चौधरी चरणसिंह

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु

फलकम्:Infobox officeholder

साधना

सा.श.१९३७ तमे वर्षे फ़ेब्रवरी मासे उत्तरप्रदेशराज्यसभानिर्वचने स्पर्धयित्वा जयं प्राप्तवान् । सा.श.१९३८ तमे वर्षे व्यवसायोत्पन्नविपणीनाम् अधिनियमं राज्यसभायां प्रस्तुतवान् । एषः अधिनियमः सा.श.१९३८ तमे वर्षे मार्चमासस्य ३१ दिनाङ्के देहल्याः हिन्दुस्थानटाइम्स् पत्रिकायां प्रकाशितः । सा.श.१९४० तमे वर्षे ऐदम्प्राथम्येन पञ्जाबराज्ये अन्यराज्येषु च अपि अनुष्ठितम्म् । सा.श.१९५२ तमे वर्षे उत्तरप्रदेशस्य राज्यसभानिर्वाचने जयं प्राप्तवान् एषः करविभागस्य मन्त्री अभवत् । तस्मिन्‌ काले भूस्वामित्वपद्धतिः आसीत् । भूस्वामितायाः पद्धतिं स्थगितवान् तथैव भूसुधारणानियमस्य अनुष्ठानं कर्तुं प्रयत्नं कृतवान् । चौधरीचरणसिंहः तस्य कालस्य प्रधानिना जवाहरलालमहोदयेन यथा उक्तम् आसीत् तथा सोवियतसङ्घरीत्या आर्थिकप्रगतेः मण्डनं कृतवान् ।किन्तु स्वयं कृषिकस्य पुत्रः एषः यः भूम्यां कृषिं करोति सः एव भूस्वामी भवेत् इति विश्वसिति स्म । तस्मिन् काले जवाहरलालनेहरूमहोदयस्य अभिप्रायं कोऽपि न आक्षिपति स्म । अतः चौधरी चरणसिंहः सा.श.१९६७ तमे वर्षे काङ्ग्रेस् पक्षं त्यक्तवान् । सा.श.१९६७ तः सा.श.१९७० पर्यन्तम् उत्तरप्रदेशस्य अल्पकालीनमुख्यमन्त्री आसीत् ।

प्रधानमन्त्री चरणसिंहः

१९७७ तमे वर्षे यदा काङ्ग्रेस्पक्षः अतिहीनपराजयं प्राप्नोत् तदनन्तरं जनतापक्षस्य सर्वकारः रचितः । जनतापक्षस्य मित्रपक्षेषु अन्यतमस्य भारतीयलोकदलपक्षस्य नायकः चौधरी चरणसिंहः तदा प्रधानमन्त्री भवितुम् योग्यः आसीत् । किन्तु जयप्रकाशनारायणः मोरारजी देसायीवर्यं प्रधानमन्त्रिरूपेण चितवान् । किन्तु जनतापक्षस्य आन्तरिककलहकारणतः मोरार्जी महोदयः १९७९ तमे वर्षे त्यागपत्रं दत्तवान् । श्रीमत्याः इन्दिरागान्ध्याः सूचनानुसारेण चौधरी चरणसिंहः जनतापक्षाय दत्तं सहकारं प्रतिस्वीकृत्य काङ्ग्रेस्पक्षं प्रति दत्तवान् । अतः १९७९ तमे वर्षे जुलै २८ दिनाङ्के एषः ६४ जनानां लोकसभासदस्यानां सहयोगेन भारतस्य पञ्चमः प्रधानमन्त्री अभवत् ।

चौधरी चरणसिंहः महत्या आकाङ्क्षया प्रधानमन्त्री स्थानं प्राप्तवानासीत् । प्रधानमन्त्री सन् इतोऽपि एकं लोकसभाकलापमपि न कृतवानासीत् । तस्य प्रथम लोकसभाकलापः १९८० तमे वर्षे जनवरीमासस्य १५ दिनाङ्के करणीयः आसीत् । तन्निमित्तं बहु सज्जता अपि प्रचलन्ती आसित् । किन्तु दुर्दैववशात् ततः पूर्वदिने एव श्रीमती इन्दिरागान्ध्याः नेतृत्वस्य काङ्ग्रेस्पक्षः चरणसिंहस्य भारतीयलोकदलपक्षात् सहयोगं प्रतिस्वीकृतवान् । १९८० तमे वर्षे जनवरीमासस्य १४ दिनाङ्के स्पष्टबहुमतं प्रमाणीकर्तुम् अशक्यः एषः पदव्याः कृते त्यागपत्रं दत्तवान् ।

१९८७ तमे दिनाङ्के चरणसिंहस्य मरणानन्तरम् एतस्य पुत्रः अजितसिंहः चरणसिंहेन स्थापितस्य भारतीयलोकदलपक्षस्य नायकः अभवत् । चौधरी चरणसिंहः कृषिकजनानां बहु आत्मीयः आसीत् । अतः नवदेहल्यां विद्यमानस्य तस्य स्मारकं 'किसान् घाट्’ इति निर्दिश्य गौरवं प्रदर्शितवन्तः । उत्तरप्रदेशसर्वकारेण एतस्य स्मरणार्थं मीरट् विश्वविद्यालयस्य चौधरी चरणसिंहविश्वविद्यालयः इति पुनर्नामकरणं कृतम् । फलकम्:भारतस्य प्रधानमन्त्रिक्रमः फलकम्:भारतस्य प्रधानमन्त्रिणः

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=चौधरी_चरणसिंह&oldid=5356" इत्यस्माद् प्रतिप्राप्तम्