जबलपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

जबलपुरम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतन्नगरं मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतस्य जबलपुरमण्डलस्य केन्द्रम् अस्ति । जबलपुर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं नर्मदानद्याः उत्तरभागे स्थितम् अस्ति । इदं नगरं परितः सरोवराः, मन्दिराणि च सन्ति । अस्मिन् नगरे उच्चन्यायालयः अपि अस्ति । जबलपुर-महानगरे साक्षरतायाः, संस्कृतेः, सामाजिकस्य, राजनीतेः इत्यादीनां प्राचीना परम्परा प्रचलति । नगरमिदं आङ्ग्लं, हिन्दी, उर्दू इत्यादीनां भाषाणां लेखकानां, प्रकाशकानां, मुद्रकानां च आवासस्थलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जबलपुर-महानगरस्य जनसङ्ख्या १२,६७,५६४ अस्ति । अत्र ६,६३,०९६ पुरुषाः, ६,०४,४६८ महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु जबलपुर-महानगरस्य अष्टत्रिंशत्(३८)क्रमाङ्कः अस्ति । अत्र साक्षरता ८९.१३% अस्ति ।

भौगोलिकी स्थितिः

जबलपुरनगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३º १० उ., ७९º ५६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४१२ मी. अस्ति । इदं नगरं नर्मदानद्याः तटे स्थितम् अस्ति । अस्य नगरस्य एकस्मिन् भागे विन्ध्यपर्वतशृङ्खला अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ८ ºC भवति । अस्मिन् नगरे मार्च-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४२ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अत्र सामान्यतः ३५ इन्च(inch) स्तरं यावत् वर्षा भवति ।

इतिहासः

पुराणानुसारम् अस्य नगरस्य नाम जाबालिऋषेः नामोपरि अभवत् । जाबालिऋषिः अत्रैव निवसति स्म । पुरा अस्य नगरस्य नाम जाबालिपुरम् आसीत् । किन्तु अपभ्रंशकारणात् जबलपुरम् इत्यभवत् ।

१७८१ परम् अत्र मराठा-शासकानाम् आधिपत्यमासीत् । इदं नगरं मराठा-शासनस्य मुख्यालयः आसीत् । ततः परम् इदं नगरं मध्यप्रदेशराज्यस्य सागरविभागस्य नर्मदाविभागस्य च मुख्यालयः अभवत् । अत्र १८६४ तमे वर्षे नगरपालिकायाः निर्माणम् अभवत् । अस्य नगरस्य एकस्मिन् पर्वतक्षेत्रे मदन महल अस्ति । अस्य भवनस्य निर्माणं ११०० तमे वर्षे राज्ञा मदन सिंह इत्यनेन कारितम् । इदम् एकं प्राचीनं गोण्ड-शासनकालीनं भवनम् अस्ति । अस्य भवनस्य पश्चिमे एकं नगरम् अस्ति यत् चतुर्दशतमायां शताब्द्यां चतुर्णां स्वतन्त्रगोण्ड-राज्यानां प्रमुखं नगरमासीत् ।

भेडाघाट, ग्वारीघाट, जबलपुरम् इत्यादिभ्यः स्थानेभ्यः जीवाश्मनः प्राप्यन्ते । अतः इदं नगरं प्रागैतिहासिककालस्य पुरापाषाणकालीनानां मनुष्याणां निवासस्थानमासीत् इति स्पष्टं भवति । अस्य नगरस्य मदन महल, सरोवराः, मन्दिराणि च प्राचीनानि सन्ति ।

कृषिः वाणिज्यं च

अस्मिन् नगरे अग्निशस्त्राणां (Gun) केन्द्रिययन्त्रागारः, शस्त्रागारः च अस्ति । अस्मिन् नगरे सस्योत्पादनम् अधिकमात्रायां भवति । अस्य नगरस्य समीपस्थे क्षेत्रे पश्चिमतटे एका उर्वरा भूमिः वर्तते । तत्र गोधूमस्य कृषिः भवति । तण्डुलाः, गोधूमः, चणकः इत्यादयः प्रमुखानि सस्योत्पादनानि सन्ति । अत्र लौहः, चूर्णपाषाणः, फेल्सपार्, मैङ्गनीज़् इत्यादीनाम् अधिकमात्रायां खननं भवति ।

जबलपुर-नगरस्य शैक्षणिकसंस्थानानि

  • जवाहरलाल नेहरू कृषि विश्वविद्यालय
  • रानी दुर्गावती विश्वविद्यालय
  • एम. पी. भोज मुक्त विश्वविद्यालय
  • कॉलेज ऑफ एग्रिकल्चर एञ्जिनियरिङ्ग्
  • फेकल्टी ऑफ् मेनेज्मेण्ट् स्टडीज़् कॉलेज ऑफ मटीरियल मेनेजमेण्ट
  • जी.एस. कॉलेज ऑफ कॉमर्स एण्ड इकोनॉमिक्स्

