चण्डीशतकम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement फलकम्:Infobox settlement

फलकम्:Infobox settlement फलकम्:Infobox settlement

संस्कृतवाङ्मये नैकैः कविभिः विविधान् विषयानधिकृत्य विरचितानि शतककाव्यानि बहूनि सन्ति । तादृशेषु शतकेषु, तत्रापि भक्तिरसप्रधानेषु बहुमुख्यम् चण्डीशतकम् । इदम् महाकविना बाणभट्टेन विरचितम् । गद्यकाव्यरचनासु कृतकृत्यः बाणः सच्छन्दोबन्धेष्वपि स्वनैपुणीम् अत्र काव्ये प्रादर्शयत् । हर्षवर्धनस्य आस्थानकविः आसीत् बाणः । अस्मिन् चण्डीशतके स्रग्धराछन्दसि निबद्धानि १०२ पद्यानि सन्ति । महिषासुरमर्दिन्याः चण्डेः स्तुतिः इदम् । दुर्गायाः अनुग्रहाय भक्ताः एतानि स्तोत्राणि गायन्ति । शब्दालङ्कारैः युक्तानि वर्णनानि रम्याणि सन्ति । साक्षात् संवादाः न सन्ति चेदपि पात्राणां मुखतः वाचितानि इत्यतः काव्यमिदं सुशोभते । देवतानां निराकरणं, महिषस्य निन्दनं, शिवस्य सम्बोधनवचनानि चण्डेः मुखतः वाचितानि सन्ति । एतानि सौन्दर्यवर्धकानि सन्ति । महिषः, जया, शिवः, कार्तिकेयः, देवताः, ऋषयः, चण्डेः पादः, पादनखाः च अत्र सम्भाषणं कुर्वन्ति । रूपकस्य छाया दृश्यते । यमकानुप्रासैः मधुरनादस्य अनुरणनम् अनुभूयते ।
भोजस्य सरस्वतीकण्ठाभरणे चण्डीशतकस्य इदं पद्यम् उद्धृतमस्ति । अत्र बाणस्य शैलेः नादमाधुर्यं वर्ननावैखरी च द्रष्टुं शक्या -

विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥

चण्डीशतकस्य धनेश्वरस्य व्याख्यानम् अज्ञातयोः द्वे व्याख्याने च उपलभ्यन्ते ।

इदमपि दृश्यताम्

स्तोत्रकाव्यम्

"https://sa.bharatpedia.org/index.php?title=चण्डीशतकम्&oldid=10080" इत्यस्माद् प्रतिप्राप्तम्