चन्द्रप्रभुः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox फलकम्:Infobox Jainism चन्द्रप्रभुः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु अष्टमः तीर्थङ्करः अस्ति । भगवतः चन्द्रप्रभोः वर्णः श्वेतः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं चन्द्रः अस्ति ।

कौमारावस्थायां चन्द्रप्रभोः शरीरस्य औन्नत्यं सार्धशतं (१५०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “विजय” इत्याख्यः यक्षः, “भूकुटि” इत्याख्या शासनदेवी च आसीत् ।

जन्म, परिवारश्च

चन्द्रपुरीनाम्न्यां नगर्यां मार्गशीर्ष-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ अनुराधा-नक्षत्रे भगवतः चन्द्रप्रभोः जन्म अभवत् ।

चन्द्रप्रभोः पितुः नाम महासेनः, मातुः नाम लक्ष्मणा च आसीत् । महासेनः चन्द्रपुरीनगर्याः राजा आसीत् । महासेनः श्रेष्ठः राजा आसीत् । तस्य शासनकाले प्रजा सुखेन जीवति स्म । एकदा फाल्गुन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ अनुराधा-नक्षत्रे रात्रौ लक्ष्मणा तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी आनन्दिता जाता ।

आगामिदिवसे राजा स्वप्नशास्त्रिणः आवाहितवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति सूच्यते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।

नवमासानन्तरं भगवतः चन्द्रप्रभोः जन्म अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।

यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानम् अयच्छत् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः बालकाय आशीर्वादः प्रदत्तः ।

पूर्वजन्म

घातकी-खण्डद्वीपे पूर्वविदेहक्षेत्रे मङ्गलावतीविजये रत्नसञ्चया-नगरी आसीत् । तस्याः नगर्याः राजा पद्मनाभः आसीत् । पद्मनाभः एव भगवतः चन्द्रप्रभोः पूर्वजन्म आसीत् । तस्यां नगर्यां साधूनाम् गमनागमनं निरन्तरं भवति स्म । अतः बहवः धर्मगुरवः तस्यां नगर्यां प्रवचनानि कुर्वन्ति स्म ।

धर्मगुरवः जनान् प्रेरयन्ति स्म । तेन जनाः धर्ममार्गे कार्यरताः भवन्ति स्म । राजा अपि युगन्धरमुनेः दीक्षां प्राप्तवान् । ततः परं तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं सः साधनायां रतः अभवत् । तेन साधनायाः तीर्थङ्करगोत्रस्य बन्धनं कृतम् । तस्य सर्वेषां कर्मणां नाशः अभवत् । एकमासं यावत् अनशनं कृत्वा सः स्वर्गलोकं प्रस्थितवान् ।

नामकरणम्

भगवतः चन्द्रप्रभोः जन्मनः एकादशदिनानि अनन्तरं नामकरणसंस्कारस्य विधिः आयोजिता । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् बहवः देवाः समागताः । चतुष्षष्टिभिः इन्द्रैः, लोकान्तिकैः देवैः च अपि उत्सवः आचरितः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । लक्ष्मणा बालकं नीत्वा निश्चितं स्थलं प्रापयत् । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । यथा गगनात् चन्द्रः स्वयमेव आगच्छेत्, तथैव बालकस्य कान्तिः आसीत् । सर्वैः स्वमतानि प्रदत्तानि आसन् ।

गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकाले राज्ञी चन्द्रमसं प्राप्तुम् ऐच्छत् । मया तस्येच्छा अपि पूर्णा कृता आसीत् । बालकस्य शरीरस्य तेजः अपि चन्द्रः इव दृश्यते । अतः अस्य बालकस्य नाम चन्द्रप्रभुः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तद् आरभ्य एषः चन्द्रप्रभुः इति नाम्ना ख्यातः अस्ति ।

विवाहः

चन्द्रप्रभुः त्रिज्ञानधारी (मतिः, श्रुतः, अवधिः) आसीत् । चन्द्रप्रभोः मनसि गुरुकुलीयायाः दीक्षायाः अपेक्षा नासीत् । यतः कोऽपि तीर्थङ्करः गुरुकुले अध्ययनं न करोति । सर्वे तीर्थङ्कराः त्रिज्ञानधारिणः भवन्ति ।

