चन्द्रपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement


चन्द्रपुरमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चन्द्रपुरम् इत्येतन्नगरम् ।

भौगोलिकम्

चन्द्रपुरमण्डलस्य विस्तारः १०,६९० च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि गडचिरोलीमण्डलं, पश्चिमदिशि यवतमाळमण्डलम्, उत्तरदिशि नागपुरमण्डलं, भण्डारामण्डलं, वर्धामण्डलं च, दक्षिणदिशि आन्ध्रप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले वैनगङ्गा, वर्धा, इरई, अन्धारी, पैनगङ्गा इत्येताः प्रमुखनद्यः सन्ति ।

कृषिः

मण्डलेऽस्मिन् ८०% जनाः कृषिक्षेत्रे रताः । तण्डुलः अस्य मण्डलस्य प्रमुखसस्योत्पादनम् । 'सोयाबीन', यवनालः(ज्वारी), कार्पासः, 'तूर' इत्यादीनि अपि अत्र उत्पाद्यन्ते ।

जनसङ्ख्या

चन्द्रपुरमण्डलस्य जनसङ्ख्या(२०११) २०,७१,१०१ अस्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे १९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. १९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५९ अस्ति । अत्र साक्षरता ८१.३५% अस्ति ।

सञ्चिका:Handicraf bambō.jpg
इक्षु-निर्मितानि वस्तूनि
सञ्चिका:Baba 2.jpg
आमटेवर्यः

उपमण्डलानि

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-

  • चन्द्रपुरम्
  • वरोरा
  • भद्रावती
  • चिमुर
  • नागभीड
  • ब्रम्हपूरी
  • सिन्देवाही
  • मूल
  • गोण्डपिम्परी
  • पोम्भुर्णा
  • सावली
  • राजुरा
  • कोरपन
  • जिवती
  • बल्लारपूर

लोकजीवनम्

मण्डलस्य ७३.०७% जनाः ग्रामेषु निवसन्ति, २६.९३% जनाः नगरेषु निवसन्ति । जनाः कृषिकार्ये, गृहोद्योगे, इतरसेवाकार्येषु रताः दृश्यन्ते । खनिजसम्पतिदृष्ट्या मण्डलमिदं समृद्धम् अस्ति, अतः तत्सम्बद्धाः उद्यमाः प्रचलन्ति अत्र । कर्गजोद्यमः, कृष्णाङ्गारस्य आकराः, 'सिमेण्ट्' उद्यमाः प्रचलन्ति । मण्डलस्य वरोराभागे 'आनन्दवन' इति बाबा आमटेवर्याणां सेवाप्रकल्पः प्रचलति । ग्रामीणविभागे हस्तोद्योगाः प्रचलन्ति ।

व्यक्तिविशेषाः

मण्डलमिदं बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलम् वा अस्ति । तेषु केचन सन्ति - महाराष्ट्रभूषण बाबा आमटे, प्रकाश आमटे, विक्रम गोखले, मारुतीराव कण्णम्वार, विलास मुत्तेमवार इत्यादयः ।

सञ्चिका:Tadoba21.gif
ताडोबा अभयारण्ये व्याघ्रः

वीक्षणीयस्थलानि

  • रामाला, जुनोना टेंक
  • महाकालीमातामन्दिरम्
  • घोडाझारी
  • सातवाहिनी
  • ताडोबा-अन्धारी अभयारण्यम्
  • चन्द्रपुर औष्णिक-विद्युत्-उद्यमः

बाह्यसम्पर्कतन्तुः

शासकीय सङ्केतस्थलम् मण्डलप्रशासनस्य सङ्केतस्थलम्

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=चन्द्रपुरमण्डलम्&oldid=7427" इत्यस्माद् प्रतिप्राप्तम्