जळगावमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

राममन्दिरम्
कदलीफलसस्यानि

जळगावमण्डलं(फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं जळगाव इत्येतन्नगरम् । जळगावमण्डलं कदलीफल-उपस्कर (spices)-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्वनाम । महाराष्ट्र्रराज्यस्य साहित्यक्षेत्रे श्रुतनामिकायाः कवयित्री बहिणाबाई इत्येतस्याः जन्मस्थानमिदम् ।

भौगोलिकम्

जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि बुलढाणामण्डलं, पश्चिमदिशि धुळेमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि जालनामण्डलम् अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्ती मुख्यनदी तापी

ऐतिहासिकं किञ्चित्

पुरा मण्डलेऽस्मिन् मौर्य-सातवाहन-कुषाण-वाकाटक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले मोघल-मराठा-आङ्ग्लशासकानाम् आधिपत्यमासीत् । स्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्यः उपमण्डलेभ्यः जनानां सहभागः महत्त्वपूर्णः आसीत् । धनाजी चौधरी इत्यनेन रक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भागः गृहीतः । 'फैजपुर काङ्ग्रेस' नामकम् ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नैः अत्रैव सञ्चालितम् ।

कृषिः उद्यमाश्च

यवनालः(ज्वारी), बाजरी, गोधूमः, कार्पासः, लशुनं, मरीचिका, द्विदलसस्यानि(pulses), सम्बारपदार्थाः(spices), कदलीफलं, कलायः, चणकः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । कार्पासः तु अस्य मण्डलस्य अर्थव्यवस्थायाः महत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षाः(साग), हरिद्रा, 'शिसव' इति काष्ठप्रकारः, खदिर इत्यादयः वृक्षप्रकाराः सन्ति । वस्त्रोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, मुद्रणोद्यमाः इत्यादयः प्रचलन्ति ।

जनसङ्ख्या

जळगावमण्डलस्य जनसङ्ख्या(२०११) ३६,७९,९३६ अस्ति । अस्मिन् २१,९७,३६५ पुरुषाः, २०,३५,५५२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२२ अस्ति । अत्र साक्षरता ७९.७३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-

१ चाळीसगाव
२ भडगाव
३ पाचोरा
४ जामनेर
५ पारोळा
६ एरण्डोल
७ धरणगाव
जळगाव
९ भुसावळ
१० मुक्ताईनगर
११ अमळनेर
१२ चोपडा
१३ यावल
१४ रावेर
१५ बोदवड

लोकजीवनम्

मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जनाः वदन्ति । अस्यां भाषायां साहित्यनिर्मितिः अपि भवति । मण्डलेऽस्मिन् निवसन्तः जनाः उत्सवप्रियाः । लेवा-पाटीदार-समाजः अस्मिन् मण्डले बहुसङ्ख्यः दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादयः आदिवासिजनजातयः सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जातेः प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'आखाजी' उत्सवः, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जनाः आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेषेषु गीतेषु महिलाः आत्मनिवेदनं कुर्वन्ति ।

व्यक्तिविशेषाः

मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी-कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् ।

वीक्षणीयस्थलानि

जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • श्री-पद्मालयः
  • एरण्डोल, पारोळा इत्यत्र राज्ञी लक्ष्मीबाई इत्यस्याः भूमिकोटः
  • सन्त-सखाराम-महाराजस्य समाधिस्थानम्
  • तत्त्वज्ञान-मन्दिरम्
  • पाण्डववाडा, एरण्डोल इत्यत्र पर्शियन शिलालेखः
  • उनपदेव, सुनपदेव, नाझरदेव च इत्येतेषु स्थानेषु उष्णजलकुण्डानि
  • पाल इत्यत्र मनुदेवी
  • ओङ्कारेश्वरमन्दिरम्
  • सन्त-मुक्ताबाई मन्दिरम्
  • सन्त-चाङ्गदेव मन्दिरम्

बाह्यसम्पर्कतन्तुः

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=जळगावमण्डलम्&oldid=10682" इत्यस्माद् प्रतिप्राप्तम्