चण्डेमने-चन्नेकल् जलपातौ

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

चण्डेमने-चन्नेकल् जलपातौकर्णाटकस्य उत्तरकन्नडमण्डलस्य भट्कळोपमण्डले विद्येते । जोगतः भट्कळगमनमार्गे ३८ कि.मी.दूरे एतौ वर्षाकालीनजलपातौ स्तः । मुख्यमार्गतः ८ कि.मी.दूरे अरण्ये क्षीरधारा इव शोभेते । सेप्टेम्बर् मासात् अनन्तरं जलपातः क्षीयते । साहसप्रियाः चारणाः जलपातमूलं कन्दरं च गन्तुं प्रभवन्ति । जोगजलपातं दृष्ट्वा केवलं ४४ की.मी. दूरे प्रकृतिनिर्मितं यमलजलपातं दृष्ट्वा सार्थक्यभावेन निर्गन्तुं शक्यते । वासभोजनादिसौकर्यं सागरपत्तने अथवा भट्कळपत्तने भवति । उभयस्थानं प्रति अपि बेङ्गळूरुतः बस् यानानि प्रतिदिनं सन्ति एव । रेल् यानेन गम्यते चेत् शिवमोग्गा द्वारा सागरं प्रति गन्तव्यम् । भट्कळ, मुरुडेश्वरम्, इडगुञ्जी, श्रीरामचन्द्रापुरम्, कोल्लूरुक्षेत्रम् समीपस्थानि दर्शनीयस्थानानि भवन्ति ।