गुरुवायुपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

गुरुवायुपुरम् (मलयाळम्: ഗുരുവായൂർ, गुरुवायूर्; ഗുരുവായുപുരം, गुरुवायुपुरम्)

गुरुवायूरुकृष्णमन्दिरम्

केरळराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।

अमरप्रभोः केशवगजस्य प्रतिमे
"https://sa.bharatpedia.org/index.php?title=गुरुवायुपुरम्&oldid=6680" इत्यस्माद् प्रतिप्राप्तम्