष्पुत्रः। एतौ वैष्णवभ्रातरौ वैष्णवेषु ज्ञानिषु बहुसमादृतौ वर्तेते। रूपसनातनयोः भ्राता जीवगोस्वामिनः पिता च आसीत् श्रीवल्लभमल्लिकः। स अनुपम इति नाम्ना अपि प्रसिद्धः आसीत्। एते त्रय अपि भ्रातरः रूपसनातनानुपमाः नवाब्-आलावुद्दिन्-हुसेन-साह-इत्यस्य राजसभायां उच्चपदाधिकारिनः आसन्। काश्यां मधूसुदनवाचस्पतिनः सान्निद्ध्य्येन बहुविधशास्त्राध्ययनम् अकरोत्। तत्रैव रूपगोस्वामी जीवगोस्वामिनं दीक्षितमकरोत्। तस्यैव रूपगोस्वामिनः साहाय्येन जीवगोस्वामी ज्ञानसाधनायां उत्कर्षतामगात्। बाल्यकालादेव तस्य श्रीचैतन्यमहाप्रभुं प्रति महान् अनुरक्तः आसीत्, दीक्षाग्रहणानन्तरं तस्य अनुरागः इतोऽपि वृद्धिं गतः। "श्रूयते यत् मीरा भक्तशिरोमणेः जीवगोस्वामिनः दर्शनार्थं वृन्दावनं गता आसीत्। गोस्वामी स्त्रीदर्शनं न करोति स्म। अतः सः न्यवेदयत् यत् "अहं स्त्रीदर्शनं परित्यक्तवान् अस्मि" इति। मीरा प्रत्यवदत् -"वृन्दावने श्रीकृष्णः एव पुरुषः वर्तते" इति। मीराया मार्मिकमिदं वचनं श्रुत्वा जीवगोस्वामी सस्नेहं मीराममिलत्। एतस्याः कथायाः उल्लेखः प्रियदासस्य पद्ये लभ्यते- ‘वृन्दावन आई जीव गुसाई जू सो मिले झिली, तिया मुख देखबे का पन लै छुटायो’।" इति।

"https://sa.bharatpedia.org/index.php?title=जीवगोस्वामी&oldid=7203" इत्यस्माद् प्रतिप्राप्तम्