गौडालुजनाङ्गः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


गौडालुजनाङ्गस्य स्थानानि

चिक्कमगळूरुमण्डलस्य मूडिगेरे, कोप्प, शृङ्गेरी उपमण्डलेषु च एते दृश्यन्ते । अत्र एतेषां जनसङ्ख्या १५-२०सहस्रं यावत् स्यात् इति ऊहा अस्ति । एतेषु सप्तबळि(वंशमूलानि) सन्ति । ‘मृगया’ एतेषाम् मूलवृत्तिः आसीत् । अरण्यप्रदेशे एते वसन्ति इति कारणेन आहारसङ्ग्रहणस्य न्यूनता न भवति स्म ।

सामाजिकी व्यवस्था

विवाहपद्धत्यां दक्षिणादानं प्रधानमासीत् । वरपक्षीयाः वध्वाः गृहं प्रति सपादद्वादशरूप्यकाणि वधूदक्षिणारूपेणा दातव्यानि भवन्ति । पञ्जुर्लि, कोलघाटिदैवानां च आराधकाः सन्ति एते । भूताय वर्षे एकवारं कुक्कुटस्य अथवा वराहस्य बलिं यच्छन्ति । मृगयार्थं गमनात् पूर्वं देवस्य पुजां कृत्वा प्रस्थानम् एतेषां पद्धतिः ।

"https://sa.bharatpedia.org/index.php?title=गौडालुजनाङ्गः&oldid=9677" इत्यस्माद् प्रतिप्राप्तम्