छतरपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

छतरपुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति छतरपुरम् इति नगरम् ।

भौगोलिकम्

छतरपुरमण्डलस्य विस्तारः ८,६८७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे पन्नामण्डलं, पश्चिमे टीकमगढमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे दमोहमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं छतरपुरमण्डलस्य जनसङ्ख्या १७,६२,३७५ अस्ति । अत्र ९,३६,१२१ पुरुषाः, ८,२६,२५४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.५१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८३ अस्ति । अत्र साक्षरता ६३.७४% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- छतरपुरम्, राजनगर, बिजावर, घुवाडा, बुक्शवाह, बडामल्हेडा, नवगङ्ग, महाराजपुर, लौन्दी, गौरीहाड, चन्दला ।

कृषिः वाणिज्यं च

गोधूमः, ’जवार’ अस्य मण्डलस्य मुख्योत्पादनानि सन्ति । वरदारुः, महुवा, जम्बूफलम् इत्येषाम् अपि अत्र व्यापारः अधिकतया भवति ।

वीक्षणीयस्थलानि

चित्रगुप्त-मन्दिरम्

चित्रगुप्तमन्दिरे भगवतः सूर्यस्य प्रकाशः उदयकाले साक्षात् गर्भगृहं प्रविशति । गर्भगृहे भगवतः सूर्यस्य चित्रं भव्यम् अस्ति । इदं पञ्च-मीटर-परिमितं चित्रम् अस्ति । अस्मिन् चित्रे एकः अश्वरथः अस्ति । अस्मिन् चित्रे चन्देलन्यायालयानां भव्यजीवनशैली, व्याधकला, राजकीयशोभायात्रा च प्रदर्शिता अस्ति ।

विश्वनाथ-मन्दिरम्

विश्वनाथ-मन्दिरे भगवतः चतुर्मुखब्रह्मणः त्रिमुखिप्रतिमा अस्ति । अस्य मन्दिरस्य समक्षे एकस्य वृषभस्य मूर्तिः अस्ति ।

लक्ष्मण-मन्दिरम्

लक्ष्मण-मन्दिरस्य अपरं नाम वैष्णवमन्दिरम् अस्ति । अस्य मन्दिरस्य प्रवेशद्वारे लक्ष्म्या सह त्रिमूर्तीनां ब्रह्माविष्णुमहेशानां प्रतिमाः सन्ति । अस्य मन्दिरस्य गर्भगृहे विष्ण्ववतारयोः नरसिंहवराहयोः मूर्ती अपि स्तः ।

मातङ्गेश्वर-मन्दिरम्

मातङ्गेश्वर-मन्दिरे भगवतः शिवस्य लिङ्गम् अस्ति । अस्य लिङ्गस्य औन्नत्यं ८ फीट परिमितम् अस्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://chhatarpur.nic.in/
http://www.census2011.co.in/census/district/292-chhattarpur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=छतरपुरमण्डलम्&oldid=8497" इत्यस्माद् प्रतिप्राप्तम्