जयतीर्थः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


जयतीर्थः (१३६५-१३८८)भरतवर्षस्य कर्णाटाकराज्यस्य गुल्बर्गामण्डलस्य वृष्टिखेट(ಮಳಖೇಡ)ग्रामे जन्म प्राप्तवान् । अस्य पिता रघुनाथः माता साकुभायि। अस्य पूर्वाश्रमस्य नाम धोंडोपन्त देशपाण्डे इति । अयम् अक्षोभ्यतीर्थात् संन्यासदीक्षां प्राप्तवान् । स्वयं विद्वान् एषः मध्वाचार्यस्य सर्वेषां ग्रन्थानां टीकां विरचय्य 'टीकाचार्यः' इत्येव प्रसिद्धः।

जीवनम्

रघुनाथनामकस्य कस्यचित् धनिकब्राह्मणस्य पुत्रः धोण्डोपन्तः बाल्ये एव नानाविद्यासु चतुरः आसीत् । अष्टमवर्षे उपनयनादिसंस्कारेण गुरुकुले प्रथमं नानाशस्त्रास्त्र नैपुण्यम् अवाप तदनन्तरं यौवने प्राप्ते सति कन्याद्वयेन विवाहभाग्यमपि अवाप । एवं पञ्चविंशतितमे वर्षे एकदा अश्वारोहेण विहाराथे । वने गते सति मार्गमध्ये सूर्यातापेन अतितृष्णः सन् समीपस्य "भीमरथी" नदीं गत्वा तत्र अश्ववाही एषः मुखेनैव जलं पिबति । तं दृष्ट्वा तटे स्थिताः- श्रीमध्वाचार्याणां साक्षात् शिष्याः श्रीमदक्षोभतीर्थाः तं प्रति "भोः किं पशु पूर्वदेहे" इत्युक्तवन्तः । तदा तत्क्षणे एव धोण्डोपन्त पूर्वजन्मनि वृषभरूपेण- श्री मध्वाचार्याणां समीपं श्रुतान् समस्तान् पाठान् एवं पूर्वजन्मवृतान्तं समस्तम् अस्मरत् । तदैव सर्वं परित्यज्य श्रीमदक्षोभ्यतीर्थे श्रीपादानां समीपं गत्वा तुरीयाश्रमं यत्याश्रमं दातुं प्रार्थितः तथैव यत्याश्रमं स्वीकृतः ।( तदनन्तरं तत्रैव अक्षोभ्यतीर्थानां सविधे पुनः नानाशास्त्रेषु नैपुण्यं सम्पाद्य विशेषतः - मध्वशास्त्रस्थं नैपुण्यं प्राप्तवन्तः ।

एवम् अक्षोभ्यतीर्थात् संन्यासदीक्षां स्वीकृत्य जयतीर्थः इति नाम प्राप्नोति । तदनन्तरं दुर्गायाः अनुग्रहेण लेखनादीन् स्वीकृत्य मध्वाचार्यस्य ग्रन्थानां टीकां विरचयति । तत एव ते टीकाचार्यः इति प्रसिद्धः । टीकाचार्यस्य टीकां विना मध्वाचार्यस्य ग्रन्थान् अध्येतुं न शक्यते एव इति इदानीन्तनविद्यार्थिनाम् आशयः । एवं रीत्या एषः २२वर्षं मध्वपीठे व्यराजत ।

इहलोकत्यागः

कालः -आषाडमासः, शुद्धपञ्चमी
स्थलविषये । गुल्बर्गामण्डलस्य वृष्टिखेट(ಮಳಖೇಡ) ग्रामे ।

कृतयः

स्वतन्त्रग्रन्थाः प्रमाणपद्धतिः, वादावली, पद्यमाला,

टीकाग्रन्थाः तत्वसंख्यानटीका, तत्वविवेकटीका, तत्वोद्योतटीका, विष्णुतत्वनिर्णयटीका, मायावादखंडनटीका, प्रपंचमिथ्यात्वानुमानखंडनटीका, उपाधिखंडनटीका, प्रमाणलक्षणटीका, कथालक्षणटीका, कर्मनिर्णयटीका, तत्वप्रकाशिका, न्यायसुधा, न्यायविवरणटीका, षट्प्रश्नोपनिषद्भाष्यटीका, ईषोपनिषद्भाष्यटीका, ऋग्भाष्यटीका, गीताभाष्यप्रमेयदीपिका, गीतातात्पर्यन्यायदीपिका,

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=जयतीर्थः&oldid=3960" इत्यस्माद् प्रतिप्राप्तम्