वीक्षणीयस्थलानि

मदन महल

मदन महल

मदन महल नामकं दुर्गं जबलपुर-नगरात् २ कि. मी. दूरे स्थितमस्ति । कलचुरी-शासनानन्तरं जबलपुर-नगरे गोण्ड-शासकाः आगतवन्तः । अस्य दुर्गस्य निर्माणं गोण्ड-शासकेन मदन सिंह इत्याख्येन कारितम् । इदं दुर्गं गोण्ड-शासनकालस्य साक्षी अस्ति । इदं दुर्गम् एकस्मिन् लघुशैले स्थितमस्ति । अस्मिन् दुर्गे शाही-वंशस्य मुख्यकक्षः, लघुजलाशयः च अस्ति । मदन महल इत्येतत् दुर्गं भारतस्य आकर्षकेषु प्राचीनस्मारकेषु अन्यतमम् अस्ति ।

रानी दुर्गावती-सङ्ग्रहालयः

रानी दुर्गावती-सङ्ग्रहालयः जबलपुर-महानगरे स्थितः अस्ति । मध्यप्रदेशराज्यस्य प्रसिद्धेषु सङ्ग्रहालयेषु अयम् अन्यतमः अस्ति । अस्य सङ्ग्रहालयस्य निर्माणं १९६४ तमे वर्षे जातम् । अयं सङ्ग्रहालयः गोण्ड-वंशस्य राज्ञ्याः दुर्गावत्याः स्मृतौ निर्मापितः । अस्मिन् सङ्ग्रहालये मूर्तीनां, शिलालेखानाम्, ऐतिहासिकीनां सांस्कृतिकीनां च कलाकृतीनां विशालसङ्ग्रहः अस्ति । अस्मिन् सङ्ग्रहालये दुर्गादेव्याः पाषाणनिर्मिता मूर्तिः अपि अस्ति । सङ्ग्रहालयेऽस्मिन् महात्मा गान्धी इत्याख्यस्य चित्राणि सन्ति । अस्मिन् सङ्ग्राहलये प्राचीनावशेषाः, अभिलेखाः, मुद्रणानि च सन्ति ।

भेडाघाट

इदं स्थलं जबलपुरमण्डले स्थितमस्ति । इदम् एकं रमणीयस्थलमस्ति । अस्य स्थलस्य समीपे चतुष्षष्ठियोगिनी-मन्दिरमपि अस्ति । धुआधार-जलप्रपातः अपि भेडाघाट इत्यस्य समीपे अस्ति । अत्र नर्मदानदी प्रवहति ।

गुप्तेश्वर-मन्दिरम्

अस्य मन्दिरस्य निर्माणम् १२५ वर्षपूर्वम् अभवत् । इदं मन्दिरं जबलपुर-महानगरस्य मध्ये स्थितमस्ति । अस्य मन्दिरस्य निर्माणं गल्ला मण्डी इत्यस्य व्यापारिभिः कारितम् । मन्दिरेऽस्मिन् प्राचीनकलाकृतयः सन्ति । अस्य मन्दिरस्य मान्यता अस्ति यत् यः कोऽपि जनः देव्याः अन्नपूर्णायाः आराधनां कृत्वा मन्दिरं गच्छति चेत् सः सदैव धनधान्यैः परिपूर्णः भवति ।

अन्यानि वीक्षणीयस्थलानि -

  • त्रिपुर सुन्दरी मन्दिरम्
  • बाजना मठ
  • तिलवारा घाट
  • जिलहरी घाट
  • ग्वारी घाट
  • खारी घाट
  • लम्हेट घाट

जबलपुर-नगरस्य प्रसिद्धाः व्यक्तयः

  • भवानी प्रसाद तिवारी
  • हरिशङ्कर परसाई
  • महर्षि महेश योगी
  • सुभद्रा कुमारी चौहान
  • द्वारका प्रसाद मिश्र
  • आचार्य रजनीश
  • ब्रजेश मिश्र
  • भूपेन्द्र नाथ कौशिक
  • प्रेमनाथ
  • राजिन्दर नाथ

मार्गाः

वायुमार्गः

जबलपुर-महानगरे डुमना-विमानस्थानकम् अस्ति । भारतस्य बहुभ्यः नगरेभ्यः वायुयानेन जबलपुर-नगरं प्रति विमानयानानि सन्ति ।

धूमशकटमार्गः

जबलपुर-महानगरे ’पश्चिम मध्य रेल्वे’ इत्यस्य मुख्यालयः अस्ति । मुम्बई, देहली, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, बेङ्गळूरु, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः जबलपुर-नगरं प्रति रेलयानानि सन्ति ।

भूमार्गः

जबलपुर-महानगरं राष्ट्रियराजमार्गेण सह संयुक्तम् अस्ति । अतः वाराणसी, लखनऊ, कानपुर, भोपाल, इन्दौर, लुधियाना, नागपुर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण जबलपुर-नगराय बस्-यानानि प्राप्यन्ते ।


बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://hi.bharatdiscovery.org/india/%E0%A4%9C%E0%A4%AC%E0%A4%B2%E0%A4%AA%E0%A5%81%E0%A4%B0
http://www.census2011.co.in/census/city/307-jabalpur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=जबलपुरम्&oldid=1061" इत्यस्माद् प्रतिप्राप्तम्