जयपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Jaipur Montage.png

जयपुरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जयपुरम् इत्येतत् नगरम् ।

भौगोलिकम्

जयपुरमण्डलस्य विस्तारः ११,१५२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे अलवरमण्डलं, दौसामण्डलं च , पश्चिमे अजमेरमण्डलम्, उत्तरे सीकरमण्डलं, दक्षिणे टोङ्कमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जयपुरमण्डलस्य जनसङ्ख्या ६६,६३,९७१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.९१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०९ अस्ति । अत्र साक्षरता ७६.४४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि-

  • जयपुर
  • आमेर
  • बस्सी
  • चक्षु
  • चोमू
  • मोजमबाद
  • जमवा रामगढ
  • फागी
  • फुलेरा
  • कोतपुतली
  • सङ्गनेर
  • शाहपुर
  • विराटनगर
Amberfort13.jpg

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हवा महल
  • जन्तर मन्तर
  • गोविन्द देवजी मन्दिरम्
  • सरगासूली
  • रामनिवास उद्यानवनम्
  • भद्रकालीमन्दिरम्
  • आमेर किला
  • जयगढ किला
  • सिटी पैलेस
  • रामबाग विशिप

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=जयपुरमण्डलम्&oldid=1072" इत्यस्माद् प्रतिप्राप्तम्