जलकूर्दनक्रीडा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox sport

फलकम्:Prettyurl

जलकूर्दनक्रीडा (Diving)

सन्तरण्स्यैवैका सहयोगिनी क्रिया 'जलकूर्दन’सम्बन्धिनी विद्यते । परमस्या अपि क्रियायाः स्वतन्त्रं महत्त्वं विज्ञाय पृथग् विकासो विहितः । जले कूर्दनाय द्वौ वुधी स्तः ।

१ उच्चभागात् कूर्दनं तथा
२ विविधप्रक्रियाभिः कूर्दनम् ।

कूर्दकाः सन्तरणावदेव वस्त्राणि धारयन्ति । सरसीनां (स्विमिंग पूल्) तटे कूर्दनायोन्नतानि साधनानि निर्मीयन्ते तत्र च स्वयमुच्छालकाः (स्पिंग्युक्ताः) काष्ठपट्टाः नियोज्यन्ते । उच्चतामानेन कूर्दनस्तरावधारणं तथा वैशिष्टयनिर्णयः क्रियते। भिन्न -भिन्नाभ्यः पद्दतिभ्यः कूर्दका जले पतन्ति । यथा -

१ जलेच्छालकं पतनम्
२ विपरीतपतनम्
३ मत्स्याकृत्या पतनम्
४ ह्स्तौ पादौ च् बद्धवा पतनम्
५ प्रलम्बहस्तपादवता पतनम्
६ केवलं हस्तबन्धनेन पादबन्धनेन वा पतनमिति कूर्दनकलायां प्रदर्श्य क्रीडकाः कार्यकौशलं दर्शयन्ति । यः सर्वाधिकानङ्कानावर्जयति स विजयते ।

आधारः

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=जलकूर्दनक्रीडा&oldid=6997" इत्यस्माद् प्रतिप्राप्तम्