च्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

च् कारः
उच्चारण्म्

अस्य उच्चारणस्थानं तालु अस्ति । एषः चवर्गस्य प्रथमः वर्णः अस्ति । अल्पप्राणवर्णः अस्ति । "कादयो मावसानाः स्पर्शाः " ’ऋटुरषाणां मूर्धा" -सि० कौ०

अर्थ

  1. चन्द्रः- चीयते किरणैः- चिञ्(चयने) "डः" (३-२-१०१)।
  2. कूर्मः-चिनोति अङ्गम्।
  3. शिवः
  4. चर्वणम्
  5. चोरः- चिनोति परधनम् ।
    चश्चण्डदेशे पुमानुक्तः कच्छापे चन्द्रचोरयोः" मेदि) (वि०) ६
  6. नीचः
  7. पादपूरणे(चकारः पादपूरणे उपयुज्यते तदा एषः चकारःअव्ययम् भवति) अश्वं नैव गजं नैव ब्याघ्रं नैव च नैव च "।
  8. अवधारणम् - "ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः " रघु० १२-४५।
  9. हेतुः
  10. समुच्चयः" समुच्चयान्वाचयेरतेतरयोगसमाहाराश्चार्थाः " । (१) परस्परनिरपेक्षस्यानेकस्य एकस्मिन् अन्वयः समुच्चयः। "ईश्वरं गुरुं च भजस्व "। "तौ गुरुर्गुरपत्नी च प्रीत्या प्रतिननन्दतुः " रघु०१-५७।
  11. अन्वाचयः-(२) अन्यतरस्यानुषङ्गिकत्वेनान्वयः अन्वाचयः"। "भिक्षामट गाञ्चानय " अत्र भिक्षाप्रधानम् गवानयनरूपा अप्रधानक्रिया ।गोपदस्य आनुषङ्गिकत्वमुक्तम् अतः अन्वाचयः
  12. इतरेतरयोगः-(३)" मिलितानामन्वये इतरेतरयोगः" । परस्परापेक्षितानामेक्समिन् क्रियाप्दए अन्व्यः यत्र तत्र इतरेतरयोगः। " हरिश्च हरश्च मुकुन्दश्च हरिहरमुकुन्दाः"अत्र परस्परसाहचर्यं चकारस्य अर्थः।
  13. समाहारः-संज्ञा च परिभाषा च अनयोः समाहारः संज्ञापरिभाषम् ।
  14. पक्षान्तरम्
  15. विरोधः-"शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य" शाकु० १-१६ । "चान्वये समाहारेऽप्यन्योन्यार्थे समुच्चये । पक्षान्तरे तथा पादपूरणेऽप्यवधारणे " मेदि०।
"https://sa.bharatpedia.org/index.php?title=च्&oldid=615" इत्यस्माद् प्रतिप्राप्तम्