गौतमबुद्धः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person फलकम्:बौद्धधर्मः

बुद्धस्य विग्रहः

निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।

श्रीमद्भागवत्पुराणे बुद्धावतारः कृष्णस्य भविष्यति इति लिखितम्।

तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।

बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति।। (श्री भा 1.3.24)

सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् ।

ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।

एतेषां पालनेनैव सुखं शान्तिश्च भवितुम् अर्हति । महात्मनो बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते, अपि तु चीनजापानलंकादिषु देशेषु लोकप्रियता्म् अलभत ।

भारतीय धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।

सिद्धार्यो महान् सम्राट् व परिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येण वनं गतः । तत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तत्कालीनमात्रं साम्राज्यं त्यक्त्वा आर्तजनानां हृदयसिंहासने शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।

देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।

गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।

बाह्यसम्पर्कतन्तुः

फलकम्:Authority control

"https://sa.bharatpedia.org/index.php?title=गौतमबुद्धः&oldid=3210" इत्यस्माद् प्रतिप्राप्तम्