लक्ष्मणया श्रेष्ठतया चन्द्रप्रभोः पालनं कृतम् । समयान्तरे भगवतः चन्द्रप्रभोः बाल्यावस्था, किशोरावस्था च व्यतीता । अनन्तरं राजा महासेनः राजकन्याभिः सह चन्द्रप्रभोः विवाहम् अकारयत् । विवाहानन्तरं राज्ञः महासेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः चन्द्रप्रभोः राज्याभिषेकं कृतवान्, चन्द्रप्रभवे राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं प्रतिष्ठसेनः दीक्षां प्रापत् ।

राज्यम्

चन्द्रप्रभुणा राजपदं प्राप्तम् आसीत् । यथा माता बालकस्य पालनं करोति, तथैव सः अपि राज्यस्य सत्यनिष्ठया पालनं कृतवान् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन चन्द्रप्रभोः राज्ये अपराधिनः अपि न्यूनाः अभवन् । जनैः अपि आन्तरिकविवादाः विस्मृताः ।

प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा चन्द्रप्रभुः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । राज्ये प्रजा सुखी आसीत् ।

राजत्यागः, दीक्षा च

भगवता चन्द्रप्रभुणा चतुर्विंशतिपूर्वाङ्गाधिकं सार्धषड्वर्षाणि यावत् राज्यसञ्चालनम् कृतम् आसीत् । यदा दीक्षायाः समयः ज्ञातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा राज्यस्य तस्मै दायित्वं प्रदत्तम् । अनन्तरं राजा चन्द्रप्रभुः विरागी अभवत् । तस्य मनसि वैराग्यस्य भावना प्रकटिता ।

ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता चन्द्रप्रभुणा वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः स्वभावः शान्तः, तेजस्वि च आसीत् । राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं पूर्णमभवत्, तदा मार्गशीर्ष-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ अनुराधा-नक्षत्रे भगवान् चन्द्रप्रभुः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता चन्द्रप्रभुणा दीक्षा स्वीकृता ।

दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता चन्द्रप्रभुणा राज्ञः सोमदत्तस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं मासत्रयं यावत् भगवान् चन्द्रप्रभुः छद्मस्थः आसीत् । भगवता चन्द्रप्रभुना मासत्रयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।

चन्द्रपुरी-नगर्यां माघ-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ अनुराधा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

अनन्तरं भगवता चन्द्रप्रभुणा प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः चन्द्रप्रभोः प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

धार्मिकः परिवारः

यदा भगवान् चन्द्रप्रभुः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा चन्द्रप्रभुना धार्मिकपरिवारस्य अपि रचना कृता[२]

  1. ९५ गणधराः
  2. ११,००० केवलज्ञानिनः
  3. ९,१५० मनःपर्यवज्ञानिनः
  4. ९,००० अवधिज्ञानिनः
  5. १५,३०० अवैक्रियलब्धिधारिणः
  6. २,०३० चतुर्दशपूर्विणः
  7. ८,४०० चर्चावादिनः
  8. ३,००,००० साधवः
  9. ४,३०,००० साध्व्यः
  10. २,५७,००० श्रावकाः
  11. ४,९३,००० श्राविकाः

निर्वाणम्

यदा भगवान् चन्द्रप्रभुः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः अनशनञ्चकार । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।

तत्पश्चात् अनशनान्ते भाद्रपद-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ श्रवण-नक्षत्रे सम्मेदशिखरे भगवतः चन्द्रप्रभोः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [३]

चन्द्रप्रभुणा कौमारावस्थायां सार्धद्विलक्षवर्षाणां, राज्ये सार्धषड्लक्षवर्षाणां, दीक्षायां चतुर्विंशतिपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने दशलक्षं वर्षाणि भुक्तानि [४]फलकम्:जैनतीर्थङ्करक्रमः फलकम्:जैनतीर्थङ्कराः

सम्बद्धाः लेखाः

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

सन्दर्भाः

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 80
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64
  4. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64
"https://sa.bharatpedia.org/index.php?title=चन्द्रप्रभुः&oldid=8084" इत्यस्माद् प्रतिप्राप्तम्