जरामरणमोक्षाय...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥

पदच्छेदः

जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मं कर्म च आखिलम् ॥ २९ ॥

अन्वयः

ये माम् आश्रित्य जरामरणमोक्षाय यतन्ति ते तत् ब्रह्म कृत्स्नम् अध्यात्मम् अखिलं च कर्म विदुः ।

शब्दार्थः

ये = ये मानवाः
जरामरणमोक्षाय = जरामृत्युहानाय
माम् आश्रित्य = माम् अवलम्ब्य
यतन्ति = यतन्ते
ते = ते मानवाः
तत् ब्रह्म = प्रसिद्धं परमात्मानम्
कृत्स्नम् = समग्रम्
अध्यात्मम् = आत्मविषयम्
अखिलम् = समस्तम्
कर्म च = कर्तव्यं च
विदुः = जानन्ति ।

अर्थः

ये मानवाः माम् अवलम्ब्य जरामरणविमोक्षाय प्रयतन्ते ते मानवाः तत् परब्रह्म जानन्ति तथा समग्रम् आत्मविषयं कर्तव्यं च जानन्ति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=जरामरणमोक्षाय...&oldid=4148" इत्यस्माद् प्रतिप्राप्तम्