गुब्बि वीरण्ण

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

चलच्चित्राणां कालस्य आगमनात् पूर्वं जनानां मनोरञ्जनकेन्द्राणि नाटकानि एव आसन् । कर्णाटके नाटकरङ्गस्य उन्नत्यै असंख्याकाः परिश्रमं कृतवन्तः सन्ति । तादृशेषु महानुभावेषु अत्यन्तं प्रमुखः अस्ति श्रीगुब्बिवीरण्णः(Gubbiveeranna)। कर्णाटके अत्यन्तं सुपरिचितायाः गुब्बिनाटकसंस्थायाः संस्थापकः आसीत् वीरण्णवर्यः। नटः निर्देशकः पोषकः च एषः समग्रं जीवनं रङ्गभूम्याः निमित्तं एव समर्पितवान् आसीत् । श्रीगुब्बि वीरण्णमहोदयः अनुभवेषु अभिनयेषु च प्रवीणः तथा वयसि अपि ज्येष्ठः इति कारणतः कन्नडवृत्त्तिरुपकरङगस्य पितामहः इति प्रसिद्धः अस्ति ।

जीवनं बाल्यं च

श्रीमतः हम्पण्णस्य श्रीमत्याः रुद्राम्बायाः पुत्रः वीरण्णः ।१८९० तमे वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे वीरण्णस्य जन्म अभवत् । प्राथमिकशालां प्रति गमनसमये एव सः नाटकरङगं प्रविष्टवान्। तदारभ्य तस्य कलासेवा निरन्तरं प्राचलत् । सः बाल्यादारभ्य नाटकमन्डल्याम् अभिनयति स्म ।

नाटकमण्डल्याः आरम्भः

१९१७ तमे वर्षे मण्डल्याः सः एव स्वामी अभवत् । एषा मण्डली एव अग्रे गुब्बि श्रीचेन्नबसवेश्वर- नाटक- मण्डली इति प्रसिद्धा अभवत् । एतस्याः मण्डल्याः द्वारा अनेकेषाम् उत्तमानां कलाविदां निर्माणं कृत्वा देशाय समर्पितवान्।

अभिनेता निर्देशकः च

श्रीवीरण्णमहोदयः उत्तमः हास्यकारः। सदारमे, नाटके चोरस्य पात्रं कृतवान् आसीत् । तत्र तेन कृतं हास्यपूर्णम् अभिनयं दृष्ट्वा जनाः आनन्दम् अनुभवन्ति स्म । सः मूकी –टाकि (सम्भाषणयुतानि, सम्भाषणरहितानि) चित्राणि च सज्जीकृत्य तेषु अभिनयं करोति स्म । श्रीवीरण्णमहोदयस्य इयं नाटकसंस्था ”’गुब्बिकम्पनी’” इत्येव प्रसिद्धा अभवत् । तैः प्रदर्शिर्तेषु नाटकेषु सदारमे , कृष्णलीला, कुरुक्षेत्रं , दशावतार , लव-कुश च प्रसिद्धानि अभवन्। वैभवयुतं रङगमण्डपं निर्माय आधुनिकैः तन्त्रै: यथा जना: इच्छेयु: तथा निपुणै: कलाविदै: अभिनयं कारयति स्म। अतः तस्य नाटकनि प्रसिद्धानि अभवन् । कुरुक्षेत्रं, दशावतार, लव –कुश इत्येतेषु नाटकेषु नैजं गजम् अश्वं हरिणं कपोतं च उपयुक्तवान्।

प्रशस्तयः

श्री वीरण्णमहोदय: हास्यपात्रणि अधिकतया करोति स्म । नाटकप्रेमिणः ”’नाटकरत्न"’, ”’विनोदरत्नाकर"’ इति बिरुदं दत्त्वा तस्य सम्माननं कृतवन्तः । तस्य अमूल्यसेवाम् अभिलक्ष्य मैसूरु -विश्वविद्यालयिया: गौरवडाक्टरेट्पदविं दत्तवन्त्त:। एषु दिनेषु नाटकसंस्थायाः शतमानोत्स्व: प्राचलत्। एतादृशी सुप्रसिद्धा वृत्तिनाटकसंस्था राज्ये अन्यत् नास्ति । एतादृश्याः श्रेष्ठतायाः भाजनभूतः डा जि एच् वीरण्णमहोदयः१९७२ तमे वर्षे दिवङगतः।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=गुब्बि_वीरण्ण&oldid=832" इत्यस्माद् प्रतिप्राप्तम्