चन्द्रालोकः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Underlinked

चन्द्रालोकः (Chandraloka)जयदेवः।जयदेवेन रचितः अलङ्कारग्रन्थः । उपमाद्यलङ्काराणां तद्भेदानां चात्र लक्ष्य-लक्षणानि निरूपितानि सन्ति । प्रबुद्धतया, सरलतया च अत्र विषयाः निरूपिताः । अस्मिन् ग्रन्थे १० मयूखाः सन्ति । अत्र काव्यलक्षणं, गुणाः, दोषाः रसाः, भावाः इत्यादयः विचाराः निरूपिताः । अपि च गौडी, लाटी, पाञ्चाली इति रीतित्रयं, मधुरा,प्रौढा, ललिता, परुषा, भद्रा इति वृत्तिपञ्चकं प्रतिपादितवान् । चन्द्रालोकस्य अर्थालङ्कारभागः अतीवप्रसिद्धो वर्तते ।

प्रस्तुतिः

अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । शब्दार्थयोः चमत्कारसृष्टिरेव अलङ्कारः इत्युच्यते । केचन भणितेः भङ्ग्याश्च वैचित्र्यमेव अलङ्कार इति वदन्ति । एतद् वैचित्र्यम्, औचित्यम् च कवीनां प्रतिभानुसारं नाना विधानि भवन्ति । अतः अलङ्कारभेदा अपि असङ्ख्याः द्रुश्यन्ते । वैदिकसाहित्ये तु उपमा, रूपकम्, दीपकम् इति त्रिविधा अलङ्कारा आसन् । इदानीं १२५ (पञ्चविंशत्युत्तरशतम्) प्रभेदाः परिग्णिताः सन्ति । अलङ्कारा इतोऽपि वर्धेयुः । काव्यस्य जीवातुः रसः । अलङ्काराः काव्यस्य बाह्यशोभादायकाः । माधुर्यादयः गुणाः काव्यस्य आन्तरिकशोभां च जनयन्ति । यद्यपि वृत्यनुप्रासयमकादिभेदैः शब्दालङ्काराः अधिकाः सन्ति, तथापि शब्दालङ्काराः रसास्वादे प्रत्यूहकारिणो भवन्तीत्यतः नवीनाः तान् अपरिहार्यतया नाङ्गीकुर्वन्ति । प्राचीनालङ्कारग्रन्थेषु शब्दालङ्काराणामपि मान्यता दृश्यते ।

प्रसक्तिः

चन्द्राकोकवत् स्पष्टतया हृदयङ्गमम् अलङ्काराणां लक्षणम् उदाहरणानि च नान्येषु क्वापि ग्रन्थेषु दृश्यन्ते । जयदेवस्य भणितिम् सर्वे आलङ्कारिकाः मुखरीकुर्वन्ति । जयदेवः ग्रन्थारम्भे वद्ति यत्-

अलङ्कारेषु बालानाम् अवगाहनसिद्धये ।
ललितः क्रियते तेषां लक्ष्यलक्षणसङ्ग्रहः ॥

एवं अलङ्कारान् शिशिक्षूणां बालानां सुखेन बोधाय समुचितानां ग्रन्थानामभावात् एतादृशमेकं ग्रन्थं ललितया शैल्या निर्ममे जयदेवः । तदनुगुणं ग्रन्थोऽयं अभ्यासालूनां छात्राणां कृते भवति । अत्र अलङ्काराणां लक्ष्य-लक्षणान्येव विषयीभवन्ति । जिज्ञासवः बाला एव अधिकारिणः । अलङ्काराणां ज्ञानमेव प्रयोजनम् । प्रतिपाद्य-प्रतिपादकादिसम्बन्धः ऊहामात्रवेद्यः भवति ।

व्याख्यानम्

चन्द्रालोकनाम्नः अस्य अलङ्कारग्रन्थस्य महामीमांसकः आलङ्कारिकमूर्धनः श्रीमान् अप्पय्यदीक्षितः कुवलयानन्दः नामानं व्याख्यानग्रन्थमेकम् व्यरचयत् ।

फलकम्:Wikisourcecat

"https://sa.bharatpedia.org/index.php?title=चन्द्रालोकः&oldid=9281" इत्यस्माद् प्रतिप्राप्तम्